44044: परिषदो ण्यः ================== **Padacheda:** परिषदः | S | 5 | 1 | ण्यः | S | 1 | 1 | Sutrartha --------- **'समवायान् समवैति' अस्मिन् अर्थे द्वितीयासमर्थात् 'परिषद्' शब्दात् ण्य-प्रत्ययः भवति ।** 'समवाय' इत्युक्ते समूहः । 'समवैति' इति 'सम् + अव + इण्' इत्यस्य लट्लकारस्य प्रथमपुरुषैकवचनम् । काशिकाकारः अस्य अर्थं 'आगत्य एकदेशी भवति' इति ब्रूते । इत्युक्ते, यदि कश्चन पदार्थः आदौ समूहे न वर्तते, परन्तु अनन्तरमागत्य समूहस्य सदस्यत्वं प्राप्नोति (समूहस्यैव अवयवरूपेण वर्तते) तर्हि सः 'समवैति' इत्युच्यते । **समवायान् समवैति** (4.4.43) अस्मिन् अर्थे **प्राग्वहतेः ठक्** (4.4.1) इत्यनेन औत्सर्गिकरूपेण ठक्-प्रत्यये प्राप्ते तं बाधित्वा 'परिषद्' शब्दस्य विषये वर्तमानसूत्रेण ण्य-प्रत्ययः भवति । यथा - परिषदम् समवैति सः पारिषद्यः । Vasu English Summary -------------------- The affix ण्य comes after the word परिषद in the sense of 'who assembles there'. Vasu English Translation ------------------------ The affix ण्य comes after the word परिषद in the sense of 'who assembles there'. This debars ठक् ॥ Thus परिषदं समवैति = पारिषद्यः 'one present in a council, an assessor, a councillor'. Kashika ------- परिषदो ण्यः प्रत्ययो भवति समवायान् समवैतीत्येतस्मिन् विषये। ठकोऽपवादः। परिषदं समवैति पारिषद्यः॥ Siddhanta Kaumudi ----------------- परिषदं समवैति पारिषद्यः ॥ Balamanorama ------------ **परिषदो ण्यः** - परिषदो ण्यः । द्वितीयान्तात्परिषच्छब्दात्समवैतीत्यर्थे ठगपवादो ण्य इत्यर्थः । Padamanjari ----------- परितः सीदन्त्यस्यामिति परिषत्, सम्पदादित्वादधिकरणे क्विप्,'सदिरप्रतेः' इति षत्वम् ॥ Prakriyasarvasvam ----------------- परिषदं समवैति, पारिषद्यः । एकदेशविकृतत्वात् पार्वद्योऽपि ।।