43149: असंज्ञायां तिलयवाभ्याम् ============================== **Padacheda:** अ-संज्ञायाम् | S | 7 | 1 | तिल-यवाभ्याम् | S | 5 | 2 | Sutrartha --------- **** Vasu English Summary -------------------- The affix मयट् comes in the sense of 'product' after the words तिल and यवा - the whole not being a name. Vasu English Translation ------------------------ The affix मयट् comes in the sense of 'product' after the words तिल and यवा - the whole not being a name. Thus तिलमयम्, यवमयम्, ॥ Why do we say असंज्ञायाम् "it not being a Name?" Observe तैलम् 'oil,' यावकः formed with कन् (यावादिभ्यः कन् (5.4.29)) Kashika ------- तिलयवशब्दाभ्यामसंज्ञाविषये मयट् प्रत्ययो भवति विकारावयवयोरर्थयोः। तिलमयम्। यवमयम्। असंज्ञायामिति किम्? तैलम्। यावकः। **यावादिभ्यः कन्** (५.४.२९)॥ Siddhanta Kaumudi ----------------- तिलमयम् । यवमयम् । संज्ञायां तु तैलम् । यावकः ॥ Balamanorama ------------ **असंज्ञायां तिलयवाभ्याम्** - असंज्ञायां तिलयवाभ्याम् ।नित्यंमय॑डिति शेषः । यावक इति । यवशब्दाद्विकारे अण् । ततः 'यावादिभ्यः' इति स्वार्थे कन् । Tattvabodhini ------------- **असंज्ञायां तिलयवाभ्याम्** - यावक इति । यवशब्दाद्विकारेऽण्, तदन्तात्यावादिभ्यः॑इति स्वार्थे कन् । Padamanjari ----------- यावक इति । यवशब्दाद्विकारेऽण्, तदन्ताद्'यावादिभ्यः' इति स्वार्थे कन् ॥ Nyaas ----- `मौञ्जम्` इति। मुञ्जाशब्दस्य पूर्वपदाद्युदात्तत्वेन तस्मादौत्सर्गिक एवाण्। `गार्मुत्म्` इति। `मुग्रोरुतिःट (पं।उ।1।96), `{गर्मुत् - द।उ। ग्रो मुट् च` (पं।उ।} गोर्मुट् च` (पं।उ।1।97) इति प्रत्ययस्वरेण गर्मुच्छब्दोऽन्तोदात्तः। तस्मात् **अनुदात्तादेश्च** (4.3.140) इत्यञ्। `ब्राआर्ध्री`इति। `वृधिवपभ्यां रन्` (द।उ।8।45) ब्राध्र्रशब्दो नित्स्वरेणाद्युदात्तः, तस्मात् **प्राग्दीव्यतोऽण्** (4.1.83) , `टिड्ढाणञ्` (4.1.15) इति ङीप्। `बैल्वम्` इति। **बिल्वादिभ्योऽण्** (4.3.136) ।अथ मतुषा निर्देशः किमर्थः? न नोद्वध्र्रबिल्वादित्येवोच्येतेत्यत आह - `मतुब्निर्देशः`इति।**नोत्वद्वर्ध्रबिल्वात्** (4.3.151) इत्युच्यमान उदिति वर्णग्रहणं स्यात्। अत्र वर्णग्रहणे सर्वत्र तदन्तविधिं प्रयोजयतीति तस्मात्तन्निषेधाय मतुब्निर्देशः। कः पुनस्तदन्तविधौ सति दोषः स्यादित्यत आह - `इहै व` इत्यादि। एवकारेण मुञ्जादिभ्यो न स्यादिति दर्शयति। `वैष्णवी` इति। बिल्वादित्वादण्॥ Prakriyasarvasvam ----------------- तिलमयम् । यवमयम् । नाम्नि तैलम् । यावकम् ।।