44012: वेतनादिभ्यो जीवति ======================== **Padacheda:** वेतन-आदिभ्यः | S | 5 | 3 | जीवति | T | | | Sutrartha --------- **वेतनादिगणस्य शब्दानां विषये तृतीयासमर्थात् 'जीवति' अस्मिन् अर्थे ठक्-प्रत्ययः भवति ।** वेतनादिगणे ये शब्दाः पाठ्यन्ते, तेषां विषये 'अनेन सह जीवति सः' अस्मिन् अर्थे तृतीयासमर्थात् ठक्-प्रत्ययः भवति । वेतानादिगणः अयम् - वेतन। वाह। अर्धवाह। धनुर्दण्ड। जाल। वेस। उपवेस। प्रेषन। उपस्ति। सुख। शय्या। शक्ति। उपनिषत्। उपवेष। स्रक्। पाद। उपस्थान। उदाहरणानि - 1. वेतनेन जीवति सः = वेतन + ठक् → वेतन + इक [**ठस्येकः** (7.3.50) इति इक्-आदेशः] → वैतन + इक [**किति च** (7.2.118) इति आदिवृद्धिः] → वैतन् + इक [**यस्येति च** (6.4.148) इति अकारलोपः] → वैतनिक तथैव - जालेन जीवति सः = जाल + ठक् → जालिक । शक्त्या जीवति सः = शक्ति + ठक् → शाक्तिक । 2. उपनिषद्भिः जीवति सः = उपनिषद् + ठक् → उपनिषद् + क [**ठस्येकः** (7.3.50) इति इक्-आदेशे प्राप्ते तं बाधित्वा **इसुसुक्तान्तात् कः** (7.3.51) इत्यनेन ककारादेशः] → उपनिषत्क [**खरि च** (8.4.55) इति चर्त्वम्] ज्ञातव्यम् - अस्मिन् गणे 'धनुर्दण्ड' शब्दः निर्दिष्टः अस्ति । अस्य विषये काशिकाकारः वदति - 'धनुर्दण्डग्रहणमत्र सङ्घातविगृहीतार्थम्'। इत्युक्ते, 'धनुर्दण्ड' इत्यनेन सह 'धनुष्' तथा 'दण्ड' - एतयोः अप्यत्र समावेशः कर्तव्यः । यथा - धनुषा जीवति सः धानुष्कः । दण्डेन जीवति सः दाण्डिकः । धनुर्दण्डेन जीवति सः धानुर्दण्डिक । Vasu English Summary -------------------- The affix ठक् comes in the sense of 'he lives thereby' after the words वेतन etc. being in the Instrumental -3rd case in construction. Vasu English Translation ------------------------ The affix ठक् comes in the sense of 'he lives thereby' after the words वेतन etc. being in the Instrumental -3rd case in construction. Thus वेतनेन जीवति = वैतनिकः 'who lives upon wages - a menial servant'. In the case of the word धनुर्दण्ड the affix applies to the compounds, as well as to the words forming the compound. Thus धानुर्दण्डिकः, धानुष्कः, दाण्डिकः ॥ 1 वेतन, 2 वाहन (वाह), 3 अर्धवाहन (अर्धवाह), 4 धनुर्दण्डः 5 जाल, 6 वेश (वेस), 7 उपवेश (उपवेष, उपवेस), 8 प्रेषण, 9 उपवस्ति (उपस्ति),10 सुख, 11 शय्या, 12 शक्ति, 13 उपनिषद्, 14 उपदेश, 15 स्फिज् (स्फिज), 16 पाद, 17 उपस्थ, 18 उपस्थान, 19 उपहस्त, 20 स्रज् ॥ Kashika ------- तेनेति तृतीयासमर्थेभ्यो वेतनादिभ्यः शब्देभ्यो जीवतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। वेतनेन जीवति वैतनिकः कर्मकरः। धनुर्दण्डग्रहणमत्र संघातविगृहीतार्थम्। धानुर्दण्डिकः। धानुष्कः। दाण्डिकः॥ वेतन। वाह। अर्धवाह। धनुर्दण्ड। जाल। वेस। उपवेस। प्रेषण। उपस्ति। सुख। शय्या। शक्ति। उपनिषत् । उपवेष। स्रक् । पाद। उपस्थान। वेतनादिः॥ Siddhanta Kaumudi ----------------- वेतनेन जीवति वैतनिकः । धानुष्कः ॥ Balamanorama ------------ **वेतनादिभ्यो जीवति** - वेतनादिभ्यो जीवति ।जीवतीत्यर्थे तृतीयान्तेभ्यष्ठ॑गिति शेषः । वैतनिक इति । वेतनेन जीवतीत्यर्थः । धानुष्क इति । धनुषा जीवतीत्यर्थः । उसन्तात्परत्वाट्ठस्य कः । 'इणः षः' इति षत्वम् । Padamanjari ----------- धनुर्दण्डग्रहणं सङ्घातविगृहीतार्थमिति । तन्त्रावृत्येकशेषाणामन्यतमाश्रयणात् ॥ Prakriyasarvasvam ----------------- एभ्यः तेन जीवतीत्यर्थे ठक् । 'वेतनवाहार्ववाहपादप्रेषणसुखशय्यावेश- शक्तिभ्यः' (भो० ४-४-५७) । वैतानिकः । वाहो भारः, परिमाणभेदो वा । तेन जीवन् वाहिकः । आर्धवाहिकः । मूर्धवाहेति वृत्तिपाठः, मौर्धवाहिकः । पादिकः । प्रैषणिकः । सौखिकः । शय्याधिकृतः शाय्यिकः । वैशिकः । शाक्तिकः । 'उपाद्- देशवेशहस्तस्थानस्थितनिषद्भ्यः' (भो० ४-४-५८) । औपदेशिको गुरुः । औपवेशिकः सेवकः । औपहस्तिकः, औपस्थानिकः, औपस्थितिकश्च सेवकः । औपनिषदिकः । 'व्यस्ताच्च धनुर्दण्डात्' (भो० ४-४-५९) । धानुदण्डिकः । उसन्तादृस्य कः, 'सोऽपदादौ' (८-३-३८) । 'इणः षः' (८-३-३९) धानुष्कः । दाण्डिकः ॥ Sutra Prayogas -------------- * **धर्म्यासु** (भट्टिकाव्यम्): `धर्म-पथ्यर्थ` इत्यादिना यत् ।