44025: मुद्गादण् ================ **Padacheda:** मुद्गात् | S | 5 | 1 | अण् | S | 1 | 1 | Sutrartha --------- **'संसृष्टम्' अस्मिन् अर्थे तृतीयासमर्थात् मुद्गशब्दात् अण्-प्रत्ययः भवति ।** 'संसृष्टम्' इत्युक्ते एकीकृतम् । यत्र एकीकरणस्य साधनम् 'मुद्गाः' सन्ति, तत्र एकीकृतस्य पदार्थस्य निर्देशं कर्तुम् 'मुद्ग'शब्दात् अण्-प्रत्ययः क्रियते । यथा - मुद्गैः संसृष्टः मौद्गः ओदनः । प्रक्रिया - मुद्ग + अण् → मौद्ग + अ [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः] → मौद् ग् + अ [**यस्येति च** (6.4.148) इति अन्तिमवर्णलोपः] → मौद्ग । ज्ञातव्यम् - स्त्रीत्वे विवक्षिते **टिड्ढाण्..** (4.1.15) अनेन सूत्रेण अत्र ङीप्-प्रत्ययः विधीयते । यथा - मुद्गैः संसृष्टा 'मौद्गी' यवागूः । Vasu English Summary -------------------- The affix अण् comes after the word मुद्ग when the sense is 'mixed therewith'. Vasu English Translation ------------------------ The affix अण् comes after the word मुद्ग when the sense is 'mixed therewith'. This debars ठक् ॥ Thus मौद्ग ओदनः 'rice mixed with *mudga*-pulse.' मौद्गो यवागूः ॥ Kashika ------- मुद्गशब्दादण् प्रत्ययो भवति संसृष्ट इत्येतस्मिन् विषये। ठकोऽपवादः। मौद्ग। ओदनः। मौद्गी यवागूः॥ Siddhanta Kaumudi ----------------- मौद्ग ओदनः ॥ Balamanorama ------------ **मुद्गादण्** - मुद्गादण् ।तेन संसृष्टमित्यर्थे तृतीयान्ता॑दिति शेषः । मौद्ग ओदन इति । मुद्गैः संसृष्ट इत्यर्थः । Prakriyasarvasvam ----------------- मुद्गसंसृष्टं मौद्गम् ॥