44054: शलालुनोऽन्यतरस्याम् ========================== **Padacheda:** शलालुनः | S | 5 | 1 | अन्यतरस्याम् | S | 7 | 1 | Sutrartha --------- **'अस्य पण्यम्' अस्मिन् अर्थे प्रथमासमर्थात् 'शलालु'शब्दात् विकल्पेन ष्ठन् प्रत्ययः भवति, पक्षे औत्सर्गिकः ठक् अपि विधीयते ।** 'पण्य' इति पण् (व्यवहारे) धातोः 'यत्' प्रत्ययान्तरूपम् । व्यवहारम् कर्तुम् / क्रेतुम् योग्यम् तत् पण्यम् । **तदस्य पण्यम्** (4.4.51) इत्यत्र निर्दिष्ऱे 'पण्यम्' अस्मिन् अर्थे सर्वेभ्यः प्रातिपदिकेभ्यः औत्सर्गिकरूपेण ठक्-प्रत्यये प्राप्ते तं बाधित्वा 'शलालु'शब्दात् विकल्पेन ष्ठन्-प्रत्ययः भवति । (शलालु इति उकारान्तनपुंसकलिङ्गः गन्धविशेषवाची शब्दः) । यथा - शलालु पण्यमस्य सः = शलालु + ष्ठन् → शलालुक । स्त्रीत्वे विवक्षिते **षिद्गौरादिभ्यश्च** (4.1.41) इति ङीष्-प्रत्ययं कृत्वा - शलालुकी । अत्र ष्ठन्-प्रत्ययविधानम् 'अन्यतरस्याम्' कृतमस्ति, अतः पक्षे ठक् अपि भवति । यथा - शलालु पण्यमस्य सः = शलालु + ठक् → शालालुकः । स्त्रीत्वे विवक्षिते **टिड्ढाणञ्** (4.1.15) इति ङीप्-प्रत्ययं कृत्वा - शालालुकी । Vasu English Summary -------------------- The affix ष्ठन् comes in the sense of 'this is whose saleable commodity' after the word शलालुन। Vasu English Translation ------------------------ The affix ष्ठन् comes in the sense of 'this is whose saleable commodity' after the word शलालुन। This debars ठक् which comes in the alternative. शलालु is a kind of sweet scent. Thus शलालु पण्यमस्य = श꣡लालुकः f. शलालुकी꣡ ॥ In the alternative with ठक्, शालालुक꣡; f. शालालुकी꣡ ॥ Kashika ------- शलालुशब्दान्यतरस्यां ष्ठन् प्रत्ययो भवति तदस्य पण्यमित्येतस्मिन् विषये। ठकोऽपवादः, पक्षे सोऽपि भवति। शलालुशब्दो गन्धविशेषवचनः। शलालु पण्यमस्य शलालुकः। शलालुकी। शालालुकः। शालालुकी॥ Siddhanta Kaumudi ----------------- ष्ठन्स्यात् पक्षे ठक् । शलालुकः । शलालुकी । शालालुकः । शालालुकी । शलालुः सुगन्थिद्रव्यविशेषः ॥ Balamanorama ------------ **शलालुनोऽन्यतरस्याम्** - शलालुनोऽन्यतरस्याम् ।ष्ठ॑न्निति शेषः ।तदस्य पण्यमित्येव ।शलालुक इति । शलालु पण्यमस्येति विग्रहः । उकः परत्वाट्ठस्य कः । षित्त्वस्य फलमाह — शलालुकीति । Tattvabodhini ------------- **शलालुनोऽन्यतरस्याम्** - शलालुक इति ।इसुसुक्तान्तात्कः॑ । ठक्पक्षे त्वादिवृद्धिः । शालालुकः । मार्दङ्गिक इति । मृदङ्गशब्देन मृदङ्गवादनं लक्ष्यते । मुख्यार्थे तु प्रयोगो न भवति, अनभिधानादिति भावः । Padamanjari ----------- शलालुक इति । ठिसुसुक्तान्तात्कःऽ ॥ Nyaas ----- `शलालुकः`इति। `इसुसुक्तान्तात् कः` (7.3.51) ॥ Prakriyasarvasvam ----------------- अस्मात् गन्धार्थाद् वा ष्ठन् । शलालुकः । शालालुकः ॥