44024: लवणाल्लुक्

Padacheda: लवणात् | S | 5 | 1 |

लुक् | S | 1 | 1 |

Sutrartha

‘संसृष्टम्’ अस्मिन् अर्थे तृतीयासमर्थात लवणशब्दात् विहितस्य प्रत्ययस्य लुक् भवति ।

‘संसृष्टम्’ इत्युक्ते एकीकृतम् । यत्र एकीकरणस्य साधनम् ‘लवणम्’ अस्ति, तत्र एकीकृतस्य पदार्थस्य निर्देशं कर्तुम् ‘लवण’शब्दात् संसृष्टे (4.4.22) इत्यनेन ठक्-प्रत्यये कृते वर्तमानसूत्रेण तस्य लुक् ( = लोपः) भवति । यथा, लवणेन संसृष्टम् = लवण + ठक् → लवण + X → लवण । लवणेन संसृष्टम् लवणम् शाकम्, लवणः सूपः । अस्मिन् विषये काशिकाकारः वदति - ‘द्रव्यवाची’ लवणशब्दः लुकं प्रयोजयति, न गुणवाची । इत्युक्ते, ‘लवण’ नाम यः पदार्थः अस्ति (common salt) तस्यैव निर्देशः अस्मिन् सूत्रे क्रियते, न हि ‘लवण’ इति रसस्य ।

Vasu English Summary

The affix ठक् meaning ‘mixed therewith’ is लुक् elided after the word लवण।

Vasu English Translation

The affix ठक् meaning ‘mixed therewith’ is लुक् elided after the word लवण। Thus लवणेन संसृष्टः = लवणः ‘mixed with salt’ as लवणः सूपः ‘soup mixed with salt.’ So लवणं शाकं, लवणा यवगूः (1.1.51). The लूक् elision takes place when the word लवण is used as a noun, and not as an adjective.

Bhashya

लवणाल्लुक् (1762) (लुकोऽधिकरणम्) (5564 सूत्रप्रत्याख्याने वार्तिकम्॥ 1 ॥) - लवणाल्लुग्वचनानर्थक्यं रसवाचित्वात् - (भाष्यम्) लवणाल्लुग्वचनमनर्थकम्। किं कारणम्? रसवाचित्वात्। रसवाच्येष लवणशब्दः, नैष संसृष्टिनिमित्तः। आतश्च रसवाची॥ (5565 लवणशब्दस्य रसवाचकत्वबोधकवार्तिकम्॥ 2 ॥) - असंसृष्टे च दर्शनात् - (भाष्यम्) असंसृष्टेऽपि हि लवणशब्दो वर्तते। तद्यथा -लवणं क्षीरम्, लवणं पानीयमिति॥ (5566 रसवाचकत्वबोधकवार्तिकम्॥ 3 ॥) - संसृष्टे चादर्शनात् - (भाष्यम्) संसृष्टेऽपि च यदा नोपलभ्यते, तदाह -अलवणः सूपः, अलवणा यवागूः, अलवणं शाकमिति॥

Kashika

संसृष्ट इत्यनेनोत्पन्नस्य ठको लवणशब्दाद् लुग् भवति। लवणः सूपः। लवणं शाकम्। लवणा यवागूः। द्रव्यवाची लवणशब्दो लुकं प्रयोजयति, न गुणवाची॥

Siddhanta Kaumudi

लवणेन संसृष्टो लवणः सूपः । लवणं शाकम् ॥

Balamanorama

लवणाल्लुक् - लवणाल्लुक् ।पूर्वसूत्रविहितस्ये॑ति शेषः ।

Padamanjari

लवणद्रव्यवाचीत्यादि । लवणशब्दोऽयमस्त्येव गुणवचनः -षण्णां रसानामन्यतमस्य वाचकः, अस्ति च द्रव्यवचनो यः सैन्धवादिषु वर्तते; तत्र यो गुणवचनः स न लुकं प्रयोजयति, मधुरादिशब्दवदभेदोपचारादेव द्रव्ये वृत्तिसिद्धेः । द्रव्यशब्दस्तु सोऽयमित्यभिसम्बन्धाद् द्रव्ये वर्तमानः । यद्यपि प्रष्ठी प्रचरी यष्टीः प्रवेशयेत्यादौ द्रव्यशब्दस्यपि क्वचिदभेदोपचारो दृष्टः, तथापि भेदविवक्षायां तत्स्थोऽपि दृश्यते - प्रष्टस्येयं प्राष्ठी यष्टिमतः पुरुषानिति । तस्माद् द्रव्यवाच्येव लवणशब्दो लुकं प्रयोजयति, स च प्रयोजयत्येव ॥

Nyaas

द्रव्यवाची इत्यादि। लवणशब्दोऽयमस्त्येव गुणवचनो यो रसविशेषे वर्तते, रसस्य गुणत्वात्। अस्ति द्रव्यवचनः, यथा -पञ्च लवणानीति। तत्र यो गुणवचनः स लुकं न प्रयोजनयति। गुणैर्हि यद्यपि द्रव्यं न संसृज्यते, तथापि गुणशब्दाः सोऽयम् इत्यभेदेन सम्बन्धाद्द्रव्ये वर्तन्ते, यथा - शुक्लः पटः, {क्षारम् - मुद्रितः पाठः} क्षौरम्, अम्लं दधीति; तथा लवणशब्दोऽपि वर्तिष्यते, ततः किं लुका? अवश्यं तदेवं विज्ञायम्, अन्यथा हि मधुरादिभ्योऽपि लुग्वक्तव्यः स्यात्। द्रव्यशब्दास्त्वन्यत्र सोऽयमित्यभेदसमर्थनान्न वर्तन्ते। तस्माद्द्रव्यवाची लवणशब्दो लुकं प्रयोजयति॥

Prakriyasarvasvam

ठको लुक् । लवणा यवागूः ॥