44042: प्रतिपथमेति ठंश्च¶
Padacheda: प्रतिपथम् | S | 2 | 1 |
एति | T | | |
ठन् | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
‘एति’ अस्मिन् अर्थे द्वितीयासमर्थात् ‘प्रतिपथ’शब्दात् ठक् तथा ठन् प्रत्ययौ भवतः ।
‘प्रतिपथम्’ शब्दस्य अर्थद्वयम् भवति - (अ) प्रत्येकः मार्गः । (पन्थानं पन्थानं प्रति प्रतिपथम् ) । (आ) मुख्यं मार्गम् विहाय अन्यः मार्गः । एतयोः द्वयोः अपि विषये यः ‘प्रतिपथम् एति’ (= गच्छति) तस्य निर्देशं कर्तुम् ‘प्रतिपथ’ शब्दात् ठक् तथा ठन् प्रत्ययौ भवतः । यथा - 1. प्रतिपथम् एति सः = प्रतिपथ + ठक् → प्रातिपथिक । 2. प्रतिपथम् एति सः = प्रतिपथ + ठन् → प्रतिपथिक ।
Vasu English Summary¶
The affix ठन् and ठक् comes after the word प्रतिपथम् , in the Accusative -2nd case in construction in the sense of ‘who goes’.
Vasu English Translation¶
The affix ठन् and ठक् comes after the word प्रतिपथम् , in the Accusative -2nd case in construction in the sense of ‘who goes’. Thus प्रतिपथमेति = प्र꣡तिपथिकः or प्रातिपथिकः꣡ “who goes along the road” the ठक् causes Vriddhi (7.2.118) whilst ठन् does not.
Kashika¶
प्रतिपथशब्दाद् द्वितीयासमर्थाद् एतीत्यस्मिन्नर्थे ठन् प्रत्ययो भवति, चकारात् ठक् च। प्रतिपथमेति प्रतिपथिकः। प्रातिपथिकः॥
Siddhanta Kaumudi¶
प्रतिपथमेति प्रातिपथिकः ॥
Balamanorama¶
प्रतिपथमेति ठंश्च - प्रतिपथमेति ठंश्च । प्रतिपथमित्यव्ययीभावादेतीत्यर्थे ठन्ठक्च स्यादित्यर्थः । प्रतिपथमिति ।लक्षणेनाभिप्रती आभिमुख्ये॑ इत्यव्ययीभावः । ‘ऋक्पूः’ इति समासान्तः ।
Tattvabodhini¶
प्रतिपथमेति ठंश्च - प्रतिपथमिति । वीप्सयामाभिमुख्ये वाऽव्ययीभावः ।ऋक्पू॑रिति समासान्तः ।
Padamanjari¶
प्रतिपथमिति । पूर्ववद्वीप्सायामव्ययीभावः, ठृक्पूरब्धूःऽ इत्यकारः समासान्तः ॥
Nyaas¶
प्रतिपधिकम् इति। पूर्ववद्वीप्सायाम्, आभिमुख्ये वाऽव्ययीभावः। पन्थानं पन्थानं प्रति प्रतिपथम्। आभिमुख्ये - पथ आभिमुख्यं प्रतिपथम्। यः सर्वान् पथ एति, आभिमुख्येन वा पन्थानमेति स प्रातिपदिक इति चाभिधीयते॥
Prakriyasarvasvam¶
सर्वमार्गान् गच्छन्, प्रतिपथिकः । प्रातिपथिकः ।।