44013: वस्नक्रयविक्रयाट्ठन् =========================== **Padacheda:** वस्न-क्रय-विक्रयात् | S | 5 | 1 | ठन् | S | 1 | 1 | Sutrartha --------- **वस्न, क्रय, विक्रय - एतेभ्यः शब्देभ्यः तृतीयासमर्थेभ्यः 'जीवति' अस्मिन् अर्थे ठन्-प्रत्ययः भवति ।** वस्नम् (मूल्यम्), क्रयः, विक्रयः, क्रयविक्रयः - एतैः साहाय्येन यः जीवति, तस्य निर्देशं कर्तुम् एतेभ्यः शब्देभ्यः ठन्-प्रत्ययः भवति - 1. वस्नेन जीवति सः वस्निकः । 2. क्रयेण जीवति सः क्रयिकः । 3. विक्रयेण जीवति सः विक्रयिकः । 4. क्रयविक्रयेण जीवति सः क्रयविक्रयिकः । प्रक्रियायाः उदाहरणम् - वस्न + ठक् → वस्न + इक [**ठस्येकः** (7.3.50) इति इक्-आदेशः] → वस्न् + इक [**यस्येति च** (6.4.148) इति अकारलोपः] → वस्निक ज्ञातव्यम् - अस्मिन् सूत्रे 'क्रयविक्रय' अयम् निर्देशः क्रय, विक्रय तथा क्रयविक्रय - त्रयाणामपि ग्रहणं करोति । अतएव कौमुद्याम् काशिकायाम् च उच्यते - क्रयविक्रयग्रहणं सङ्घातविगृहीतार्थम्। Vasu English Summary -------------------- The affix ठन् comes in the sense of 'he lives thereby' after the words 1. वस्न 2. क्रय and 3. विक्रय being in the Instrumental -3rd case in construction. Vasu English Translation ------------------------ The affix ठन् comes in the sense of 'he lives thereby' after the words 1. वस्न 2. क्रय and 3. विक्रय being in the Instrumental -3rd case in construction. This debars ठक् ॥ Thus वस्नेन जीवति = वस्निकः 'who lives by hire--hireling'. In the case of क्रय and विक्रय the affix is applied to the words separately, as well as to their compound. Thus क्रयविक्रयिकः, क्रयिकः, विक्रयिकः 'a trader'. Kashika ------- वस्नक्रयविक्रयशब्दाभ्यां तृतीयासमर्थाभ्यां ठन् प्रत्ययो भवति, जीवतीत्येतस्मिन् विषये। ठकोऽपवादः। वस्नेन जीवति वस्निकः। क्रयविक्रयग्रहणं संघातविगृहीतार्थम्। क्रयविक्रयिकः। क्रयिकः। विक्रयिकः॥ Siddhanta Kaumudi ----------------- वस्नेन मुल्येन जीवति वस्निकः । क्रयविक्रयग्रहणं संघातविगृहीतार्थम् । क्रयविक्रयिकः । क्रयिकः । विक्रयिकः ॥ Balamanorama ------------ **वस्नक्रयविक्रयाट्ठन्** - वस्नक्रयविक्रयाट्ठन् । जीवतीत्यर्थे तृतीयान्तेभ्यो वस्नादिभ्यष्ठन् स्यादित्यर्थः । सङ्घातविगृहीतार्थमिति । व्याख्यानादिति भावः । Padamanjari ----------- वसेर्वस्नमुमूल्यम् । क्रियविक्रयग्रहणं सङ्घातविगृहीतार्थमिति । उक्तोऽत्र हेतुः । क्रयविक्रयेणेति समाहारद्वन्द्वः ॥ Nyaas ----- `क्रयविक्रयग्रहणं सङ्घातविगृहीतार्थम्` इति। इह तन्त्रेण क्रयविक्रयशब्दावुच्चारितौ;तत्रैकस्य सङ्घातार्थं ग्रहणम्, अपरस्य तु विगृहीतार्थं वेदितव्यम्॥ Prakriyasarvasvam ----------------- वस्त्रं मूल्यं, तेन जीवन् वस्निकः । क्रयविक्रयिकः । व्यस्ताच्च क्रयिकः । विक्रयिकः ॥ Vartika ------- क्रयविक्रयग्रहणं संघातविगृहीतार्थम् ।