44024: लवणाल्लुक् ================= **Padacheda:** लवणात् | S | 5 | 1 | लुक् | S | 1 | 1 | Sutrartha --------- **'संसृष्टम्' अस्मिन् अर्थे तृतीयासमर्थात लवणशब्दात् विहितस्य प्रत्ययस्य लुक् भवति ।** 'संसृष्टम्' इत्युक्ते एकीकृतम् । यत्र एकीकरणस्य साधनम् 'लवणम्' अस्ति, तत्र एकीकृतस्य पदार्थस्य निर्देशं कर्तुम् 'लवण'शब्दात् **संसृष्टे** (4.4.22) इत्यनेन ठक्-प्रत्यये कृते वर्तमानसूत्रेण तस्य लुक् ( = लोपः) भवति । यथा, लवणेन संसृष्टम् = लवण + ठक् → लवण + X → लवण । लवणेन संसृष्टम् लवणम् शाकम्, लवणः सूपः । अस्मिन् विषये काशिकाकारः वदति - 'द्रव्यवाची' लवणशब्दः लुकं प्रयोजयति, न गुणवाची । इत्युक्ते, 'लवण' नाम यः पदार्थः अस्ति (common salt) तस्यैव निर्देशः अस्मिन् सूत्रे क्रियते, न हि 'लवण' इति रसस्य । Vasu English Summary -------------------- The affix ठक् meaning 'mixed therewith' is लुक् elided after the word लवण। Vasu English Translation ------------------------ The affix ठक् meaning 'mixed therewith' is लुक् elided after the word लवण। Thus लवणेन संसृष्टः = लवणः 'mixed with salt' as लवणः सूपः 'soup mixed with salt.' So लवणं शाकं, लवणा यवगूः (1.1.51). The लूक् elision takes place when the word लवण is used as a noun, and not as an adjective. Bhashya ------- लवणाल्लुक् (1762) (लुकोऽधिकरणम्) (5564 सूत्रप्रत्याख्याने वार्तिकम्॥ 1 ॥) - लवणाल्लुग्वचनानर्थक्यं रसवाचित्वात् - (भाष्यम्) लवणाल्लुग्वचनमनर्थकम्। किं कारणम्? रसवाचित्वात्। रसवाच्येष लवणशब्दः, नैष संसृष्टिनिमित्तः। आतश्च रसवाची॥ (5565 लवणशब्दस्य रसवाचकत्वबोधकवार्तिकम्॥ 2 ॥) - असंसृष्टे च दर्शनात् - (भाष्यम्) असंसृष्टेऽपि हि लवणशब्दो वर्तते। तद्यथा -लवणं क्षीरम्, लवणं पानीयमिति॥ (5566 रसवाचकत्वबोधकवार्तिकम्॥ 3 ॥) - संसृष्टे चादर्शनात् - (भाष्यम्) संसृष्टेऽपि च यदा नोपलभ्यते, तदाह -अलवणः सूपः, अलवणा यवागूः, अलवणं शाकमिति॥ Kashika ------- संसृष्ट इत्यनेनोत्पन्नस्य ठको लवणशब्दाद् लुग् भवति। लवणः सूपः। लवणं शाकम्। लवणा यवागूः। द्रव्यवाची लवणशब्दो लुकं प्रयोजयति, न गुणवाची॥ Siddhanta Kaumudi ----------------- लवणेन संसृष्टो लवणः सूपः । लवणं शाकम् ॥ Balamanorama ------------ **लवणाल्लुक्** - लवणाल्लुक् ।पूर्वसूत्रविहितस्ये॑ति शेषः । Padamanjari ----------- लवणद्रव्यवाचीत्यादि । लवणशब्दोऽयमस्त्येव गुणवचनः -षण्णां रसानामन्यतमस्य वाचकः, अस्ति च द्रव्यवचनो यः सैन्धवादिषु वर्तते; तत्र यो गुणवचनः स न लुकं प्रयोजयति, मधुरादिशब्दवदभेदोपचारादेव द्रव्ये वृत्तिसिद्धेः । द्रव्यशब्दस्तु सोऽयमित्यभिसम्बन्धाद् द्रव्ये वर्तमानः । यद्यपि प्रष्ठी प्रचरी यष्टीः प्रवेशयेत्यादौ द्रव्यशब्दस्यपि क्वचिदभेदोपचारो दृष्टः, तथापि भेदविवक्षायां तत्स्थोऽपि दृश्यते - प्रष्टस्येयं प्राष्ठी यष्टिमतः पुरुषानिति । तस्माद् द्रव्यवाच्येव लवणशब्दो लुकं प्रयोजयति, स च प्रयोजयत्येव ॥ Nyaas ----- `द्रव्यवाची` इत्यादि। लवणशब्दोऽयमस्त्येव गुणवचनो यो रसविशेषे वर्तते, रसस्य गुणत्वात्। अस्ति द्रव्यवचनः, यथा -पञ्च लवणानीति। तत्र यो गुणवचनः स लुकं न प्रयोजनयति। गुणैर्हि यद्यपि द्रव्यं न संसृज्यते, तथापि गुणशब्दाः `सोऽयम्` इत्यभेदेन सम्बन्धाद्द्रव्ये वर्तन्ते, यथा - शुक्लः पटः, {क्षारम् - मुद्रितः पाठः} क्षौरम्, अम्लं दधीति; तथा लवणशब्दोऽपि वर्तिष्यते, ततः किं लुका? अवश्यं तदेवं विज्ञायम्, अन्यथा हि मधुरादिभ्योऽपि लुग्वक्तव्यः स्यात्। द्रव्यशब्दास्त्वन्यत्र सोऽयमित्यभेदसमर्थनान्न वर्तन्ते। तस्माद्द्रव्यवाची लवणशब्दो लुकं प्रयोजयति॥ Prakriyasarvasvam ----------------- ठको लुक् । लवणा यवागूः ॥