44013: वस्नक्रयविक्रयाट्ठन्

Padacheda: वस्न-क्रय-विक्रयात् | S | 5 | 1 |

ठन् | S | 1 | 1 |

Sutrartha

वस्न, क्रय, विक्रय - एतेभ्यः शब्देभ्यः तृतीयासमर्थेभ्यः ‘जीवति’ अस्मिन् अर्थे ठन्-प्रत्ययः भवति ।

वस्नम् (मूल्यम्), क्रयः, विक्रयः, क्रयविक्रयः - एतैः साहाय्येन यः जीवति, तस्य निर्देशं कर्तुम् एतेभ्यः शब्देभ्यः ठन्-प्रत्ययः भवति - 1. वस्नेन जीवति सः वस्निकः । 2. क्रयेण जीवति सः क्रयिकः । 3. विक्रयेण जीवति सः विक्रयिकः । 4. क्रयविक्रयेण जीवति सः क्रयविक्रयिकः । प्रक्रियायाः उदाहरणम् - वस्न + ठक् → वस्न + इक [ठस्येकः (7.3.50) इति इक्-आदेशः] → वस्न् + इक [यस्येति च (6.4.148) इति अकारलोपः] → वस्निक ज्ञातव्यम् - अस्मिन् सूत्रे ‘क्रयविक्रय’ अयम् निर्देशः क्रय, विक्रय तथा क्रयविक्रय - त्रयाणामपि ग्रहणं करोति । अतएव कौमुद्याम् काशिकायाम् च उच्यते - क्रयविक्रयग्रहणं सङ्घातविगृहीतार्थम्।

Vasu English Summary

The affix ठन् comes in the sense of ‘he lives thereby’ after the words 1. वस्न 2. क्रय and 3. विक्रय being in the Instrumental -3rd case in construction.

Vasu English Translation

The affix ठन् comes in the sense of ‘he lives thereby’ after the words 1. वस्न 2. क्रय and 3. विक्रय being in the Instrumental -3rd case in construction. This debars ठक् ॥ Thus वस्नेन जीवति = वस्निकः ‘who lives by hire–hireling’. In the case of क्रय and विक्रय the affix is applied to the words separately, as well as to their compound. Thus क्रयविक्रयिकः, क्रयिकः, विक्रयिकः ‘a trader’.

Kashika

वस्नक्रयविक्रयशब्दाभ्यां तृतीयासमर्थाभ्यां ठन् प्रत्ययो भवति, जीवतीत्येतस्मिन् विषये। ठकोऽपवादः। वस्नेन जीवति वस्निकः। क्रयविक्रयग्रहणं संघातविगृहीतार्थम्। क्रयविक्रयिकः। क्रयिकः। विक्रयिकः॥

Siddhanta Kaumudi

वस्नेन मुल्येन जीवति वस्निकः । क्रयविक्रयग्रहणं संघातविगृहीतार्थम् । क्रयविक्रयिकः । क्रयिकः । विक्रयिकः ॥

Balamanorama

वस्नक्रयविक्रयाट्ठन् - वस्नक्रयविक्रयाट्ठन् । जीवतीत्यर्थे तृतीयान्तेभ्यो वस्नादिभ्यष्ठन् स्यादित्यर्थः । सङ्घातविगृहीतार्थमिति । व्याख्यानादिति भावः ।

Padamanjari

वसेर्वस्नमुमूल्यम् । क्रियविक्रयग्रहणं सङ्घातविगृहीतार्थमिति । उक्तोऽत्र हेतुः । क्रयविक्रयेणेति समाहारद्वन्द्वः ॥

Nyaas

क्रयविक्रयग्रहणं सङ्घातविगृहीतार्थम् इति। इह तन्त्रेण क्रयविक्रयशब्दावुच्चारितौ;तत्रैकस्य सङ्घातार्थं ग्रहणम्, अपरस्य तु विगृहीतार्थं वेदितव्यम्॥

Prakriyasarvasvam

वस्त्रं मूल्यं, तेन जीवन् वस्निकः । क्रयविक्रयिकः । व्यस्ताच्च क्रयिकः । विक्रयिकः ॥

Vartika

क्रयविक्रयग्रहणं संघातविगृहीतार्थम् ।