44028: तत् प्रत्यनुपूर्वमीपलोमकूलम्

Padacheda: तत् | S | 2 | 1 |

प्रति-अनुपूर्वम् | S | 2 | 1 |

ईप-लोम-कूलम् | S | 2 | 1 |

Sutrartha

‘प्रति’पूर्वकः ‘अनु’पूर्वकः च यः ईप/लोम/कूल-शब्दः, तस्मात् द्वितीयासमर्थात् ‘वर्तते’ अस्मिन् अर्थे ठक् प्रत्ययः भवति ।

अस्य सूत्रस्य अर्थम् सम्यक् ज्ञातुम् प्रारम्भे बिन्दुद्वयम् ज्ञातव्यम् - 1. अस्मिन् सूत्रे ‘ईप’, ‘लोम’, ‘कूल’ एते शब्दाः प्रयुक्ताः सन्ति । एतेषामर्थाः एतादृशाः - ईप इत्युक्ते जलम् । लोम इत्युक्ते केशः । कूल इत्युक्ते तीरम् । परन्तु ‘प्रति’ तथा ‘अनु’ एताभ्यां सह एतेषां योजनं भवति चेत् निर्मिताः शब्दाः भिन्नमर्थं स्वीकुर्वन्ति, तेषाम् ‘जलम् / केश / तीर’ इत्येतैः सह कोऽपि सम्बन्धः न विधीयते । यथा - [अ] प्रति + ईप → प्रतीप । प्रति + लोम → प्रतिलोम । प्रति + कूल → प्रतिकूल । एतेषां त्रयाणाम् शब्दानामर्थः ‘विपरीत’ इत्येव भवति । तथैव - [आ] अनु + ईप → अन्वीप । अनु + लोम → अनुलोम । अनु + कूल → अनुकूल । एतेषां त्रयाणाम् शब्दानामर्थः अपि समानः एव । अस्मिन् विषये बालमनोरमायामुच्यते - ‘ प्रतीपान्वीपशब्दौ हि प्रतिकूलानुकूलशब्दपर्यायौ’ । अस्यापि अयमेव अर्थः । 2. अस्मिन् सूत्रे ‘तत्’ इति द्वितीयासमर्थः प्रयुक्तः अस्ति । वस्तुतः ‘वृत्’ धातुः अकर्मकः अस्ति, अतः तस्य प्रयोगे कर्मपदम् न विधीयते। अतः अत्र ‘प्रतीप’, ‘अन्वीप’, ‘प्रतिलोम’, ‘अनुलोम’, ‘प्रतिकूल’, ‘अनुकूल’ - एतेषां सर्वेषाम् प्रयोगः द्वितीयायां कथं भवितुमर्हति - इति प्रश्नः उपतिष्ठते । अस्य स्पष्टीकरणार्थम् काशिकाकारः वदति - ‘क्रियाविशेषणमकर्मकाणामपि कर्म भवति’ । इत्युक्ते, एते सर्वे शब्दाः ‘वर्तते’ इत्यनेन सह क्रियाविशेषणरूपेण प्रयुज्यन्ते । इदानीमस्य सूत्रस्य अर्थः स्पष्टः स्यात् - ‘प्रतीपं वर्तते / अन्वीपं वर्तते / प्रतिलोमं वर्तते / अनुलोमं वर्तते / प्रतिकूलं वर्तते / अनुलोमं वर्तते’ एतेषु वाक्येषु द्वितीयासमर्थात् ठक् प्रत्यय भवति । यथा - 1. प्रतीपं वर्तते सः प्रातिपिकः । प्रतिलोमं वर्तते सः प्रातिलोमिकः । प्रतिकूलं वर्तते सः प्रातिकुलिकः । त्रयाणामर्थाः समानाः एव । यथा - प्रातिपिकः / प्रातिलोमिकः / प्रातिकुलिकः निर्णयः इत्युक्ते विपरीतः निर्णयः । 2. अन्वीपं वर्तते सः आन्वीपिकः ।अनुलोमं वर्तते सः आनुलोमिकः । अनुकूलं वर्तते सः आनुकुलिकः । अत्रापि त्रयाणामर्थाः समानाः सन्ति । यथा - आन्विपिकः आनुलोमिकः आनुकुलिकः वा निश्चयः । ज्ञातव्यम् - ‘प्रतीप’ तथा ‘अन्वीप’ एतौ शब्दौ वस्तुतः ‘प्रति + आप्’ तथा ‘अनु + आप्’ एतादृशं बहुव्रीहिसमासेन निर्मिताः सन्ति । अत्र प्रक्रियायाम् द्वयन्तरुपसर्गेभ्योऽप ईत् (6.3.97) इत्यनेन आकारस्य ईकारादेशं कृत्वा अग्रे सन्धिकार्यं च कृत्वा एतयोः निर्माणं भवति ।

Vasu English Summary

The affix ठक् comes in the sense of ‘it exists’ after 1. ईप 2. लोम and 3. कूल preceded by अनु and प्रति ; the word being in the Accusative -2nd case in construction.

Vasu English Translation

The affix ठक् comes in the sense of ‘it exists’ after 1. ईप 2. लोम and 3. कूल preceded by अनु and प्रति ; the word being in the Accusative -2nd case in construction. The word तद् shows that the words must be in the second case in construction. The verb वर्तते is intransitive, how can it take an object, and how can it be in construction with an objective case? The words in the accusative after the verb वर्तते are not its objects, but are used as adverbs qualifying the sense of the verb, and adverbs are always put in the accusative case. Thus प्रतीपं वर्तते = प्रातीपिकः (प्रतिगता आपोऽस्मिन्, the आ changed to ई (5.4.74) and (6.3.97) retrograde i. e. ‘which is unfavourable.’ So आन्वीपिकः ‘favorable.’ प्रतिलोमिकः ‘inverse’ आनुलोमिकः ‘direct.’ पातिकूलिकः, आनुकूलिकः The two words प्रातीपिक and आन्वीपिक mean ‘unfavourable’ and ‘favourable’ respectively.

Kashika

तदिति द्वितीयासमर्थविभक्तिः। प्रति अनु इत्येवंपूर्वेभ्य ईपलोमकूलशब्देभ्यो द्वितीयासमर्थेभ्यो वर्तत इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। ननु च वृतिरकर्मकः, तस्य कथं कर्मणा संबन्धः? क्रियाविशेषणमकर्मकाणामपि कर्म भवति। प्रतीपं वर्तते प्रातीपिकः। आन्वीपिकः। प्रातिलोमिकः। आनुलोमिकः। प्रातिकूलिकः। आनुकूलिकः॥

Siddhanta Kaumudi

द्वितायान्तादस्माद्वर्तत इत्यस्मिन्नर्थे ठक् स्यात् । क्रियाविशेषणत्वाद्द्वितीया । प्रतीपं वर्तते प्रातीपिकः । आन्वीपिकः । प्रातिलोमिकः । प्रातिकूलिकः । आनुकूलिकः ॥

Balamanorama

तत् प्रत्यनुपूर्वमीपलोमकूलम् - तत्प्रत्यनुपूर्व ।त॑दिति द्वितीयान्तानुकरणम् । प्रत्यनुपूर्वेभ्यो द्वितीयान्तेभ्य ईषलोमकूलशब्देभ्यो वर्तते इत्यर्थे ठक् स्यादित्यर्थः । ननु प्रतीपं वर्तते इत्यादिवक्ष्यमाणविग्रहेषु वर्ततेरकर्मकत्वात्कथं द्वितीयेत्यत आह — क्रियाविशेषणत्वादिति । इदंच कारकनिरूपणे निरूपितम् ।क्रियाविशेषणानां प्रतमान्तत्वमेवे॑ति तु शब्देन्दुशेखरे प्रतीपमिति । प्रतिगता आपो यस्मिन्निति बहुव्रीहिः । ‘ऋक्पूः’ इत्यकारः समासान्तः । द्व्यन्तरूपसर्गेभ्योऽप ई॑दिति ईत्त्वम् । अनुगता आपो यस्मिन् तदन्वीपम् । ‘ऊदनोर्देशे’ इत्यूत्त्वं तु न, अदेशत्वात् । प्रतीपान्वीपशब्दौ हि प्रतिकूलानुकूलशब्दपर्यायौ रूढौ । अवयवार्थेषु तु नाभिनिवेष्टव्यम् ।

Tattvabodhini

तत् प्रत्यनुपूर्वमीपलोमकूलम् - तत्प्रत्यनु । वृतेरकर्मकत्वात्कथं तस्य द्वितीयान्ते नप्रतीपमित्यादिना सम्बन्ध इत्याशङ्कायामाह -क्रियाविशेषणत्वादिति । प्रतीपमिति । प्रतिगता आपोऽस्मिन्निति बहुव्रीहिः ।ऋक्पूः॑इत्यकारः समासान्तः ।व्द्यन्तरूपसर्गेभ्यः॑इति ईत्वम् । व्युत्पत्तिमात्रमिदम् । प्रतिकूलाऽनुकूलपर्याया हीमे रूढिशब्दः । आन्वीपिक इति ।अन्वीप ॑मित्यत्रऊदनोर्देशे॑इत्युत्वं तु न भवति, अदेशत्वात् ।

Padamanjari

क्रियाविशेषणमित्यादि । आख्यातं हि धात्वर्थस्य कर्तव्यतामाचष्टे - वर्तते उ वर्तनं करोति, सुप्यते उ स्वापः क्रियते, शोभनमोदनं पच्यते उ ओदनकर्मकः पाकः शोभनः क्रियते इति । पचिधात्वर्थः कर्तव्य एव सम्बध्यमानः कर्म सम्पद्यते, तस्य यत्समानाधिकरणं विशेषणं तदपि कर्मैव भवति । प्रातीपिकः, आन्वीपिक इति । प्रतिगता आपोऽस्मिन्निति बहुव्रीहिः, ठृक्पूरब्धूःऽ इत्यिकारः समासान्तः,’द्व्यन्तरुपसर्गेभ्यो’ प ईत्ऽ इतीत्वम् । व्युत्पत्तिमात्रं चैतत्, प्रतिकूलानुकूलपर्यायौ त्वेतौ । ठूदनोर्देअशेऽ इत्यूत्वमत्र न भवति; अदेशत्वात्, देशत्वे क्रियाविशेषत्वासम्भवात् । सूत्रे ईप्शब्दस्य निर्देशात् । प्रातिलोमिकः, आनुलोमिक इति । पूर्ववद्वहुव्रीहिः, ठच् प्रत्यन्ववपूर्वात्ऽ इत्यच् समासान्तः । अत्रापि व्युत्पत्तिमात्रम्, अर्थस्तु पूर्वोक्त एव । प्रातिकूलिक इति । पूर्ववद्वहुव्रीहिः । अत्रापि कूलार्थो नास्ति । प्रतिसरणं चैतयोरर्थः ॥

Nyaas

प्रातीपिकः इति। प्रतिगता आपोऽस्मिन्निति बहुव्रीहिः। ऋक्पूरब्धूःपथामानक्षे (5.4.74) इत्यकारः समासान्तः। एवञ्च द्व्यन्तरुपसर्गेभ्योऽप ईत् (6.3.97) इतीत्त्वम्। अपरत्र तु ऊदनोर्देशे (6.3.98) इति देशादन्यत्रोत्त्वमेव, ततष्ठक्। {प्रातिलोमिकः, आनलोमिकः -काशिका,पदमञ्जरी च।} प्रातिलोमिकम्, आनुलोमिकम् इति। प्रतिगतानि लोमान्यस्य , अनुगतानि लोमान्यस्येति बहुव्रीहिः। अच् प्रत्यनु (5.4.75) इत्यादिनाऽच् समासान्तः॥

Prakriyasarvasvam

तदिति क्रियाविशेषणार्थोक्तिः । प्रत्यनुपूर्वेभ्य एभ्यः तद्वर्तत इत्यर्थे ठक् । प्रतीपं वर्तते, प्रातीपिकः । प्रातिलोमिकः । प्रातिकूलिकः । आन्वीपिकः । आनुलोमिकः । आनुकूलिकः ॥

Sutra Prayogas

  • प्रतिकूलिकतयैव (शिशुपालवधम्): तत्प्रत्यनुपूर्वमीपलोमकूलम् इति ठक्।

  • प्रातिकूलिकीं (भट्टिकाव्यम्): तत्प्रत्यनुपूर्व इति ठक्।