44023: चूर्णादिनिः¶
Padacheda: चूर्णात् | S | 5 | 1 |
इनिः | S | 1 | 1 |
Sutrartha¶
‘संसृष्टम्’ अस्मिन् अर्थे तृतीयासमर्थात् चूर्णशब्दात् ‘इनि’प्रत्ययः भवति ।
‘संसृष्टम्’ इत्युक्ते एकीकृतम् । यत्र एकीकरणस्य साधनम् ‘चूर्णम्’ अस्ति, तत्र एकीकृतस्य पदार्थस्य निर्देशं कर्तुम् ‘चूर्ण’शब्दात् इनिप्रत्ययः भवति । यथा - चूर्णेन संसृष्टम् → चूर्ण + इनि → चूर्ण् + इन् [यस्येति च (6.4.148) इति अकारलोपः] → चूर्णिन् ज्ञातव्यम् - ‘इनि’ प्रत्यये अन्तिमः इकारः इत्संज्ञकः नास्ति, यतः तस्य इत्संज्ञायाः किमपि प्रयोजनम् न । अत्र अयम् इकारः उच्चारणार्थः उक्तः अस्ति । यदि आचार्यः केवलम् ‘इन्’ प्रत्ययमवदिष्यत्, तर्हि अन्तिमनकारस्य हलन्त्यम् (1.3.3) इत्यनेन इत्संज्ञा, ततः लोपः च अभविष्यत् । तत् तथा मा भूत्, अतः अत्र अन्ते इकारः स्थापितः अस्ति ।
Vasu English Summary¶
The affix इनि comes after the word चूर्ण when the sense is ‘mixed therewith’.
Vasu English Translation¶
The affix इनि comes after the word चूर्ण when the sense is ‘mixed therewith’. This debars ठक् ॥ Thus चूर्णैः संसृष्टा = चूणिनो ऽपूपाः ‘cakes sprinkled with powder.’ चूर्णिनि धानाः ॥
Bhashya¶
चूर्णादिनिः (1761) (ःइनिप्रत्ययाधिकरणम्) (सूत्रप्रत्याख्यायकभाष्यम्) अयं योगः शक्योऽवक्तुम्। कथं चूर्णी, चूर्णिनौ, चूर्णिन इति? इनिनैतन्मत्वर्थीयेन सिद्धम्॥
Kashika¶
चूर्णशब्दादिनिः प्रत्ययो भवति संसृष्टे। ठकोऽपवादः। चूर्णैः संसृष्टाश्चूर्णिनोऽपूपाः चूर्णिनो धानाः॥
Siddhanta Kaumudi¶
चूर्णैः संसृष्टाश्चूर्णिनोऽपूपाः ॥
Balamanorama¶
चूर्णादिनिः - चूर्णादिनिः ।संसृष्टमित्यर्थे तृतीयान्ता॑दिति शेषः ।
Padamanjari¶
चूर्णए ये संसृष्टास्तेषां चूर्णमस्तीति मत्वर्थीयेनैवेनिना सिद्धम् ? सत्यम् ; तद्रूपविवक्षायां सिद्धम् । संसर्गविवक्षायां तु ठक् प्राप्नोति । अनभिधानं तु दुर्ज्ञानम् ॥
Nyaas¶
ननु च चूर्णेन ये संसृष्टास्तेषां चूर्णमस्ति, तत्र मत्वर्थीयेनैवेनिना सिद्धमिति तदपार्थकमिदम्? नैतत् ; अस्तिविवक्षायां मत्वर्थीयेन सिद्धं स्यात्, संसृष्टविवक्षायां पुनर्न सिध्यति, त हि ठक् स्यात्। ठको बाधनार्थत्वे कुतोऽस्यानर्थक्यम्॥
Prakriyasarvasvam¶
चूर्णी ॥