43141: पलाशादिभ्यो वा ===================== **Padacheda:** पलाश-आदिभ्यः | S | 5 | 3 | वा | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The affix अञ् comes optionally in the sense of 'modification or part' after the words पलाश etc. Vasu English Translation ------------------------ The affix अञ् comes optionally in the sense of 'modification or part' after the words पलाश etc. Thus पालाशम् or पालाशम् so also खादिरम् or खादिरम्, यावासम् or यावासम् ॥ This *sutra* is an example of *prapta* and *aprapta* *vibhasha*. The words पलाश, खदिर, शिंशपा and स्यन्दन being gravely accented on the first syllable, the affix अञ् was obligatory by the last aphorism. This makes it optional, and is *prapta*-*vibhasha*. In the case of others it is *aprapta*-*vibhasha*. 1 पलाश, 2 खदिर, 3 शिंशपा, 4 स्यन्दन (स्पन्दन), 5 पूलाक, 6 करीर, 7 शिरीष, 8 यवास, 9 विकङ्कत. Kashika ------- पलाशादिभ्यः प्रातिपदिकेभ्यो वाञ् प्रत्ययो भवति विकारावयवयोरर्थयोः। पालाशम्। खादिरम्। यावासम्। उभयत्र विभाषेयम्। पलाशखदिरशिंशपास्पन्दनानामनुदात्तादित्वात् प्राप्ते, अन्येषामप्राप्ते॥ पलाश। खदिर। शिंशपा। स्पन्दन। करीर। शिरीष। यवास। विकङ्कत। पलाशादिः॥ Siddhanta Kaumudi ----------------- पालाशम् । कारीरम् ॥ Balamanorama ------------ **पलाशादिभ्यो वा** - पलाशादिभ्यो वा । 'अ' ञिति शेषः । अवयवे चेत्येव पलाशखदिररशिंशपास्यन्दनानामनुदात्तादित्वान्नित्यं प्राप्ते, इतरेषामप्राप्ते विकल्पोऽयम् । Tattvabodhini ------------- **पलाशादिभ्यो वा** - पलाशादिभ्यो वा । उभयत्रविभाषेयम् । पलाशखदिरशिंशपास्यन्दनानामनुदात्तादित्वान्नित्यं प्राप्ते, करीरशिरीषविकङ्कतपूलासयवासशब्दानामप्राप्तेविधानात् । पालाशमिति । पलाशब्दो घृतादित्वादन्तोदात्तः । खदिरशब्दः॒अजिरशिशिरे॑त्यादौ किरच्प्रत्ययान्तो निपातितः । शिंशपाशब्दःअथ द्वितीयं प्रागीषा॑दिति वर्तमानेपान्तानां गुर्वादीना॑मिति मध्योदात्तः ।स्पदि किंचिच्चलने॒॑अनुदात्तेतश्च हलादे॑रिति युच् । कारीरमिति ।किरतेरीरन् । नित्रुओण करीरशब्दोऽयमाद्युदात्तः ।कृतृभ्यामीषन्शृपृभ्यां किच्च॑ । पूर्ववच्छिरीषशब्दोऽप्याद्युदात्तः । विकङ्कतपूलासयवासशब्दाःग्रामादीनां चे॑त्याद्युदात्ताः । Padamanjari ----------- उभयत्रविभाषेयमिति । कथमित्याह - पलाशखदिरेत्यादि । पलाशशब्दो घृतादित्वादन्तोदातः । खदिरशब्दः ठजिरशिशरऽ इत्यादौ किरच्प्रत्ययान्तो निपातितः । शिंशपाशब्दो'द्वितीयं प्रागीषात्' इति वर्तमाने'पान्तादीनां गुर्वादीनाम्' इति मध्योदातः ।'स्पदि किञ्चिच्चलने' , ठनुदातेतश्च हलादेःऽ इति युच्, किरतेरीरन्, करीरम्,'कृहृभ्यामीषन्' , शृपृभ्यां किच्चऽ, शिरीषम्, शेषे नित्स्वरेणाद्यौदातावेतौ । विकङ्कतमूलासयवासशब्दाः'ग्रामादीनां च' इत्याद्यौदाताः ॥ Nyaas ----- `एतयोः` इति। `किमनेन`इत्यादि चोद्यम्। `ये विशेषप्रत्ययाः` इत्यादि परिहारः। आदिशब्देन **उष्ट्राद्वुञ्** (4.3.157) इत्येवमादयो गृह्यन्ते। यदि ह्रेतयोरिति नोच्येत, ततो य इति उत्तरे विशेषाः प्रत्ययाः अञादयः तैः सह सम्प्रसारणायां परत्वात् त एव स्युः। `एतयोः` इत्युच्यमाने तु विशेषप्रत्ययेष्वपि पक्षे भवन्ति, तेन कपोतमयमित्यादि सिद्धं भवति। अथ क्रियमाणे `एतयोः`इत्येतस्मिन्, कथमवादविषये मयड्? भवति? एतयोरित्यस्य द्वितीयविधानार्थत्वान्मयट्प्रत्ययो विकारावयवयोर्भवति। एकम् - विधानमेतयोरिति, मयड्भवतीति - द्वितीयम्। तत्र यद्येतदद्वितीयं विधानं तदा प्रापणार्थम्। तेन यत्रापि विशेषप्रत्ययैर्बाधितो विज्ञायते। तस्माद्वाग्रहणं कर्तव्यम्॥ Prakriyasarvasvam ----------------- अञण् च । स्वरे भेदः । पालाशं, खादिरं, वैकङ्कतं- शांशपमित्यादि । 'देविकाशिंशपा—' (७-३-१) इत्यात्त्वम् ॥