44022: संसृष्टे¶
Padacheda: संसृष्टे | S | 7 | 1 |
Sutrartha¶
‘संसृष्टम्’ अस्मिन् अर्थे तृतीयासमर्थात् ठक्-प्रत्ययः भवति ।
‘संसृष्टम्’ इत्युक्ते ‘एकीकृतम्’ । एकीकृतः यः पदार्थः, तस्य निर्देशः एकीकरणस्य साधनेन कर्तुम् वर्तमानसूत्रस्य प्रयोगः भवति । यथा - दध्ना संसृष्टम् दाधिकम् , मरिचेन संसृष्टम् मारिचिकम् । प्रक्रिया इयम् - दधि + ठक् → दधि + इक [ठस्येकः (7.3.50) इति ठकारस्य इकारादेशः] → दाधि + इक [किति च (7.2.118) इति आदिवृद्धिः] → दाध् + इक [यस्येति च (6.4.148) इति इकारलोपः] → दाधिक
Vasu English Summary¶
The affix ठक् comes after a word in the Instrumental -3rd case in construction when the sense is ‘mixed therewith’.
Vasu English Translation¶
The affix ठक् comes after a word in the Instrumental -3rd case in construction when the sense is ‘mixed therewith’. The word तेन is understood here. The word संसृष्ट means unification, mixing &c. Thus दध्ना संसृष्ट = दाधिकम् ‘smeared with curds’ मारिचिकम्, शार्ङ्गवेरिकम् पैप्पलिकम् ॥ The word ‘sanskrtam’ (4.4.3) and ‘sansrshtam’ should be distinguished. The former refers to a case where by the combination of two things, a something better is produced; no such idea of bettering is to be found in संसृष्ट ॥
Kashika¶
तेनेत्येव। तृतीयासमर्थात् संसृष्ट इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। संसृष्टमेकीभूतमभिन्नमित्यर्थः। दध्ना संसृष्टं दाधिकम्। मारिचिकम्। शार्ङ्गवेरिकम्। पैप्पलिकम्॥
Siddhanta Kaumudi¶
दध्ना संसृष्टं दाधिकम् ॥
Laghu Siddhanta Kaumudi¶
दध्ना संसृष्टं दाधिकम्॥
Balamanorama¶
संसृष्टे - संसृष्टे । संसृष्टमित्यर्थे तृतीयान्ताट्ठागित्यर्थः ।
Padamanjari¶
ननु यद्येन संसृष्ट्ंअ ततेन संस्कृतं भवति; ततश्च संस्कृतमित्येव संसृष्टेऽपि प्रत्ययः सिद्धः ? न सिध्यति; सत उत्कर्षाधानमु संस्कारः, एकीभावस्तु उ संसर्गः, न च यत्रासौ तत्रावश्यमुत्कर्षोऽस्ति, अशुचिद्रव्यसंसर्गे हि प्रत्युतापकर्ष एव भवति । तस्मात्संसृष्ट इति वक्तव्यम् । यद्यस्य निबन्धनमस्त्येतदेवास्तु, मा भूत्संस्कृतमित्येतत् ? तदवश्यं कर्तव्यम्, इहापि यथा स्यात् - विद्यया संस्कृतो वैद्यक इति, न ह्यत्र संसर्गोऽस्ति; मूर्तिधर्मत्वात् । किञ्च’कुलत्थकोपधादण्’ संस्कृत एव यथा स्यात्ससृष्टे मा भूदित्येमवर्थं संस्कृतमित्येतद्भवतीति वक्तव्यम् ॥
Prakriyasarvasvam¶
तेन संसृष्टमित्यर्थे ठक् । तिलमिश्रास्तैलिकास्तण्डुलाः । मधुयुक्तं माधुकं पात्रम् । उगन्तात् कः ॥