44045: सेनाया वा ================ **Padacheda:** सेनायाः | S | 5 | 1 | वा | S | 0 | 0 | Sutrartha --------- **'समवायान् समवैति' अस्मिन् अर्थे द्वितीयासमर्थात् 'सेना'शब्दात् विकल्पेन ण्य-प्रत्ययः भवति, पक्षे ठक् अपि विधीयते ।** 'समवाय' इत्युक्ते समूहः । 'समवैति' इति 'सम् + अव + इण्' इत्यस्य लट्लकारस्य प्रथमपुरुषैकवचनम् । काशिकाकारः अस्य अर्थं 'आगत्य एकदेशी भवति' इति ब्रूते । इत्युक्ते, यदि कश्चन पदार्थः आदौ समूहे न वर्तते, परन्तु अनन्तरमागत्य समूहस्य सदस्यत्वं प्राप्नोति (समूहस्यैव अवयवरूपेण वर्तते) तर्हि सः 'समवैति' इत्युच्यते । **समवायान् समवैति** (4.4.43) अस्मिन् अर्थे **प्राग्वहतेः ठक्** (4.4.1) इत्यनेन औत्सर्गिकरूपेण ठक्-प्रत्यये प्राप्ते तं विकल्पेन बाधित्वा 'सेना'शब्दात् वर्तमानसूत्रेण ण्य-प्रत्ययः अपि भवति । यथा - 1. सेनां समवैति तत् सैन्यम् । सेना + ण्य = सैन्य । अत्र सैन्य-शब्दस्य अर्थः 'सेनायामादौ यः न विद्यते परन्तु अनन्तरम् सेनायाः एव अवयवः भवति सः (= सैनिकः)' इति अस्ति । 2. सेनां समवैति सः सैनिकः । सेना + ठक् → सैनिक । Vasu English Summary -------------------- The affix ण्य comes optionally after the word सेना in the sense of 'who assembles there'. Vasu English Translation ------------------------ The affix ण्य comes optionally after the word सेना in the sense of 'who assembles there'. This debars ठक् which comes in the alternative. Thus सेनां समवैति = सैन्यः or सैनिकः 'a soldier, a member of an army'. Kashika ------- सेनाशब्दाद् वा ण्यः प्रत्ययो भवति समवायान् समवैतीत्येतस्मिन्नर्थे। ठकोऽपवादः। पक्षे सोऽपि भवति। सेनां समवैति सैन्यः। सैनिकः॥ Siddhanta Kaumudi ----------------- ण्यः स्यात्पक्षे ठक् । सैन्याः । सैनिकाः ॥ Balamanorama ------------ **सेनाया वा** - सेनाया वा । ण्यः स्यादिति । शेषपूरणमिदम् । द्वितीयान्तात्सेनाशब्दात्समवैतीत्यर्थे ण्यो वा स्यादित्यर्थः । सैन्याः सैनिका इति । सेनां मेलयन्तीत्यर्थः । Tattvabodhini ------------- **सेनाया वा** - सैन्याः सैनिका इति । द्वितीयान्ताण्ण्यठकौ । यत्तुसेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते॑इति निघण्टुषूक्तं तत्फलितार्थकथनपरं बोध्यम् । Prakriyasarvasvam ----------------- ण्यष्ठक् च । सेनासङ्गतः सैन्यः सैनिको वा ।। Sutra Prayogas -------------- * **सैन्यपरिभोगेण** (रघुवंशम्): `सेनाया वा` इति ण्यप्रत्ययः। * **सैन्याः** (शिशुपालवधम्): `सेनायां वा` इति ण्यप्रत्ययः।