44041: धर्मं चरति

Padacheda: धर्मम् | S | 2 | 1 |

चरति | T | | |

Sutrartha

‘चरति’ अस्मिन् अर्थे द्वितीयासमर्थात् ‘धर्म’शब्दात् ठक् प्रत्ययः भवति ।

यः धर्मम् चरति (धर्मसम्मतं वर्तनं करोति इत्यर्थः) तस्य निर्देशार्थम् द्वितीयासमर्थात् ‘धर्म’शब्दात् ठक् प्रत्ययः भवति । धर्मं चरति सः धार्मिकः । अत्र एकं वार्त्तिकं ज्ञातव्यम् - <!अधर्मात् चेति वक्तव्यम्!> । इत्युक्ते, ‘अधर्म’ शब्दात् अपि ठक्-प्रत्ययः भवति । यथा - अधर्मं चरति सः = आधर्मिकः ।

Vasu English Summary

The affix ठक् comes after the word धर्मं being in the Accusative -2nd case in construction in the sense of ‘who practices that’.

Vasu English Translation

The affix ठक् comes after the word धर्मं being in the Accusative -2nd case in construction in the sense of ‘who practices that’. Thus धर्मम् चरति = धार्मिकः “religious”. So also आधर्मिकः “irreligious undutiful”, by a Vartika.

Bhashya

धर्मं चरति (1789) (ठकोऽधिकरणम्) (5570 पूरकवार्तिकम्॥ 1 ॥) - अधर्माच्च - (भाष्यम्) अधर्माच्चेति वक्तव्यम्। आधर्मिकः॥

Kashika

धर्मशब्दात् तदिति द्वितीयासमर्थात् चरतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। चरतिरासेवायां नानुष्ठानमात्रे। धर्मं चरति धार्मिकः॥ अधर्माच्चेति वक्तव्यम्॥ आधर्मिकः॥

Siddhanta Kaumudi

धार्मिकः ।<!अधर्माच्चेति वक्तव्यम् !> (वार्तिकम्) ॥ आधर्मिकः ॥

Laghu Siddhanta Kaumudi

धार्मिकः अधर्माच्चेति वक्तव्यम् (वार्त्तिकम्)। आधर्मिकः॥

Balamanorama

धर्मं चरति - धर्मं चरति । चरतीत्यर्थे द्वितीयान्ताद्धर्मशब्दाट्ठगित्यर्थः । अधर्माच्चेतीति ।ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ती॑ति तदन्ताऽग्रहणादप्राप्ते आरम्भः ।

Tattvabodhini

धर्मं चरति - धर्म चरति । चरतिरिहाऽऽसेवायां, न त्वनुष्ठानमात्रे । तेन दैववशाद्धर्मे प्रवृत्तो दुर्वृत्तो धार्मिक इति नोच्यते । आसेवा हि स्वारसिकि प्रवृत्तिः । एवं दैववशादधर्मे प्रवृत्तो यः सद्वृत्तः स आधर्मिक इति नोच्यते ।

Padamanjari

अधर्माच्चेति वक्तव्यमिति । ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधाद्वचनम् । आधर्मिक इति । नञत्र विरोधिवचनः, पापाचार इत्यर्थः ॥

Nyaas

चरतिरासेवायाम् इति। आसेवा = पौनःपुन्यम्।अधर्माच्च वक्तव्यम् इति। अधर्मशब्दाच्चरतीत्येतस्मिन्नर्थे ठग्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - पूर्वसूत्रादिह चकारऽनुवर्तते, स चानुक्तसमुच्चयार्थो वेदितव्यः, तेनाधर्मादपि भविष्यति॥

Prakriyasarvasvam

धार्मिकः । ‘अधर्माच्च वाच्यम्’ (वा०) आधार्मिकः ॥

Vartika

अधर्माच्चेति वक्तव्यम् ।