44044: परिषदो ण्यः¶
Padacheda: परिषदः | S | 5 | 1 |
ण्यः | S | 1 | 1 |
Sutrartha¶
‘समवायान् समवैति’ अस्मिन् अर्थे द्वितीयासमर्थात् ‘परिषद्’ शब्दात् ण्य-प्रत्ययः भवति ।
‘समवाय’ इत्युक्ते समूहः । ‘समवैति’ इति ‘सम् + अव + इण्’ इत्यस्य लट्लकारस्य प्रथमपुरुषैकवचनम् । काशिकाकारः अस्य अर्थं ‘आगत्य एकदेशी भवति’ इति ब्रूते । इत्युक्ते, यदि कश्चन पदार्थः आदौ समूहे न वर्तते, परन्तु अनन्तरमागत्य समूहस्य सदस्यत्वं प्राप्नोति (समूहस्यैव अवयवरूपेण वर्तते) तर्हि सः ‘समवैति’ इत्युच्यते । समवायान् समवैति (4.4.43) अस्मिन् अर्थे प्राग्वहतेः ठक् (4.4.1) इत्यनेन औत्सर्गिकरूपेण ठक्-प्रत्यये प्राप्ते तं बाधित्वा ‘परिषद्’ शब्दस्य विषये वर्तमानसूत्रेण ण्य-प्रत्ययः भवति । यथा - परिषदम् समवैति सः पारिषद्यः ।
Vasu English Summary¶
The affix ण्य comes after the word परिषद in the sense of ‘who assembles there’.
Vasu English Translation¶
The affix ण्य comes after the word परिषद in the sense of ‘who assembles there’. This debars ठक् ॥ Thus परिषदं समवैति = पारिषद्यः ‘one present in a council, an assessor, a councillor’.
Kashika¶
परिषदो ण्यः प्रत्ययो भवति समवायान् समवैतीत्येतस्मिन् विषये। ठकोऽपवादः। परिषदं समवैति पारिषद्यः॥
Siddhanta Kaumudi¶
परिषदं समवैति पारिषद्यः ॥
Balamanorama¶
परिषदो ण्यः - परिषदो ण्यः । द्वितीयान्तात्परिषच्छब्दात्समवैतीत्यर्थे ठगपवादो ण्य इत्यर्थः ।
Padamanjari¶
परितः सीदन्त्यस्यामिति परिषत्, सम्पदादित्वादधिकरणे क्विप्,’सदिरप्रतेः’ इति षत्वम् ॥
Prakriyasarvasvam¶
परिषदं समवैति, पारिषद्यः । एकदेशविकृतत्वात् पार्वद्योऽपि ।।