44055: शिल्पम्

Padacheda: शिल्पम् | S | 1 | 1 |

Sutrartha

‘अस्य शिल्पम्’ अस्मिन् अर्थे प्रथमासमर्थात् ठक् प्रत्ययः भवति ।

‘शिल्पम्’ इत्युक्ते कौशल्यम् / प्रावीण्यम् । यस्य प्राविण्यम् विद्यते, तस्य निर्देशार्थम् ‘यस्मिन् प्राविण्यम् विद्यते’ तादृशात् प्रथमासमर्थात् ठक्-प्रत्ययः भवति । यथा - 1. मृदङ्गवादनं शिल्पमस्य सः = मृदङ्ग + ठक् → मार्दङ्गिकः । 2. वीणावादनं शिल्पमस्य सः = वीणा + ठक् → वैणिकः । 3. पणववादनं शिल्पमस्य सः = पणव + ठक् → पाणविकः । ज्ञातव्यम् - अत्र उदाहरणेषु यद्यपि कौशलम् तु ‘वादनम्’ इति अस्ति, तथापि शिष्टप्रयोगमनुसृत्य तद्धितप्रत्ययः तु वाद्यवाचिशब्दात् विधीयते, न हि वादनवाचिशब्दात् । अस्मिन् विषये न्यासकारः वदति - ‘मृदङ्गशब्द एव प्रत्ययमुत्पदयति, स तु मृदङ्गवादने वर्तमानः, न मृदङ्गे। अत्रशब्दशक्तिस्वाभाव्यं हेतुः।’ इत्युक्ते अत्र ‘मृदङ्ग’शब्देन ‘मृदङ्गवादनम्’ इत्यस्यैव अर्थस्य ग्रहणं भवति करणीयं च ।

Vasu English Summary

The affix ठक् comes in the sense of ‘this is whose Art’ after a word denoting Art in the Nominative 1st-Case in construction.

Vasu English Translation

The affix ठक् comes in the sense of ‘this is whose Art’ after a word denoting Art in the Nominative 1st-Case in construction. Thus मृदङ्गवादनं शिल्पमस्य = मार्दङ्गिकः “a drummer”, “an expert in playing on mridanga drum”. So also पाणविकः, वैणिकः ॥

Bhashya

शिल्पम् (1793) (ठञ्ञोऽधिकरणम्) (अनिष्टनिवारकं भाष्यम्) किं यस्य मृदङ्गः शिल्पं स मार्दङि्गकः? किं चातः? कुम्भकारे प्राप्नोति। एवं तर्ह्युत्तरपदलोपो द्रष्टव्यः। शिल्पमिव -शिल्पम्। मृदङ्गवादनं शिल्पमस्य -मार्दङि्गकः, मौरजिकः, पाणविकः, पैठरिकः॥

Kashika

तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे ठक् प्रत्ययो भवति, यत् तत् प्रथमासमर्थं शिल्पं चेत् तद् भवति। शिल्पं कौशलम्। मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः। पाणविकः। वैणिकः। मृदङ्गवादने वर्तमानो मृदङ्गशब्दः प्रत्ययमुत्पादयति। शिल्पं तद्धितवृत्तावन्तर्भवति॥

Siddhanta Kaumudi

मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः ॥

Laghu Siddhanta Kaumudi

मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः॥

Balamanorama

शिल्पम् - शिल्पम् । तदस्य शिल्पमित्यर्थे प्रतमान्ताट्ठगित्यर्थः । क्रियासु कौशलं शिल्पम् । ननु ‘मार्दङ्गिक’ इत्युदाहरणं वक्ष्यति, तत्र मृदङ्गं शिल्पमिति कथं विग्रहः, मृदङ्गस्य शिल्पत्वाऽसंभवात् । तत्राह — मृदङ्गवादनमिति । मृदङ्गवादनविषयकमित्यर्थः । मृदङ्गशब्दो लक्षणया मृदङ्गवादनविषयक इति भावः ।

Tattvabodhini

शिल्पम् - शिल्पं — क्रियाकौशलम् । तच्च मृदङ्गवादनविषयकम् । तेन मृदङ्गवादनविषयके मृदङ्गशब्दस्य लक्षणेति निष्कर्षः ।

Padamanjari

कौशलमिति । क्रियाभ्यासपूर्वको ज्ञानविशेषः । मृदङ्गवादनं शिल्पमस्येति । मृदङ्गो वाद्यते येन तन्मृदङ्गवादनं शिल्पम् भावसाधनस्य गौणं सामानाधिकरण्यम् । मृदङ्गवादनविषयं शिल्पमस्येत्यर्थः । मार्दङ्गिक इति । ननु मृदङ्गवादनं शल्पिमस्येति विग्रहः कृतः, ततश्च मार्दङ्गवादनिक इति भवितव्यम् ? तत्राह - मृदङ्गेत्यादि । मृदङ्गवादनशब्दातु प्रत्ययो न भवत्यनभिधानात्, किं तूपचरितवृतेरपि मृदङ्गशब्दादेव भवति । अत एवानभिधानात् मृदङ्गनिष्पादनं श्लिपमस्य मार्दङ्गिकः कुम्भकार इत्यत्र न भवति ॥

Nyaas

शिल्पं कौशलम् इति। क्रियाभ्यासपूर्वको ज्ञानविशेषः। मृदङ्गवादनं शिल्पमस्य इति। मृदङ्गो वाद्यते येन शिल्पेन तन्मृदङ्गवादनम्। ननु च मृदङ्गवादनं शिल्पं यस्येति विगृह्र प्रत्यय उत्पद्यमानो मृदङ्गवादनशब्दादेव प्राप्नोति, न तु मृदङ्गशब्दात्, ततो मार्दङ्गवादनिक इति भवितव्यम्, तत्कथं मार्दङ्गिक इति भवति? इत्याह - मृदङ्गवादनम् इत्यादि। मृदङ्गशब्द एव प्रत्ययमुत्पदयति, स तु मृदङ्गवादने वर्तमानः, न मृदङ्गे। अत्रशब्दशक्तिस्वाभाव्यं हेतुः। न चायं नियमः - येन विग्रहः क्रियते, तत एव प्रत्ययेन भवितव्यमिति। यथा ह्रवेरिदं मांसमाविकम्, मांसमित्यविशब्देन विग्रहः क्रियतेऽविकशब्दादेव प्रत्ययो भवति, तथेहापि मृदङ्गवादनशब्देन विग्रहः क्रियते, प्रत्ययस्तु मृदङ्शब्दाद्भवति। तेन तत्र गतार्थत्वाच्छिल्पशब्दो न प्रयुज्यत इत्यभिप्रायः॥

Prakriyasarvasvam

<karika>तदस्य शिल्पमित्यर्थे ठक् स्यान्मालिकवैणिकौ । निर्माणवादनाद्यर्थवृत्तिः शब्द इहैष्यते ॥ २८० ॥</karika> <karika>कम्बौर्विकार ओरञ्जि वेणोर्बिल्वाद्यणि स्थितेऽथ ठकि । काम्बविको वैणविकः स्यात् काम्बुकवैणुकौ च शुद्धाभ्याम् ॥ २८१ ॥</karika>

Sutra Prayogas

  • रक्तवैणिक (शिशुपालवधम्): शिल्पम् इति ठक् ।

  • त्वरमाणशाङ्खिकसवेगवदनपवनाभिपूरितः (शिशुपालवधम्): तदस्य शिल्पम् इति ठक्।