44042: प्रतिपथमेति ठंश्च ======================== **Padacheda:** प्रतिपथम् | S | 2 | 1 | एति | T | | | ठन् | S | 1 | 1 | च | S | 0 | 0 | Sutrartha --------- **'एति' अस्मिन् अर्थे द्वितीयासमर्थात् 'प्रतिपथ'शब्दात् ठक् तथा ठन् प्रत्ययौ भवतः ।** 'प्रतिपथम्' शब्दस्य अर्थद्वयम् भवति - (अ) प्रत्येकः मार्गः । (पन्थानं पन्थानं प्रति प्रतिपथम् ) । (आ) मुख्यं मार्गम् विहाय अन्यः मार्गः । एतयोः द्वयोः अपि विषये यः 'प्रतिपथम् एति' (= गच्छति) तस्य निर्देशं कर्तुम् 'प्रतिपथ' शब्दात् ठक् तथा ठन् प्रत्ययौ भवतः । यथा - 1. प्रतिपथम् एति सः = प्रतिपथ + ठक् → प्रातिपथिक । 2. प्रतिपथम् एति सः = प्रतिपथ + ठन् → प्रतिपथिक । Vasu English Summary -------------------- The affix ठन् and ठक् comes after the word प्रतिपथम् , in the Accusative -2nd case in construction in the sense of 'who goes'. Vasu English Translation ------------------------ The affix ठन् and ठक् comes after the word प्रतिपथम् , in the Accusative -2nd case in construction in the sense of 'who goes'. Thus प्रतिपथमेति = प्र꣡तिपथिकः or प्रातिपथिकः꣡ "who goes along the road" the ठक् causes *Vriddhi* (7.2.118) whilst ठन् does not. Kashika ------- प्रतिपथशब्दाद् द्वितीयासमर्थाद् एतीत्यस्मिन्नर्थे ठन् प्रत्ययो भवति, चकारात् ठक् च। प्रतिपथमेति प्रतिपथिकः। प्रातिपथिकः॥ Siddhanta Kaumudi ----------------- प्रतिपथमेति प्रातिपथिकः ॥ Balamanorama ------------ **प्रतिपथमेति ठंश्च** - प्रतिपथमेति ठंश्च । प्रतिपथमित्यव्ययीभावादेतीत्यर्थे ठन्ठक्च स्यादित्यर्थः । प्रतिपथमिति ।लक्षणेनाभिप्रती आभिमुख्ये॑ इत्यव्ययीभावः । 'ऋक्पूः' इति समासान्तः । Tattvabodhini ------------- **प्रतिपथमेति ठंश्च** - प्रतिपथमिति । वीप्सयामाभिमुख्ये वाऽव्ययीभावः ।ऋक्पू॑रिति समासान्तः । Padamanjari ----------- प्रतिपथमिति । पूर्ववद्वीप्सायामव्ययीभावः, ठृक्पूरब्धूःऽ इत्यकारः समासान्तः ॥ Nyaas ----- `प्रतिपधिकम्` इति। पूर्ववद्वीप्सायाम्, आभिमुख्ये वाऽव्ययीभावः। पन्थानं पन्थानं प्रति प्रतिपथम्। आभिमुख्ये - पथ आभिमुख्यं प्रतिपथम्। यः सर्वान् पथ एति, आभिमुख्येन वा पन्थानमेति स प्रातिपदिक इति चाभिधीयते॥ Prakriyasarvasvam ----------------- सर्वमार्गान् गच्छन्, प्रतिपथिकः । प्रातिपथिकः ।।