44046: संज्ञायां ललाटकुक्कुट्यौ पश्यति

Padacheda: संज्ञायाम् | S | 7 | 1 |

ललाट-कुक्कुट्यौ | S | 2 | 2 |

पश्यति | T | | |

Sutrartha

‘पश्यति’ अस्मिन् अर्थे द्वितीयासमर्थात् ‘ललाट’शब्दात् तथा ‘कुक्कुटी’शब्दात् संज्ञायाः विषये ठक्-प्रत्ययः भवति ।

यः ‘ललाटं पश्यति’ तथा यः ‘कुक्कुटीं पश्यति’ तस्य निर्देशं कर्तुम् द्वितीयासमर्थात् वर्तमानसूत्रेण ठक्-प्रत्ययः भवति - इति अस्य सूत्रस्य सामान्यः अर्थः । परन्तु अस्मिन् सूत्रे ‘संज्ञायाम्’ इति निर्दिश्यते । अस्य अर्थं काशिकाकारः वदति - ‘संज्ञाग्रहणमभिधेयनियमार्थं, न तु रूढ्यर्थम्’। इत्युक्ते, अत्र ‘संज्ञा’शब्दस्य ग्रहणम् ‘विशिष्ट’-अर्थस्य निर्देशार्थं कृतमस्ति, न हि रूढ्यर्थस्य निर्देशार्थम् । इत्युक्ते, शरीरस्य अवयवः ललाटः, उत पक्षिणः जातिः कुकुट्टी - एतौ अर्थौ अत्र न गृह्येते, अपि तु लक्षणार्थौ अत्र स्वीक्रियेते । सर्वेषु अवयवेषु ललाटं दूरात् दृश्यते, अतः ‘ललाटं पश्यति’ इत्युक्ते ‘दूरे तिष्ठति’ इति लाक्षणिकः अर्थः । तथैव, कुक्कुटी सदा भूमौ एव अस्ति, अतः ‘कुक्कुटीं पश्यति’ इत्युक्ते ‘अधः एव पश्यति, इतरत्र न’ इत्यर्थः । उदाहरणं पश्यामश्चेत् स्पष्टं स्यात् - 1. ललाट् + ठक् → लालाटिक । ललाटम् एव पश्यति, न अन्यत् ; सः ‘लालाटिकः’ सेवकः । यः सेवकः कार्ये कुशलः नास्ति, स्वामिनः दूरे एव तिष्ठति, समीपे न आगच्छति, तस्य निर्देशार्थमस्य शब्दस्य प्रयोगः भवति । सर्वेभ्यः अवयवेभ्यः ललाटम् दूरात् द्रष्टुं शक्यते, अतः ‘ललाटमेव पश्यति’ इत्यस्य अर्थः ‘दूरे तिष्ठति’ इति कर्तव्यः - इति काशिकाकारस्य मतम् । 2. कुक्कुटी + ठक् → कौक्कुटिकः । कुक्कुटीम् एव पश्यति, न अन्यत् ; सः ‘कौक्कुटिकः’ भिक्षुः । यथा कुकुट्टी बहु दूरे न डयते, स्वस्थानस्य समीपे एव कूर्दति ; तथैव, यस्य दृष्टिः दूरा नास्ति, केवलं स्वस्य निकटे एव वर्तते, सः ‘कुक्कुटीम् पश्यति’ इत्युच्यते । एतादृशस्य मनुष्यस्य निर्देशः ‘कौक्कुटिक’ शब्देन क्रियते । अस्य स्पष्टीकरणार्थं काशिकाकारः वदति - ‘यः पादविक्षेपदेशे चक्षुः संयम्य गच्छति, सः कौक्कुटिकः’ । इत्युक्ते, यः अधोमुखं चलति, यस्य च दृष्टिः तस्य पादयोः एव अस्ति, इतरत्र न; सः कौक्कुटिकः ।

Vasu English Summary

The affix ठक् comes in the sense of ‘who sees that’ after the words 1. ललाट and 2. कुक्कुटी in the Accusative -2nd case in construction, the whole word being a Name.

Vasu English Translation

The affix ठक् comes in the sense of ‘who sees that’ after the words 1. ललाट and 2. कुक्कुटी in the Accusative -2nd case in construction, the whole word being a Name. Thus ललाटं पश्यति = लालाटिकः ‘a non-attentive servant’ lit. ‘who alway looks at the fore-head of his master from a distance, keeps himself aloof, does not come near to perform any work.’ So also कौक्कुटिकः ‘a religious mendicant, a Bhikshu.’ The space of ground over which a hen can fly without falling, is to be understood here by the word कुक्कुटी ॥ In other words, a small space of ground, for hens cannot sustain their flight for a long distance. Therefore, owing to the smallness of space, the mendicant walks looking down over the ground, and hence he is called कौक्कुटिकः ॥ The word also means ‘a hypocrite with down-cast eyes.’

Kashika

ललाटकुक्कुटीशब्दाभ्यां तदिति द्वितीयासमर्थाभ्यांः पश्यतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति संज्ञायां विषये। संज्ञाग्रहणमभिधेयनियमार्थम्, न तु रूढ्यर्थम्। ललाटं पश्यति लालाटिकः सेवकः। कौक्कुटिको भिक्षुः। सर्वावयवेभ्यो ललाटं दूरे दृश्यते। तदनेन ललाटदर्शनेन सेवकस्य स्वामिनं प्रत्यनुपश्लेषः कार्येष्वनुपस्थायित्वं लक्ष्यते। लालाटिकः सेवकः। स्वामिनः कार्येषु नोपतिष्ठत इत्यर्थः। कुक्कुटीशब्देनापि कुक्कुटीपातो लक्ष्यते। देशस्याल्पतया हि भिक्षुरविक्षिप्तदृष्टिः पादविक्षेपदेशे चक्षुः संयम्य गच्छति, स उच्यते कौक्कुटिक इति॥

Siddhanta Kaumudi

ललाटं पश्यति लालाटिकः सेवकः । कुक्कुटीशब्देन तत्पातार्हः स्वल्पदेशो लक्ष्यते ॥ कौक्कुटिकोभिक्षुः ॥

Balamanorama

संज्ञायां ललाटकुक्कुट्यौ पश्यति - संज्ञायाम् । ललालकुक्कुटीशब्दाभ्यां फश्यतीत्यर्थे ठक् स्यात्संज्ञायामित्यर्थः । संज्ञा=रूढिः, न त्वाधुनिकः सङ्खेतः । लालाटिकः शेवक इति । दूरे स्थधित्वा प्रभोर्ललाटं पश्यति, नतु कार्ये प्रवर्तत इत्यर्थः ।लालाटिकः प्रभोर्भालदशीं कार्याऽक्षमश्च यः॑ इत्यमरः । कौक्कुटिक इति । कुक्कुटीपतनार्हदेशं पश्यतीत्यर्थः ।

Tattvabodhini

संज्ञायां ललाटकुक्कुट्यौ पश्यति - संज्ञायाम् । ललाटकुक्कुटीशब्दाभ्यां द्वितीया । ताभ्यां पश्यतीत्यर्थे ठक्स्यात् । सम्यग्ज्ञानं संज्ञा=प्रसिद्धिः, तस्याम् । प्रसिद्धिविषयभूतेऽर्थं इत्यर्थः । लालाटिक इति । दूरे स्थित्वा प्रभोर्ललाटं पश्यति न तु कार्येषूपतिष्ठत इत्यर्थः ।लालाटिकः प्रभोर्भालदर्शी कार्याऽक्षमश्च यः॑ । कौक्कुटिको भिक्षुरिति । संन्यासी हि पादविक्षेपपर्याप्तदेशपर्यन्तमेव चक्षुः संयम्य गच्छतीति भावः ।

Padamanjari

संज्ञानं संज्ञा उ प्रतीतिः, प्रसिद्धिरित्यर्थः । अभिधेयनियमार्थमिति । अभिधेये सेवकविशेषे भिक्षुविशेषे च नियमः, तत्रैव वृत्तिर्यथा स्यादित्येवमर्थमित्यर्थः । न रूढ।ल्र्थमिति । लालाटिक-कौक्कुटिकशब्दयोर्डित्थादिवदरूढत्वात् तन्नियोगेन वर्तते, यावद्योगे च वर्तते । योगेऽपि ललाटकुक्कुटीदर्शनमात्रेण ठञ् न भवतीत्येतावत्संज्ञाग्रहणेन प्रसिद्ध्युपसंग्रहार्थे न क्रियते । यादृशस्तु योगोऽत्र विवक्षितस्तं दर्शयति - सर्वावयवेभ्य इत्यादि । अनुपश्लेषस्य विवरणं कार्येष्वनुपस्थायित्वमिति, दूरे स्थितो ललाटमेव पश्यति, न पुनः कार्येषूपतिष्ठत इत्यर्थः । कुक्कुटीपातो लक्ष्यते इति । यावति देशे कुक्कुटी पतति यावन्तं देशं समतीत्य निपतीतुं समर्था स देशो लक्ष्यत इत्यर्थः । अनेनापि प्रकारेण देशस्याल्पत्वं लक्ष्यते, कुक्कुटी पततु मा वाऽपतदित्याह - देशस्याल्पतयेति । एतदेव स्पष्टयति - यो हि भिक्षुरिति । भिक्षुः उ संन्यासी ॥

Nyaas

अभिधेयनियमार्थः इति। अभिधेये सेवकविशेषे च प्रत्ययान्तस्य नियमः। तत्रैव वृत्तिर्यथा स्यादित्येवमर्थम्। न तु रूढर्थम् इति। लालाटिककौक्कुटिकशब्दयो रूढआमेकत्वात्।तदनेन इत्यादि। यत एव सर्वावयवेब्यो ललाटं दूरे दृश्यते, तस्मादनेन ललाटदर्शनेन सेवकस्य स्वामिनं प्रत्यनुपश्लेषो लभ्यते। न त्वत्र ललाटार्थो दर्शनं चास्ति। यादृशश्चानुपश्लेषो विवक्षितः, तं कार्येष्वनुपस्थायित्वम् इत्यनेन दर्शयति।कुक्कुटीशब्देनापि इत्यादि। कक्कुटआ ह्रल्पदेशविषयः पातो भवति। तदनेन कुक्कुटीपातदेशस्याल्पता लक्ष्यते। न त्वत्र कुक्कुटर्थो देशश्च विद्यते॥

Prakriyasarvasvam

आभ्यां तत्पश्यतीत्यर्थे नाम्नि ठक् ।। <karika>लालाटिकः सदा राज्ञो ललाटं वीक्ष्य भाववित् । कार्यबाह्यतया दूरात् फालमात्रेक्षकोऽथवा ।। २७६ ।। कुक्कुटीपातमात्रं यो मार्गं शुद्धयै निरीक्षते । न दूरं वीक्षते शान्तो भिक्षुः कौक्कुटिको हि सः ।। २७७ ।। व्याजेन वा तथा पश्यन् भिक्षुरेव तथोच्यते । उपचारात् व्याजवन्तः सर्वे वाच्या इतीतरे ।। २७८ ।।</karika>