44012: वेतनादिभ्यो जीवति

Padacheda: वेतन-आदिभ्यः | S | 5 | 3 |

जीवति | T | | |

Sutrartha

वेतनादिगणस्य शब्दानां विषये तृतीयासमर्थात् ‘जीवति’ अस्मिन् अर्थे ठक्-प्रत्ययः भवति ।

वेतनादिगणे ये शब्दाः पाठ्यन्ते, तेषां विषये ‘अनेन सह जीवति सः’ अस्मिन् अर्थे तृतीयासमर्थात् ठक्-प्रत्ययः भवति । वेतानादिगणः अयम् - वेतन। वाह। अर्धवाह। धनुर्दण्ड। जाल। वेस। उपवेस। प्रेषन। उपस्ति। सुख। शय्या। शक्ति। उपनिषत्। उपवेष। स्रक्। पाद। उपस्थान। उदाहरणानि - 1. वेतनेन जीवति सः = वेतन + ठक् → वेतन + इक [ठस्येकः (7.3.50) इति इक्-आदेशः] → वैतन + इक [किति च (7.2.118) इति आदिवृद्धिः] → वैतन् + इक [यस्येति च (6.4.148) इति अकारलोपः] → वैतनिक तथैव - जालेन जीवति सः = जाल + ठक् → जालिक । शक्त्या जीवति सः = शक्ति + ठक् → शाक्तिक । 2. उपनिषद्भिः जीवति सः = उपनिषद् + ठक् → उपनिषद् + क [ठस्येकः (7.3.50) इति इक्-आदेशे प्राप्ते तं बाधित्वा इसुसुक्तान्तात् कः (7.3.51) इत्यनेन ककारादेशः] → उपनिषत्क [खरि च (8.4.55) इति चर्त्वम्] ज्ञातव्यम् - अस्मिन् गणे ‘धनुर्दण्ड’ शब्दः निर्दिष्टः अस्ति । अस्य विषये काशिकाकारः वदति - ‘धनुर्दण्डग्रहणमत्र सङ्घातविगृहीतार्थम्’। इत्युक्ते, ‘धनुर्दण्ड’ इत्यनेन सह ‘धनुष्’ तथा ‘दण्ड’ - एतयोः अप्यत्र समावेशः कर्तव्यः । यथा - धनुषा जीवति सः धानुष्कः । दण्डेन जीवति सः दाण्डिकः । धनुर्दण्डेन जीवति सः धानुर्दण्डिक ।

Vasu English Summary

The affix ठक् comes in the sense of ‘he lives thereby’ after the words वेतन etc. being in the Instrumental -3rd case in construction.

Vasu English Translation

The affix ठक् comes in the sense of ‘he lives thereby’ after the words वेतन etc. being in the Instrumental -3rd case in construction. Thus वेतनेन जीवति = वैतनिकः ‘who lives upon wages - a menial servant’. In the case of the word धनुर्दण्ड the affix applies to the compounds, as well as to the words forming the compound. Thus धानुर्दण्डिकः, धानुष्कः, दाण्डिकः ॥

1 वेतन, 2 वाहन (वाह), 3 अर्धवाहन (अर्धवाह), 4 धनुर्दण्डः 5 जाल, 6 वेश (वेस), 7 उपवेश (उपवेष, उपवेस), 8 प्रेषण, 9 उपवस्ति (उपस्ति),10 सुख, 11 शय्या, 12 शक्ति, 13 उपनिषद्, 14 उपदेश, 15 स्फिज् (स्फिज), 16 पाद, 17 उपस्थ, 18 उपस्थान, 19 उपहस्त, 20 स्रज् ॥

Kashika

तेनेति तृतीयासमर्थेभ्यो वेतनादिभ्यः शब्देभ्यो जीवतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। वेतनेन जीवति वैतनिकः कर्मकरः। धनुर्दण्डग्रहणमत्र संघातविगृहीतार्थम्। धानुर्दण्डिकः। धानुष्कः। दाण्डिकः॥ वेतन। वाह। अर्धवाह। धनुर्दण्ड। जाल। वेस। उपवेस। प्रेषण। उपस्ति। सुख। शय्या। शक्ति। उपनिषत् । उपवेष। स्रक् । पाद। उपस्थान। वेतनादिः॥

Siddhanta Kaumudi

वेतनेन जीवति वैतनिकः । धानुष्कः ॥

Balamanorama

वेतनादिभ्यो जीवति - वेतनादिभ्यो जीवति ।जीवतीत्यर्थे तृतीयान्तेभ्यष्ठ॑गिति शेषः । वैतनिक इति । वेतनेन जीवतीत्यर्थः । धानुष्क इति । धनुषा जीवतीत्यर्थः । उसन्तात्परत्वाट्ठस्य कः । ‘इणः षः’ इति षत्वम् ।

Padamanjari

धनुर्दण्डग्रहणं सङ्घातविगृहीतार्थमिति । तन्त्रावृत्येकशेषाणामन्यतमाश्रयणात् ॥

Prakriyasarvasvam

एभ्यः तेन जीवतीत्यर्थे ठक् । ‘वेतनवाहार्ववाहपादप्रेषणसुखशय्यावेश- शक्तिभ्यः’ (भो० ४-४-५७) । वैतानिकः । वाहो भारः, परिमाणभेदो वा । तेन जीवन् वाहिकः । आर्धवाहिकः । मूर्धवाहेति वृत्तिपाठः, मौर्धवाहिकः । पादिकः । प्रैषणिकः । सौखिकः । शय्याधिकृतः शाय्यिकः । वैशिकः । शाक्तिकः । ‘उपाद्- देशवेशहस्तस्थानस्थितनिषद्भ्यः’ (भो० ४-४-५८) । औपदेशिको गुरुः । औपवेशिकः सेवकः । औपहस्तिकः, औपस्थानिकः, औपस्थितिकश्च सेवकः । औपनिषदिकः । ‘व्यस्ताच्च धनुर्दण्डात्’ (भो० ४-४-५९) । धानुदण्डिकः । उसन्तादृस्य कः, ‘सोऽपदादौ’ (८-३-३८) । ‘इणः षः’ (८-३-३९) धानुष्कः । दाण्डिकः ॥

Sutra Prayogas

  • धर्म्यासु (भट्टिकाव्यम्): धर्म-पथ्यर्थ इत्यादिना यत् ।