44025: मुद्गादण्

Padacheda: मुद्गात् | S | 5 | 1 |

अण् | S | 1 | 1 |

Sutrartha

‘संसृष्टम्’ अस्मिन् अर्थे तृतीयासमर्थात् मुद्गशब्दात् अण्-प्रत्ययः भवति ।

‘संसृष्टम्’ इत्युक्ते एकीकृतम् । यत्र एकीकरणस्य साधनम् ‘मुद्गाः’ सन्ति, तत्र एकीकृतस्य पदार्थस्य निर्देशं कर्तुम् ‘मुद्ग’शब्दात् अण्-प्रत्ययः क्रियते । यथा - मुद्गैः संसृष्टः मौद्गः ओदनः । प्रक्रिया - मुद्ग + अण् → मौद्ग + अ [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → मौद् ग् + अ [यस्येति च (6.4.148) इति अन्तिमवर्णलोपः] → मौद्ग । ज्ञातव्यम् - स्त्रीत्वे विवक्षिते टिड्ढाण्.. (4.1.15) अनेन सूत्रेण अत्र ङीप्-प्रत्ययः विधीयते । यथा - मुद्गैः संसृष्टा ‘मौद्गी’ यवागूः ।

Vasu English Summary

The affix अण् comes after the word मुद्ग when the sense is ‘mixed therewith’.

Vasu English Translation

The affix अण् comes after the word मुद्ग when the sense is ‘mixed therewith’. This debars ठक् ॥ Thus मौद्ग ओदनः ‘rice mixed with mudga-pulse.’ मौद्गो यवागूः ॥

Kashika

मुद्गशब्दादण् प्रत्ययो भवति संसृष्ट इत्येतस्मिन् विषये। ठकोऽपवादः। मौद्ग। ओदनः। मौद्गी यवागूः॥

Siddhanta Kaumudi

मौद्ग ओदनः ॥

Balamanorama

मुद्गादण् - मुद्गादण् ।तेन संसृष्टमित्यर्थे तृतीयान्ता॑दिति शेषः । मौद्ग ओदन इति । मुद्गैः संसृष्ट इत्यर्थः ।

Prakriyasarvasvam

मुद्गसंसृष्टं मौद्गम् ॥