44010: पर्पादिभ्यः ष्ठन्¶
Padacheda: पर्प-आदिभ्यः | S | 5 | 3 |
ष्ठन् | S | 1 | 1 |
Sutrartha¶
पर्पादिगणस्य तृतीयासमर्थेभ्यः शब्देभ्यः ‘चरति’ अस्मिन् अर्थे ष्ठन्-प्रत्ययः भवति ।
पर्पादिगणे निर्दिष्टानाम् शब्दानां विषये ‘चरति’ अस्मिन् अर्थे तृतीयासमर्थात् औत्सर्गिकं ठक्-प्रत्ययं बाधित्वा ष्ठन्-प्रत्ययः विधीयते । पर्पादिगणः अयम् - पर्प। अश्व। अश्वत्थ। रथ। जाल। न्यास। व्याल। पादः पत् च (गणसूत्रम्) । यथा - 1. पर्पेण चरतिः सः = पर्प + ष्ठन् → पर्पिक । (पर्प = तत् शकटम् यस्मिन् उपविश्य पङ्गवः चरन्ति ) । प्रक्रिया- पर्प + ष्ठन् → पर्प + ठ [षकारनकारयोः इत्संज्ञा, लोपः] → पर्प + इक [ठस्येकः (7.3.50) इति इक्-आदेशः] → पर्प् + इक [यस्येति च (6.4.148) इति अकारलोपः → पर्पिक । 2. रथेन चरति सः रथिकः । प्रक्रिया तु पर्प-शब्दवदेव । पर्पादिगणे ‘पादः पत्’ इति गणसूत्रम् वर्तते । अनेन ‘पाद’ इति शब्दस्य ष्ठन्-प्रत्यये परे पद्-आदेशः भवति । पादेन चलति सः पदिकः । प्रक्रिया इयम् - पाद + ष्ठन् → पाद + ठ [षकारनकारयोः इत्संज्ञा, लोपः] → पाद + इक [ठस्येकः (7.3.50) इति इक्-आदेशः] → पद् + इक [‘पादः पत् च’ इति गणसूत्रम् । अनेन ‘पाद’ शब्दस्य पद्-आदेशः भवति ।] → पदिक ज्ञातव्यम् - 1. ‘ष्ठन्’-प्रत्यये नकारः स्वरनिर्देशार्थम् स्वीक्रियते । ञ्नित्यादिर्नित्यम् (6.1.197) इत्यनेन नित्-प्रत्यये परे समुदायस्य आद्युदात्तत्वं विधीयते । अतः पर्पिक, रथिक, पदिक - एतेषु सर्वेषु शब्देषु प्रथमः स्वरः उदात्तत्वं प्राप्नोति । 2. ‘ष्ठन्’-प्रत्यये षकारग्रहणम् ‘ङीष्’विधानार्थम् क्रियते । षित्-प्रत्ययान्तशब्दाः स्त्रीलिङ्गे षिद्गौरादिभ्यश्च (4.1.41) इत्यनेन ङीष्-प्रत्ययं स्वीकुर्वन्ति । यथा = पर्पेण चरति सा = पर्पिक + ङीष् → पर्पिकी ।
Vasu English Summary¶
The affix ष्ठन् comes in the sense of ‘he goes on, by means thereof’ after the words पर्प etc.
Vasu English Translation¶
The affix ष्ठन् comes in the sense of ‘he goes on, by means thereof’ after the words पर्प etc. This debars ठक्; the न् of ष्ठन् is for accent (6.1.197), and ष् for ङीष् (4.1.41). Thus प꣡र्पिकः f. पर्पिकी꣡, अ꣡श्विकः f. अ꣡श्विकी ॥ प꣡दिकः f. पदिकी ॥ The पाद is changed to पद् before this affix (6.3.52). This debars ठक्; the न् of ष्ठन् is for accent (6.1.197), and ष् for ङीष् (4.1.41). Thus प꣡र्पिकः f. पर्पिकी꣡, अ꣡श्विकः f. अ꣡श्विकी ॥ प꣡दिकः f. पदिकी꣡ ॥ The पाद is changed to पद् before this affix (6.3.52).
1 पर्प, 2 अश्व, 3 अश्वत्थ, 4 रथ, 5 जाल, 6 न्यास, 7 व्याल, 8 पादः पच्च ॥
Kashika¶
पर्प इत्येवमादिभ्यः ष्ठन् प्रत्ययो भवति चरतीत्येतस्मिन्नर्थे। ठकोऽपवादः। नकारः स्वरार्थः। षकारो ङीषर्थः। पर्पिकः। पर्पिकी। अश्विकः। अश्विकी॥ पर्प। अश्व। अश्वत्थ। रथ। जाल। न्यास। व्याल। पादः पच्च (ग०सू० १०७)। पदिकः। पर्पादिः॥
Siddhanta Kaumudi¶
पर्पेण चरति । पर्पिकः पर्पिकी । येन पीठेन पङ्गवश्चरन्ति न पर्पः । अश्विकः । रथिकः ॥
Balamanorama¶
पर्पादिभ्यः ष्ठन् - पर्पादिभ्यः ष्ठन् । ष्ठन् इति च्छेदः ।चरतीत्यर्थे तृतीयान्तेभ्य॑ इति शेषः । षित्त्वं ङीषर्थमित्याह — पर्पिकीति । अइआक इति । अओन चरतीत्यर्थः ।
Tattvabodhini¶
पर्पादिभ्यः ष्ठन् - पर्प इति ।पर्प गतौ॑ ।हलश्चे॑ति करणे घञ् । इहन्तर्गणसूत्रंपादः पच्चे॑ति । पादाभ्यां चरति पदिकः । यत्तु वार्तिकंपद्भाव इके चरतावुपसङ्ख्यान॑मिति सोऽस्यैव प्रपञ्चः । प्रप, अआ, अआत्थ, रथ, जाल,(जल) न्या, व्याल, पादः पत् ।
Padamanjari¶
पर्पादिषु’पादः पत्’ इति पठ।ल्ते, पादाभ्यां चरति पदिकः,’पद्यत्यतदर्थे’ इत्यत्र वक्ष्यति -ठ्पद्भाव इके चरतावुपसङ्ख्यानम्ऽ इति, सोऽस्यैव प्रपञ्चार्थः ॥
Nyaas¶
पर्पादिषु पादः पच्च इति पठते, तस्याययमर्थः - पादशब्दात् ष्ठन् प्रत्ययो भवति तत्सन्नयोगेन चपदित्ययमादेशः पदिकः, पदिकी। यद्येवं पद् यत्यतदर्थे (6.3.53) इति पद्भाव इके चरतावुपसंख्यानम् (वा।740) इतिकस्मादुपसंख्यायते? नैष दोषः; पादः पत् (6.4.130) इत्यस्यापौराणिकत्वात्॥
Prakriyasarvasvam¶
अयमपि षित् । ‘पर्पाश्वाश्वत्थरथजालव्यालव्यासेभ्यः’ (भो० ४-४-५५) । पर्पः प्लवः पङ्गूनां चरणार्थः पीठो वा, तेन चरति पर्पिकः । अश्विकः । षित्त्वात् पर्पिकी । ‘पादस्य पच्च’ (ग०) । पादेन चरन् पदिकः ॥