44045: सेनाया वा¶
Padacheda: सेनायाः | S | 5 | 1 |
वा | S | 0 | 0 |
Sutrartha¶
‘समवायान् समवैति’ अस्मिन् अर्थे द्वितीयासमर्थात् ‘सेना’शब्दात् विकल्पेन ण्य-प्रत्ययः भवति, पक्षे ठक् अपि विधीयते ।
‘समवाय’ इत्युक्ते समूहः । ‘समवैति’ इति ‘सम् + अव + इण्’ इत्यस्य लट्लकारस्य प्रथमपुरुषैकवचनम् । काशिकाकारः अस्य अर्थं ‘आगत्य एकदेशी भवति’ इति ब्रूते । इत्युक्ते, यदि कश्चन पदार्थः आदौ समूहे न वर्तते, परन्तु अनन्तरमागत्य समूहस्य सदस्यत्वं प्राप्नोति (समूहस्यैव अवयवरूपेण वर्तते) तर्हि सः ‘समवैति’ इत्युच्यते । समवायान् समवैति (4.4.43) अस्मिन् अर्थे प्राग्वहतेः ठक् (4.4.1) इत्यनेन औत्सर्गिकरूपेण ठक्-प्रत्यये प्राप्ते तं विकल्पेन बाधित्वा ‘सेना’शब्दात् वर्तमानसूत्रेण ण्य-प्रत्ययः अपि भवति । यथा - 1. सेनां समवैति तत् सैन्यम् । सेना + ण्य = सैन्य । अत्र सैन्य-शब्दस्य अर्थः ‘सेनायामादौ यः न विद्यते परन्तु अनन्तरम् सेनायाः एव अवयवः भवति सः (= सैनिकः)’ इति अस्ति । 2. सेनां समवैति सः सैनिकः । सेना + ठक् → सैनिक ।
Vasu English Summary¶
The affix ण्य comes optionally after the word सेना in the sense of ‘who assembles there’.
Vasu English Translation¶
The affix ण्य comes optionally after the word सेना in the sense of ‘who assembles there’. This debars ठक् which comes in the alternative. Thus सेनां समवैति = सैन्यः or सैनिकः ‘a soldier, a member of an army’.
Kashika¶
सेनाशब्दाद् वा ण्यः प्रत्ययो भवति समवायान् समवैतीत्येतस्मिन्नर्थे। ठकोऽपवादः। पक्षे सोऽपि भवति। सेनां समवैति सैन्यः। सैनिकः॥
Siddhanta Kaumudi¶
ण्यः स्यात्पक्षे ठक् । सैन्याः । सैनिकाः ॥
Balamanorama¶
सेनाया वा - सेनाया वा । ण्यः स्यादिति । शेषपूरणमिदम् । द्वितीयान्तात्सेनाशब्दात्समवैतीत्यर्थे ण्यो वा स्यादित्यर्थः । सैन्याः सैनिका इति । सेनां मेलयन्तीत्यर्थः ।
Tattvabodhini¶
सेनाया वा - सैन्याः सैनिका इति । द्वितीयान्ताण्ण्यठकौ । यत्तुसेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते॑इति निघण्टुषूक्तं तत्फलितार्थकथनपरं बोध्यम् ।
Prakriyasarvasvam¶
ण्यष्ठक् च । सेनासङ्गतः सैन्यः सैनिको वा ।।
Sutra Prayogas¶
सैन्यपरिभोगेण (रघुवंशम्): सेनाया वा इति ण्यप्रत्ययः।
सैन्याः (शिशुपालवधम्): सेनायां वा इति ण्यप्रत्ययः।