44014: आयुधाच्छ च

Padacheda: आयुधात् | S | 5 | 1 |

छ | S | | | 1

च | S | 0 | 0 |

Sutrartha

‘जीवति’ अस्मिन् अर्थे तृतीयासमर्थात् ‘आयुध’शब्दात् ठन् तथा छ-प्रत्ययौ भवतः ।

आयुधस्य साहाय्येन यः जीवति, तस्य निर्देशार्थम् वर्तमानसूत्रेण आयुधशब्दात् ठन्-प्रत्ययः छ-प्रत्ययः च दीयेते । यथा - 1. आयुधेन जीवति = आयुध + ठन् → आयुध + इक [ठस्येकः (7.3.50) इति इक्-आदेशः] → आयुध् + इक [यस्येति च (6.4.148) इति अकारलोपः] → आयुधिक 2. आयुधेन जीवति = आयुध + छ → आयुध + ईय [आयनेयीनीयः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इत्यनेन छकारस्य ईय्-आदेशः] → आयुध् + ईय [यस्येति च (6.4.148) इति अकारलोपः] → आयुधीय

Vasu English Summary

The affixes छ and ठन् come in the sense of ‘he conveys thereby’ after the word आयुध।

Vasu English Translation

The affixes छ and ठन् come in the sense of ‘he conveys thereby’ after the word आयुध। Thus आयुधेन जीवति = आयुधीयः (formed by छ), or आयुधिकः (by ठन्) ‘a mercenary soldier’.

Kashika

आयुधशब्दाच् छप्रत्ययो भवति, चकारात् ठंश्च, जीवतीत्येतस्मिन् विषये। आयुधेन जीवति आयुधीयः। आयुधिकः॥

Siddhanta Kaumudi

चाट्ठन् । आयुधेन जीवति आयुधीयः । आयुधिकः ॥

Balamanorama

आयुधाच्छ च - आयुधाच्छ च । जीवतीत्यर्थे तृतीयान्तादायुधशब्दाच्छः स्याट्ठन् चेत्यर्थः ।

Tattvabodhini

आयुधाच्छ च - आयुधाच्छ छ । आयुध्यन्ते अनेनेति आयुधं ।घञर्थे कविधान॑मिति कः ।

Padamanjari

आयुध्यतेऽनेनेति आयुधम्,’घञर्थे कविधानम्’ इति कप्रत्ययः ॥

Prakriyasarvasvam

ठंश्च । आयुधेन जीवन्नायुधीयः । आयुधिकः ॥

Sutra Prayogas

  • वृद्धौरसां (भट्टिकाव्यम्): उरसोऽणू च इत्यण्।