44054: शलालुनोऽन्यतरस्याम्¶
Padacheda: शलालुनः | S | 5 | 1 |
अन्यतरस्याम् | S | 7 | 1 |
Sutrartha¶
‘अस्य पण्यम्’ अस्मिन् अर्थे प्रथमासमर्थात् ‘शलालु’शब्दात् विकल्पेन ष्ठन् प्रत्ययः भवति, पक्षे औत्सर्गिकः ठक् अपि विधीयते ।
‘पण्य’ इति पण् (व्यवहारे) धातोः ‘यत्’ प्रत्ययान्तरूपम् । व्यवहारम् कर्तुम् / क्रेतुम् योग्यम् तत् पण्यम् । तदस्य पण्यम् (4.4.51) इत्यत्र निर्दिष्ऱे ‘पण्यम्’ अस्मिन् अर्थे सर्वेभ्यः प्रातिपदिकेभ्यः औत्सर्गिकरूपेण ठक्-प्रत्यये प्राप्ते तं बाधित्वा ‘शलालु’शब्दात् विकल्पेन ष्ठन्-प्रत्ययः भवति । (शलालु इति उकारान्तनपुंसकलिङ्गः गन्धविशेषवाची शब्दः) । यथा - शलालु पण्यमस्य सः = शलालु + ष्ठन् → शलालुक । स्त्रीत्वे विवक्षिते षिद्गौरादिभ्यश्च (4.1.41) इति ङीष्-प्रत्ययं कृत्वा - शलालुकी । अत्र ष्ठन्-प्रत्ययविधानम् ‘अन्यतरस्याम्’ कृतमस्ति, अतः पक्षे ठक् अपि भवति । यथा - शलालु पण्यमस्य सः = शलालु + ठक् → शालालुकः । स्त्रीत्वे विवक्षिते टिड्ढाणञ् (4.1.15) इति ङीप्-प्रत्ययं कृत्वा - शालालुकी ।
Vasu English Summary¶
The affix ष्ठन् comes in the sense of ‘this is whose saleable commodity’ after the word शलालुन।
Vasu English Translation¶
The affix ष्ठन् comes in the sense of ‘this is whose saleable commodity’ after the word शलालुन। This debars ठक् which comes in the alternative. शलालु is a kind of sweet scent. Thus शलालु पण्यमस्य = श꣡लालुकः f. शलालुकी꣡ ॥ In the alternative with ठक्, शालालुक꣡; f. शालालुकी꣡ ॥
Kashika¶
शलालुशब्दान्यतरस्यां ष्ठन् प्रत्ययो भवति तदस्य पण्यमित्येतस्मिन् विषये। ठकोऽपवादः, पक्षे सोऽपि भवति। शलालुशब्दो गन्धविशेषवचनः। शलालु पण्यमस्य शलालुकः। शलालुकी। शालालुकः। शालालुकी॥
Siddhanta Kaumudi¶
ष्ठन्स्यात् पक्षे ठक् । शलालुकः । शलालुकी । शालालुकः । शालालुकी । शलालुः सुगन्थिद्रव्यविशेषः ॥
Balamanorama¶
शलालुनोऽन्यतरस्याम् - शलालुनोऽन्यतरस्याम् ।ष्ठ॑न्निति शेषः ।तदस्य पण्यमित्येव ।शलालुक इति । शलालु पण्यमस्येति विग्रहः । उकः परत्वाट्ठस्य कः । षित्त्वस्य फलमाह — शलालुकीति ।
Tattvabodhini¶
शलालुनोऽन्यतरस्याम् - शलालुक इति ।इसुसुक्तान्तात्कः॑ । ठक्पक्षे त्वादिवृद्धिः । शालालुकः । मार्दङ्गिक इति । मृदङ्गशब्देन मृदङ्गवादनं लक्ष्यते । मुख्यार्थे तु प्रयोगो न भवति, अनभिधानादिति भावः ।
Padamanjari¶
शलालुक इति । ठिसुसुक्तान्तात्कःऽ ॥
Nyaas¶
शलालुकः`इति। `इसुसुक्तान्तात् कः (7.3.51) ॥
Prakriyasarvasvam¶
अस्मात् गन्धार्थाद् वा ष्ठन् । शलालुकः । शालालुकः ॥