43144: नित्यं वृद्धशरादिभ्यः ============================ **Padacheda:** नित्यम् | S | 1 | 1 | वृद्ध-शर-आदिभ्यः | S | 5 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- The affix मयट् comes in the sense of 'product' and 'part' when neither food nor clothing is spoken of, invariably after वृद्ध words and शर etc. Vasu English Translation ------------------------ The affix मयट् comes in the sense of 'product' and 'part' when neither food nor clothing is spoken of, invariably after वृद्ध words and शर etc. Thus after *Vriddha*-- आम्रमयम्, शालमयम्, शाकमयम् ॥ After शरादि words:-- शरमयम्,हर्ममयम्, मृन्मयम् ॥ Why do we use the word नित्य 'invariably' in the *sutra*, when by the mere fact of making a separate *sutra*, the affix would be obligatory.? The affix मयट्, according to *Patanjali* comes invariably after words of one syllable. That is done by using the word नित्य in the *sutra*. Thus, त्वङ् मयम्, स्रङ् मयम्, वाङ् मयम् ॥ 1 शर, 2 दर्भ, 3 मृद्, 4 कुटी, 5 तृण, 6 सोम, 7 बल्वज (वल्वज). Kashika ------- भाषायामभक्ष्याच्छादनयोरित्येव। वृद्धेभ्यः प्रातिपदिकेभ्यः शरादिभ्यश्चाभक्ष्याच्छादनयोर्विकारावयवयोर्भाषायां विषये नित्यं मयट् प्रत्ययो भवति। वृद्धेभ्यस्तावत् — आम्रमयम्। शालमयम्। शाकमयम्। शरादिभ्यः — शरमयम्। दर्भमयम्। मृन्मयम्। नित्यग्रहणं किम्, यावतारम्भसामर्थ्यादेव नित्यं भविष्यति? एकाचो नित्यं मयटमिच्छन्ति, तदनेन क्रियते — त्वङ्मयम्, स्रङ्मयम्, वाङ्मयमिति ॥ शर। दर्भ। मृत्। कुटी। तृण। सोम। बल्वज। शरादिः॥ Siddhanta Kaumudi ----------------- आम्रमयम् । शरमयम् । (वार्तिकम्) ॥ त्वङ्मयम् । वाङ्मयम् । कथं तर्हि आप्यमम्मयमिति । तस्येदम् (SK1500) इत्यण्णन्तात्स्वार्थे ष्यञ् ॥ Laghu Siddhanta Kaumudi ----------------------- आम्रमयम्। शरमयम्॥ Balamanorama ------------ **नित्यं वृद्धशरादिभ्यः** - नित्यं वृद्ध ।मय॑डिति शेषः । उक्तविकल्पस्यापवादः ।एकाचो नित्यमिति ।नित्य॑मिति योगविभागलब्धमिदम् । अण्णन्तादिति । अपामिदमापम् ।तस्येद॑मित्यण् । ततः स्वार्थे चतुर्वर्णादित्वात् ष्यञि आप्यमिति रूपमित्यर्थः । Tattvabodhini ------------- **नित्यं वृद्धशरादिभ्यः** - नित्यं वृद्ध । इहभाषायामभक्ष्याच्छादनयो॑रित्यनुवर्तत इति वृत्तिः । नन्वेवमानन्दमयाधिकरणे शङ्कराचार्यैःअन्योन्तर आत्मानन्दमयः॑इति श्रुतौआनन्दमय इति विकारे मय॑डित्युक्तं तत्कथं सङ्गच्छतां ।प्राचुर्ये मय॑डिति तु वक्तुमुचितमिति चेत् । अत्राहुः -प्राचुर्ये मयटपि प्रकृत्यर्थविरोधिनो दुःखस्य लेशतोऽनुवृत्तिलाभात्प्रकृते विकारार्थः पर्यवस्यतीति तेषामाशयः । यद्वानित्यं वृद्धे॑त्यत्र भाषाग्रहणं नानुवर्तते । अनुवृत्तावपिभाषायां नित्यम्, अन्यत्र क्वाचित्कः॑इत्याश्रित्य मयट् सुसाधः । अथ वाहेतुमनुष्येभ्य॑इत्यनुवर्तमानेमयट् चे॑ति सूत्रेण आगतार्थे मयट् । विकार इति त्वार्थिकार्थकथनमेव । अतः शङ्करभगवत्पादोक्तिरनवद्यैवेति । शरमयमिति । शर दर्भ मृत्कटी तृण सोम बल्वज इति शरादिः ।एकाचो नित्यम् । एकाचो नित्यमिति.॒नित्यं वृद्धे॑ति नित्यग्रहणं योगविभागेनान्यत्रापि क्वचिद्विधानार्थं, तेनैतल्लभ्यत इति भावः । एकाच्त्वादेव सिद्धे शदादिषु मृच्छब्दपठनं विस्पष्टार्थमित्याहुः । Padamanjari ----------- नित्यं मयट्प्रत्ययो भवतीति । प्राग्दीव्यतीयानामपवादः । अणं तु कोपधलक्षणमञेव परत्वाद्वाधते । शाकमयम्, आम्रमयमिति । आम्रशब्दः ठमितम्योर्दीर्घश्चऽ इति रन्प्रत्ययान्तः । तदनेन क्रियत इति । नित्यंशब्दोऽतिरिच्यमानः पूर्वाचार्यपठितस्य वाक्यस्य स्मारक इति । एवं च मृच्छब्दस्य शरादिषु पाठोऽस्यैव प्रापञ्चार्थो द्रष्टव्यः ॥ Nyaas ----- `अणोऽपवादः` इति। पिष्टशब्दोऽयं **निष्ठा च द्व्यजनात्** (6.1.205) इत्याद्युदात्तः, तेन तस्मादौत्सर्गिकः प्राप्नोति, ततस्तस्यायमपवादः॥ Prakriyasarvasvam ----------------- वृद्धेभ्यः शरादिभ्यश्च लोके नित्यं मयट् । आम्रमयम् । दारुमयम् ! 'दारवशब्दो दुष्प्रयुक्तः' इति वामनः । शरादिभ्यस्तु 'शरदर्भतृणकुटीसोमबल्बजेभ्यः' (भो० ४-४-१७) बल्बजाः काशाः । शरमयं दर्भमयमित्यादि । अत्रापि भक्ष्याच्छादनयोर्न । शाक उपदंशः । दार्भं वासः । (वा०) । मृन्मयम् । वाङ्मयम् । 'मयट् तद्रूप इति केचित्' इति कौमुदी । विष्णुमयं जगत् । तद्धिताः (४-१-७६) इति बहुवचनसामर्थ्यादनुक्ता अपि प्रत्यया इष्टा इत्यपशब्दान्मयडर्थे करणे च यञपि स्यादित्याहुः । आप्यम् । अम्मयम् । आप्याः परमाणवः ॥ Vartika ------- एकाचो नित्यम् ।