44011: श्वगणाट्ठञ्च¶
Padacheda: श्वगणात् | S | 5 | 1 |
ठञ् | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
‘चरति’ अस्मिन् अर्थे तृतीयासमर्थात् ‘श्वगण’ शब्दात् ष्ठन् तथा ठञ् प्रत्ययौ भवतः ।
श्वगणेन (श्वानपथकस्य साहाय्येन) यः चरति, तस्य निर्देशं कर्तुम् तृतीयासमर्थात् ‘श्वगण’शब्दात् ‘ष्ठन्’ तथा ‘ठञ्’ प्रत्ययौ भवतः । यथा - 1. श्वगणेन चरति सः = श्वगण + ष्ठन् → श्वगण + ठ [इत्संज्ञालोपः] → श्वगण + इक [ठस्येकः (7.3.50) इति इक्-आदेशः] → श्वगण् + इक [यस्येति च (6.4.148) इति अकारलोपः] → श्वगणिक । स्त्रीलिङ्गे विवक्षिते प्रत्ययस्य षित्वात् षिद्गौरादिभ्यश्च (4.1.41) इत्यनेन ङीष्-प्रत्ययं कृत्वा ‘श्वगणिकी’ इति प्रातिपदिकं सिद्ध्यति । 2. श्वगणेन चरति सः = श्वगण + ठञ् → श्वगण + ठ [इत्संज्ञालोपः] → श्वगण + इक [ठस्येकः (7.3.50) इति इक्-आदेशः] → श्वागण + इक [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → श्वागण् + इक [यस्येति च (6.4.148) इति अकारलोपः] → श्वागणिक । स्त्रीलिङ्गे विवक्षिते टिड्ढाणञ् (4.1.41) इत्यनेन ङीप्-प्रत्ययं कृत्वा ‘श्वागणिकी’ इति प्रातिपदिकं सिद्ध्यति । ज्ञातव्यम् - ‘श्वन्’ अयम् शब्दः द्वारादीनां च (7.3.4) इत्यत्र द्वारादिगणे निर्दिष्टः अस्ति, अतः वस्तुतः ‘श्वगण’ इत्यत्र आदिवृद्धिं बाधित्वा ऐच्-आगमः भवेत् । परन्तु श्वादेरिञि (7.3.8) इत्यत्र निर्दिष्टेन <!इकारादाविति वाच्यम् !> अनेन वार्त्तिकेन अस्य ऐच्-आगमस्य निषेधः भवति । अतः [तद्धितेष्वचामादेः (7.2.117) इत्यनेन आदिवृद्धिं कृत्वैव रूपं सिद्ध्यति ।
Vasu English Summary¶
The affixes ठञ् and ष्ठन् , come after the word श्वगण , in the sense of ‘he goes by means thereof’.
Vasu English Translation¶
The affixes ठञ् and ष्ठन् , come after the word श्वगण , in the sense of ‘he goes by means thereof’. This debars ठक् ॥ Thus श्वगणेन चरति = श्वागणिकः ‘who lives by dogs’. f. श्वागणिकी ॥ ठन् श्वगणिकः f. श्वगणिका ॥
The form श्वागणिकः is evolved by the breach of rule (7.3.4). Thus श्वगण + ठञ् ॥ Here by (7.2.117), ञ् requires Vriddhi of अ of श्व ॥ But rule (7.3.4) says that instead of Vriddhi, the letter औ comes before व in the case of श्वन् &c. The proper form, therefore, would have been शौवगणिकः ॥ The irregularity is, however, explained by saying that the prohibition contained in (7.3.8) which applies when श्वन् is followed by इञ्, applies also to श्वन् followed by ठञ् ॥ In fact, the rule (7.3.4) does not apply, whenever the word श्वन् is followed by an affix beginning with the letter इ ॥
Kashika¶
श्वगणशब्दात् ठञ् प्रत्ययो भवति, चकारात् ष्ठन्, चरतीत्येतस्मिन्नर्थे। ठकोऽपवादः। श्वगणेन चरति श्वागणिकः। श्वागणिकी। ष्ठन् — श्वगणिकः। श्वगणिकी। श्वादेरिञि (७.३.८) इत्यत्र वक्ष्यति — इकारादिग्रहणं च कर्तव्यं श्वागणिकाद्यर्थम् (वा० ७.३.८) इति। तेन ठञि द्वारादिकार्यं न भवति॥
Siddhanta Kaumudi¶
चात् ष्ठन् ॥
Balamanorama¶
श्वगणाट्ठञ्च - आगणाट्ठञ् च । ‘उक्तविषये’ इति शेषः । आगणशब्दात्तृतीयान्ताच्चरतीत्यर्थे ठञ् ष्ठन् च स्यादित्यर्थः । आआगणिक इत्युदाहरणं वक्ष्यति । तत्र आन्शब्दस्य द्वारादित्वादेजागमे प्राप्ते ।
Tattvabodhini¶
श्वगणाट्ठञ्च - आगणाट्ठञ्च । ठकोऽपादः ।
Padamanjari¶
श्वागणिक इति । ननु च श्वशब्दो द्वारादिषु पठ।ल्ते, तदादिविधिश्च तत्रेष्यते, तत्कथं श्वागणिक इति ? तत्राह - श्वादेरिञीत्यत्रेति ॥
Nyaas¶
ष्वागणिकः`इति। शुनां गणः आगणः। ननु च आञ्शब्दो द्वारादिषु पठत इति `द्वारादीनाञ्च (7.3.4) इति वृद्धिप्रतिषेधेनैवागमेन भवितव्यम्, तत्र तदादिविधेरिष्टत्वात्, तत्कथं आआगणिक इति भवति? इत्याह - `आआदेरिञिट इत्यादि। द्वारादिकार्ये च प्रतिषिद्धे सत्यादिवृद्धिरेव भवति॥
Prakriyasarvasvam¶
चकारात् ष्ठन् । श्वगणेन चरन् श्वागणिकः । श्वगणिकः । अत्र श्वन्शब्दस्य