44023: चूर्णादिनिः ================== **Padacheda:** चूर्णात् | S | 5 | 1 | इनिः | S | 1 | 1 | Sutrartha --------- **'संसृष्टम्' अस्मिन् अर्थे तृतीयासमर्थात् चूर्णशब्दात् 'इनि'प्रत्ययः भवति ।** 'संसृष्टम्' इत्युक्ते एकीकृतम् । यत्र एकीकरणस्य साधनम् 'चूर्णम्' अस्ति, तत्र एकीकृतस्य पदार्थस्य निर्देशं कर्तुम् 'चूर्ण'शब्दात् इनिप्रत्ययः भवति । यथा - चूर्णेन संसृष्टम् → चूर्ण + इनि → चूर्ण् + इन् [**यस्येति च** (6.4.148) इति अकारलोपः] → चूर्णिन् ज्ञातव्यम् - 'इनि' प्रत्यये अन्तिमः इकारः इत्संज्ञकः नास्ति, यतः तस्य इत्संज्ञायाः किमपि प्रयोजनम् न । अत्र अयम् इकारः उच्चारणार्थः उक्तः अस्ति । यदि आचार्यः केवलम् 'इन्' प्रत्ययमवदिष्यत्, तर्हि अन्तिमनकारस्य **हलन्त्यम्** (1.3.3) इत्यनेन इत्संज्ञा, ततः लोपः च अभविष्यत् । तत् तथा मा भूत्, अतः अत्र अन्ते इकारः स्थापितः अस्ति । Vasu English Summary -------------------- The affix इनि comes after the word चूर्ण when the sense is 'mixed therewith'. Vasu English Translation ------------------------ The affix इनि comes after the word चूर्ण when the sense is 'mixed therewith'. This debars ठक् ॥ Thus चूर्णैः संसृष्टा = चूणिनो ऽपूपाः 'cakes sprinkled with powder.' चूर्णिनि धानाः ॥ Bhashya ------- चूर्णादिनिः (1761) (ःइनिप्रत्ययाधिकरणम्) (सूत्रप्रत्याख्यायकभाष्यम्) अयं योगः शक्योऽवक्तुम्। कथं चूर्णी, चूर्णिनौ, चूर्णिन इति? इनिनैतन्मत्वर्थीयेन सिद्धम्॥ Kashika ------- चूर्णशब्दादिनिः प्रत्ययो भवति संसृष्टे। ठकोऽपवादः। चूर्णैः संसृष्टाश्चूर्णिनोऽपूपाः चूर्णिनो धानाः॥ Siddhanta Kaumudi ----------------- चूर्णैः संसृष्टाश्चूर्णिनोऽपूपाः ॥ Balamanorama ------------ **चूर्णादिनिः** - चूर्णादिनिः ।संसृष्टमित्यर्थे तृतीयान्ता॑दिति शेषः । Padamanjari ----------- चूर्णए ये संसृष्टास्तेषां चूर्णमस्तीति मत्वर्थीयेनैवेनिना सिद्धम् ? सत्यम् ; तद्रूपविवक्षायां सिद्धम् । संसर्गविवक्षायां तु ठक् प्राप्नोति । अनभिधानं तु दुर्ज्ञानम् ॥ Nyaas ----- ननु च चूर्णेन ये संसृष्टास्तेषां चूर्णमस्ति, तत्र मत्वर्थीयेनैवेनिना सिद्धमिति तदपार्थकमिदम्? नैतत् ; अस्तिविवक्षायां मत्वर्थीयेन सिद्धं स्यात्, संसृष्टविवक्षायां पुनर्न सिध्यति, त हि ठक् स्यात्। ठको बाधनार्थत्वे कुतोऽस्यानर्थक्यम्॥ Prakriyasarvasvam ----------------- चूर्णी ॥