44027: ओजस्सहोऽम्भसा वर्तते =========================== **Padacheda:** ओजः-सहः-अम्भसा | S | 3 | 1 | वर्तते | T | | | Sutrartha --------- **'वर्तते' अस्मिन् अर्थे ओजस्, सहस् तथा अम्भस् - एतेभ्यः तृतीयासमर्थेभ्यः शब्देभ्यः ठक्-प्रत्ययः भवति ।** 'ओजस्', 'सहस्', 'अम्भस्' - एतानि सर्वाणि सकारान्तप्रातिपदिकानि । एतेभ्यः 'वर्तते' अस्मिन् अर्थे ठक्-प्रत्ययः भवति । यथा - 1. ओजस् इत्युक्ते तेजः, शक्तिः, बलम् । ओजसा वर्तते सः = ओजस् + ठक् → औजसिकः शूरः । 2. सहस् इत्युक्ते चौरकर्म, स्तेयम् । सहसा वर्तते सः = सहस् + ठक् → साहसिकः चौरः । 3. अम्भस् इत्युक्ते जलम् । अम्भसा सह वर्तते सः = अम्भस् + ठक् → आम्भसिकः मत्स्यः । प्रक्रियायाः उदाहरणम् - ओजस् + ठक् → ओजस् + इक [**ठस्येकः** (7.3.50) इति इक्-आदेशः] → औजस् + इक [**किति च** (7.2.118) इति आदिवृद्धिः] → औजसिक Vasu English Summary -------------------- The affix ठक् comes in the sense of 'it exists' after the words 1. ओजस् 2. सहस् and 3. अभस् being in the Instrumental -3rd case in construction. Vasu English Translation ------------------------ The affix ठक् comes in the sense of 'it exists' after the words 1. ओजस् 2. सहस् and 3. अभस् being in the Instrumental -3rd case in construction. Thus ओजसा वर्तते = औजसिकः शूरः 'a hero' lit. possessed with energy. So also:- 'a thief.' आम्भसिकः 'a fish.' Kashika ------- ओजस् सहस् अम्भस् इत्येतेभ्यस्तृतीयासमर्थेभ्यो वर्तत इत्यर्थे ठक् प्रत्ययो भवति। ओजसा वर्तत औजसिकः शूरः। साहसिकश्चौरः। आम्भसिको मत्स्यः॥ Siddhanta Kaumudi ----------------- ओजसा वर्तते औजसिकः शूरः । साहसिकश्चौरः । आम्भसिको मत्स्यः ॥ Balamanorama ------------ **ओजस्सहोऽम्भसा वर्तते** - ओजःसहो । वर्तते व्याप्रियते इत्यर्थे ओजस्, सहस्, अम्भस् — एभ्यः तृतीयान्तेभ्यष्ठक् स्यादित्यर्थः । औजसिक इति । ओजसा बलेन वर्तते, युद्धे व्याप्रियत इत्यर्थः । साहसिक इति । सहसा=प्राणवियोगाभ्युपगमेन स्तेये व्याप्रियत इत्यर्थः । आम्भसिक इति । अम्भसा हेतुना संचारे व्याप्रियत इत्यर्थः । Nyaas ----- `वर्तते` इति। चेष्टत इत्यर्थः। `तत्प्रक्रियाविशेषणम्` इत्यादि। अनेन हि वृत्त्यर्थस्य कर्तव्यतामाचष्ट। वर्तत इति वर्तमानं करोत्यर्थः। स हि वृत्त्यर्थः कर्तव्यतया सम्बध्यमानः कर्म सम्पद्यते। तत्सामानादिकरण्याच्च तद्विशेषणमपि कर्तव्यतया युज्यते। तदपि कर्म च प्रसक्तम्। क्रियाविशेषणस्यैवाकर्मकेऽपि धातौ कर्मत्वमाख्यातम्। तदित्यनेन द्वितीयासमर्थविभक्तौ लब्धायामपि द्वितीयान्ता इह प्रकृतयो निर्दिष्टा विस्पष्टार्थम्; अन्यथा प्रत्ययविधौ पञ्चमी न्याय्येति तदन्ता एव निर्दिश्येरन्॥ Prakriyasarvasvam ----------------- एभ्यस्तेन वर्तत इत्यर्थे ठक् । ओजसा वृत्तिं कुर्वन्नौजसिकः । साहसिकः । आम्भसिको मत्स्यः । सजलमेघो वा ॥ Sutra Prayogas -------------- * **साहसिक्यात्** (शिशुपालवधम्): `ओजःसहोम्भसा वर्तते` इति ठक् प्रत्ययः।