44027: ओजस्सहोऽम्भसा वर्तते

Padacheda: ओजः-सहः-अम्भसा | S | 3 | 1 |

वर्तते | T | | |

Sutrartha

‘वर्तते’ अस्मिन् अर्थे ओजस्, सहस् तथा अम्भस् - एतेभ्यः तृतीयासमर्थेभ्यः शब्देभ्यः ठक्-प्रत्ययः भवति ।

‘ओजस्’, ‘सहस्’, ‘अम्भस्’ - एतानि सर्वाणि सकारान्तप्रातिपदिकानि । एतेभ्यः ‘वर्तते’ अस्मिन् अर्थे ठक्-प्रत्ययः भवति । यथा - 1. ओजस् इत्युक्ते तेजः, शक्तिः, बलम् । ओजसा वर्तते सः = ओजस् + ठक् → औजसिकः शूरः । 2. सहस् इत्युक्ते चौरकर्म, स्तेयम् । सहसा वर्तते सः = सहस् + ठक् → साहसिकः चौरः । 3. अम्भस् इत्युक्ते जलम् । अम्भसा सह वर्तते सः = अम्भस् + ठक् → आम्भसिकः मत्स्यः । प्रक्रियायाः उदाहरणम् - ओजस् + ठक् → ओजस् + इक [ठस्येकः (7.3.50) इति इक्-आदेशः] → औजस् + इक [किति च (7.2.118) इति आदिवृद्धिः] → औजसिक

Vasu English Summary

The affix ठक् comes in the sense of ‘it exists’ after the words 1. ओजस् 2. सहस् and 3. अभस् being in the Instrumental -3rd case in construction.

Vasu English Translation

The affix ठक् comes in the sense of ‘it exists’ after the words 1. ओजस् 2. सहस् and 3. अभस् being in the Instrumental -3rd case in construction. Thus ओजसा वर्तते = औजसिकः शूरः ‘a hero’ lit. possessed with energy. So also:- ‘a thief.’ आम्भसिकः ‘a fish.’

Kashika

ओजस् सहस् अम्भस् इत्येतेभ्यस्तृतीयासमर्थेभ्यो वर्तत इत्यर्थे ठक् प्रत्ययो भवति। ओजसा वर्तत औजसिकः शूरः। साहसिकश्चौरः। आम्भसिको मत्स्यः॥

Siddhanta Kaumudi

ओजसा वर्तते औजसिकः शूरः । साहसिकश्चौरः । आम्भसिको मत्स्यः ॥

Balamanorama

ओजस्सहोऽम्भसा वर्तते - ओजःसहो । वर्तते व्याप्रियते इत्यर्थे ओजस्, सहस्, अम्भस् — एभ्यः तृतीयान्तेभ्यष्ठक् स्यादित्यर्थः । औजसिक इति । ओजसा बलेन वर्तते, युद्धे व्याप्रियत इत्यर्थः । साहसिक इति । सहसा=प्राणवियोगाभ्युपगमेन स्तेये व्याप्रियत इत्यर्थः । आम्भसिक इति । अम्भसा हेतुना संचारे व्याप्रियत इत्यर्थः ।

Nyaas

वर्तते इति। चेष्टत इत्यर्थः। तत्प्रक्रियाविशेषणम् इत्यादि। अनेन हि वृत्त्यर्थस्य कर्तव्यतामाचष्ट। वर्तत इति वर्तमानं करोत्यर्थः। स हि वृत्त्यर्थः कर्तव्यतया सम्बध्यमानः कर्म सम्पद्यते। तत्सामानादिकरण्याच्च तद्विशेषणमपि कर्तव्यतया युज्यते। तदपि कर्म च प्रसक्तम्। क्रियाविशेषणस्यैवाकर्मकेऽपि धातौ कर्मत्वमाख्यातम्। तदित्यनेन द्वितीयासमर्थविभक्तौ लब्धायामपि द्वितीयान्ता इह प्रकृतयो निर्दिष्टा विस्पष्टार्थम्; अन्यथा प्रत्ययविधौ पञ्चमी न्याय्येति तदन्ता एव निर्दिश्येरन्॥

Prakriyasarvasvam

एभ्यस्तेन वर्तत इत्यर्थे ठक् । ओजसा वृत्तिं कुर्वन्नौजसिकः । साहसिकः । आम्भसिको मत्स्यः । सजलमेघो वा ॥

Sutra Prayogas

  • साहसिक्यात् (शिशुपालवधम्): ओजःसहोम्भसा वर्तते इति ठक् प्रत्ययः।