44026: व्यञ्जनैरुपसिक्ते¶
Padacheda: व्यञ्जनैः | S | 3 | 3 |
उपसिक्ते | S | 7 | 1 |
Sutrartha¶
‘उपसिक्तम्’ अस्मिन् अर्थे तृतीयासमर्थेभ्यः व्यञ्जनवाचिभ्यः प्रातिपदिकेभ्यः ठक्-प्रत्ययः भवति ।
‘उपसिक्तम्’ इत्युक्ते ‘प्रोक्षणं कृतम् / सिञ्चनं कृतम्’ । ‘उप + सिञ्च्’ धातोः इदं क्त-प्रत्ययान्तरूपम् । यस्य साहाय्येन उपसिञ्चनम् क्रियते, तत् व्यञ्जनमस्ति चेत् तस्मात् तृतीयासमर्थात् ठक्-प्रत्ययः भवति । यथा - सूपैः उपसिक्तम् = सूप + ठक् → सौपिकः ओदनः । दध्ना उपसिक्ताः दाधिकाः अपूपाः । ज्ञातव्यम् - 1. किम् नाम व्यञ्जनम्? पदमञ्जरीकारः वदति - ‘ओदनादिषु रसो येन व्यज्यत, तत् व्यञ्जनम्’ । ‘रसवर्धनार्थम् प्रयुक्तम् द्रव्यम्’ इत्यर्थः । 2. यदि उपसिञ्चनस्य साधनम् व्यञ्जनम् नास्ति, तर्हि वर्तमानसूत्रस्य प्रसक्तिः नास्ति । यथा - ‘उदकेन उपसिक्तः’ इत्यत्र ठक्-प्रत्ययः न भवति । 3. अस्मिन् सूत्रे ‘व्यञ्जनैः’ इति बहुवचनस्य रूपम् निर्दिष्टमस्ति । अस्य प्रयोजनम् न्यासकारः वदति - ‘बहुवचननिर्देशः स्वरूपविधिनिरासार्थः’ । इत्युक्ते, अत्र ठक्-प्रत्ययस्य विधानम् ‘व्यञ्जनवाचि’शब्दात् कृतमस्ति, न हि ‘व्यञ्जन’ इत्यस्मात् शब्दात् । एतत् निर्देशयितुमत्र बहुवचनप्रयोगः क्रियते ।
Vasu English Summary¶
The affix ठक् comes after a word denoting a condiment, being in the Instrumental -3rd case in construction when the sense is ‘sprinkled therewith’.
Vasu English Translation¶
The affix ठक् comes after a word denoting a condiment, being in the Instrumental -3rd case in construction when the sense is ‘sprinkled therewith’. Thus दध्ना उपसिक्तं = दाधिकम् ‘sprinkled with curd’, सौपिकम्, खारिकम् ॥ Why do we say ‘denoting a condiment’? Observe उदकेनोपसिक्तं ओदनः ॥
Kashika¶
तेनेत्येव। व्यञ्जनवाचिभ्यः प्रातिपदिकेभ्यस्तृतीयासमर्थेभ्य उपसिक्त इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। दध्ना उपसिक्तं दाधिकम्। सौपिकम्। खारिकम्। व्यञ्जनैरिति किम् ? उदकेनोपसिक्त ओदनः॥
Siddhanta Kaumudi¶
ठक् । दध्ना उपसिक्तं दाधिकम् ॥
Balamanorama¶
व्यञ्जनैरुपसिक्ते - व्यञ्डनैरुपसिक्ते । उपसिक्तमित्यर्थे तृतीयान्तेभ्यो व्यञ्जनवाचिभ्यष्ठगित्यर्थः । सेचनेन मृदूकरणमुपसेकः । संसृष्ट इत्येव सिद्धे नियमार्थं सूत्रम् — ॒व्यञ्जनवाचिभ्य उपसिक्त एवे॑ति । तेनेह न, सूत्रेन संसृष्टा स्थाली ।
Tattvabodhini¶
व्यञ्जनैरुपसिक्ते - व्यञ्जनैरुप । व्यज्यते अनेन ओदनादिरस इति व्यञ्जनां, तद्वाचिभ्य उपसक्ति इत्यर्थे ठक्स्यात् ।
Padamanjari¶
ओदनादिषु रसो येन व्यज्यते तद्व्यञ्जनम् । बहुवचननिर्देशः स्वरूपविधिनिरासार्थः । उपसिक्तः उ सेचनेन मृदूकृतः । इह यद्येनोपसिक्तं ततेन संसृष्ट्ंअ भवति, तत्र संसृष्ट इत्येव सिद्धे नियमार्थं वचनम् - व्यञ्जनेभ्य उपसिक्त एव संसृष्टे यथा स्यात्संसृष्टमात्रे मा भूत्, दध्ना संसृष्टा स्थालीति ॥
Nyaas¶
व्यञ्जनैःर इति। बहुवचननिर्देशः स्वरूपविधिनिरासार्थः। तेनेत्यधिकारादेव तृतीयायां समर्थविभक्तौ वर्तमानायां तृतीयानुवादः सुखप्रतिपत्तये। संसृष्टे (4.4.22) इति वर्तमान उपसिक्तस्यैतत् प्रयोजनम् - ओदनादौ यथा स्यात्। इह मा भूत् - सूपेन संसृष्टा स्थालीति। उदकेनोदसिक्त ओदन इति। उदकं व्यञ्जनं न भवति; व्यञ्जनशब्दस्य सूपादावेव रूढत्वात्। ननु यद्व्यञ्जनैरुपसिक्तं तत्तैः संस्कृतं भवति; तत्र संस्कृतमेव सिद्धम्? न सिध्यति; सतो ह्रुत्कर्षावानं संस्कारः, न चासौ सर्वत्रोपसिक्तः सम्भवति। तथा हि - व्यपगते स्वादुरसै प्रतिभावापन्नैरुपसिक्तेष्वोदनादिष्वपकर्ष एव भवति, नोत्कर्षः। उपसिक्तमात्रेऽपि चेष्यते। तस्मात् प्राक् तस्य पृथगारम्भः॥
Prakriyasarvasvam¶
व्यञ्जनेभ्यस्तैरुपसिक्तं इत्यर्थे ठक् । क्षैरिकमन्नम् ॥