44053: किशरादिभ्यः ष्ठन्

Padacheda: किशर-आदिभ्यः | S | 5 | 3 |

ष्ठन् | S | 1 | 1 |

Sutrartha

‘अस्य पण्यम्’ अस्मिन् अर्थे किशरादिगणस्य प्रथमासमर्थशब्देभ्यः ष्ठन्-प्रत्ययः भवति ।

‘पण्य’ इति पण् (व्यवहारे) धातोः ‘यत्’ प्रत्ययान्तरूपम् । व्यवहारम् कर्तुम् / क्रेतुम् योग्यम् तत् पण्यम् । तदस्य पण्यम् (4.4.51) इत्यत्र निर्दिष्टे ‘पण्यम्’ अस्मिन् अर्थे सर्वेभ्यः प्रातिपदिकेभ्यः औत्सर्गिकरूपेण ठक्-प्रत्यये प्राप्ते तं बाधित्वा किशरादिगणस्य शब्देभ्यः ष्ठन्-प्रत्ययः भवति । किशरादिगणे सर्वे गन्धविशेषवाचिनः शब्दाः दीयन्ते । किशरादिगणः अयम् - किशर, नरद, नलद, सुमङ्गल, तगर, गुग्गुलु, उशीर, हरिद्रा, हरिद्रायणी । उदाहरणानि - 1. किशराः पण्यमस्य सः किशरिकः । 2. नरदाः पण्यमस्य सः नरदिकः । 3. सुमङ्गलाः पण्यमस्य सः सुमङ्गलिकः । ‘ष्ठन्’ प्रत्यये षकारः इत्संज्ञकः अस्ति, तस्य प्रयोजनम् - स्त्रीत्वे विवक्षिते षिद्गौरादिभ्यश्च (4.1.41) इत्यनेन ङीष्-प्रत्ययविधानम् । यथा - किशराः पण्यमस्याः सा = किशर + ष्ठन् +ङीष् → किशर + ठ + ई [इत्संज्ञालोपः] → किशर + इक + ई [ठस्येकः (7.3.50) इति इक्-आदेशः] → किशर् + इक + ई [यस्येति च (6.4.148) इति अकारलोपः] → किशरिक + ई → किशरिक् + ई [यस्येति च (6.4.148) इति ईकारे परे अकारलोपः] → किशरिकी

Vasu English Summary

The affix ष्ठन् comes in the sense of ‘this is whose saleable commodity’ after the words किशर etc.

Vasu English Translation

The affix ष्ठन् comes in the sense of ‘this is whose saleable commodity’ after the words किशर etc. This debars ठक् ॥ The word किशर &c all denote perfumes. Thus किशराः पण्यमस्य = कि꣡शरिकः f. किशरिकी꣡ (4.1.41), न꣡रदिकः f. नरदिकी꣡ ॥

1 किसर (किशर), 2 नरद, 3 नलद, 4 स्थागल, 5 तगर, 6 गुग्गुलु, 7 उशीर, 8 हरिद्रा, 9 हरिद्रु, 10 पर्णी, 11 सुमङ्गल, 12 हरिद्रायणी.

Kashika

किशर इत्येवमादिभ्यः ष्ठन् प्रत्ययो भवति तदस्य पण्यमित्येतस्मिन् विषये। ठकोऽपवादः। किशरादयो गन्धविशेषवचनाः। किशराः पण्यमस्य किशरिकः। किशरिकी। नरदिकः। नरदिकी॥ किशर। नरद। नलद। सुमङ्गल। तगर। गुग्गुलु। उशीर। हरिद्रा। हरिद्रायणी। किशरादिः॥

Siddhanta Kaumudi

किसरं पण्यमस्य किसरिकः । षित्वान्ङीष् । किसरिकी । किसर, उशीर, नलद, इत्यादि । किसरादयः सर्वे सुगन्धिद्रव्यविशेषवाचिनः ॥

Balamanorama

किशरादिभ्यः ष्ठन् - किसरादिभ्यः ष्ठन् । तदस्य पण्यमित्येव ।ष्ठ॑न्निति च्छेदः । तदाह — षित्त्लान्ङीषिति ।

Padamanjari

किशरादयो गन्धविशेषवचनास्तद्वति वर्तन्ते, गन्धान्पिनष्टीति यथा ॥

Prakriyasarvasvam

षिदयम् । ‘किशरतगरोशीरहरिद्राहरिद्रगुग्गुलुस्थगलनलदपर्णिभ्यः’ (भो० ४-४-११०) । गन्धद्रव्यार्था एते । किशरपण्यवान् किशरिकः । तगरिकः । इत्यादि । नलदमुशीरमूलम् ॥