44043: समवायान् समवैति¶
Padacheda: समवायान् | S | 2 | 3 |
समवैति | T | | |
Sutrartha¶
‘समवायान् समवैति’ अस्मिन् अर्थे द्वितीयासमर्थात् ठक् प्रत्ययः भवति ।
‘समवाय’ इत्युक्ते समूहः । ‘समवैति’ इति ‘सम् + अव + इण्’ इत्यस्य लट्लकारस्य प्रथमपुरुषैकवचनम् । काशिकाकारः अस्य अर्थं ‘आगत्य एकदेशी भवति’ इति ब्रूते । इत्युक्ते, यदि कश्चन पदार्थः आदौ समूहे न वर्तते, परन्तु अनन्तरमागत्य समूहस्य सदस्यत्वं प्राप्नोति (समूहस्यैव अवयवरूपेण वर्तते) तर्हि सः ‘समवैति’ इत्युच्यते । एतादृशस्य पदार्थस्य निर्देशं कर्तुम् द्वितीयासमर्थात् समवायवाचिशब्दात् ठक्-प्रत्ययः भवति । यथा - 1. समाजम् समवैति सः सामाजिकः । आदौ समाजे नास्ति, परन्तु अनन्तरमागत्य समाजस्यैव अवयवः भवति इत्यर्थः । 2. समूहम् समवैतिः सः सामूहिकः । 3. सन्निवेशं समवैति सः सान्निवेशिकः । 4. समवायम् समवैति सः सामवायिकः । ज्ञातव्यम् - अस्मिन् सूत्रे ‘समवायान्’ इति बहुवचनस्य निर्देशः एतत् दर्शयति यत् अत्र ‘शब्दग्रहणम्’ न इष्यते, अपितु अर्थग्रहणम् इष्यते । इत्युक्ते, ‘समवाय’ अस्मिन् अर्थे यः कोऽपि शब्दः प्रयुज्यते, तस्मात् अनेन सूत्रेण ठक् प्रत्ययः भवितुमर्हति ।
Vasu English Summary¶
The affix ठन् and ठक् comes after the words in the Accusative -2nd case in construction denoting combination in the sense ‘who assembles there’.
Vasu English Translation¶
The affix ठन् and ठक् comes after the words in the Accusative -2nd case in construction denoting combination in the sense ‘who assembles there’. The word समवाय means ‘combination, collection &c’. The word समवायान् is in the plural number in the sutra, indicating that the svarupa-vidhi (1.1. 69) does not apply; the affix being applied not only to the word-form समवाय but to its synonyms also. समवैति means coming together. Thus समवायान् समवैति = सामवायिकः ‘who assembles in an assembly’. So also सामाजिकः, सामूहिकः, सान्निवेशिकः ॥
Kashika¶
समवायवाचिभ्यः शब्देभ्यस्तदिति द्वितीयासमर्थेभ्यः समवैतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। समवायः समूह उच्यते, न संप्रधारणा। समवायानिति बहुवचनं स्वरूपविधिनिरासार्थम्। समवैति आगत्य तदेकदेशीभवतीत्यर्थः। समवायान् समवैति सामवायिक ः। सामाजिकः। सामूहिकः। सान्निवेशिकः॥
Siddhanta Kaumudi¶
सामवायिकः । सामूहिकः ॥
Balamanorama¶
समवायान् समवैति - समवायान्समवैति । द्वितीयान्तेभ्यः समवायवाचिशब्देभ्यः समवैतीत्यर्थे ठगित्यर्थः । बहुवचनात्तदर्थवाचिशब्दग्रहणम् । समवैति=मेलयतीत्यर्थः ।
Tattvabodhini¶
समवायान् समवैति - समवायान् । समूहवाचिभ्यो द्वितीयान्तेभ्यष्ठक्स्यात्समवैतीत्यर्थे । इह समवपूर्वस्येणोऽर्थः प्राविश्यैकदेशीभवनम् । तत्र गुणभूतप्रवेशाऽपेक्षया समवायानिति द्वितीयानिर्देशः । विशेष्यापेक्षया तु लोके सप्तमी प्रायेण प्रयुज्यते -॒कुरुक्षेत्रे समवेताः॑इति यथा ।एत्येधती॑ति वृद्धिरिह न भवति, एजादित्वाऽभावात् ।
Padamanjari¶
समवायः समूह उच्यत इति । समवयन्ति तस्मिन्निति कृत्वा । न सम्प्रधारणेति । समयपूर्वस्येणः सम्प्रधारणायामपि प्रयोगोऽस्तीतिमन्यते । समागत्य तदेकदेशीभवतीत्यर्थ इति । तत्र गुणभूतसमागमापेक्षया समवायमिति द्वितीयानिर्देशः । लोके तु प्रायेण सप्तमी प्रयुज्यते - द्रव्ये गुणाः समवयन्तीति ॥
Nyaas¶
समवायः समूह उच्यते, न सम्प्रसारणा इति। कुत एतत्? तत्र समवैतीत्यस्य प्रत्ययार्थस्यायोगात्। आगत्य तदेकदेशीभवतीति समवैतिशब्दस्यार्थः। सम्प्रधारणा चामूर्तिः, चैतसिको धर्मः, न च तदेकदेशीभवितुं शक्यते। तस्मात् समूह एव समवायशब्दस्यार्थः, नैतीत्यस्यार्थः। एतीति वर्तमाने समवैतीति वचनमर्थविशेषप्रतिपत्त्यर्थम्। एतीति प्राप्तिमात्रं कुर्वन्नुच्यते। समवैतीत्यागत्य तदेकदेशीभवतीति॥
Prakriyasarvasvam¶
एतद्वाचिभ्यस्तमनुप्रविशतीत्यर्थे ठक् । सामवायिकः । सामाजिकः ॥
Sutra Prayogas¶
सामवायिकाः (शिशुपालवधम्): समवायान्समवैति इति ठक् ।