43139: ओरञ्

Padacheda: ओः | S | 5 | 1 |

अञ् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix अण् comes in the sense of ‘modification or part’ (provided that the word has not the अनुदात्त - grave accent on the first syllable).

Vasu English Translation

The affix अण् comes in the sense of ‘modification or part’ (provided that the word has not the अनुदात्त - grave accent on the first syllable). Thus देवदारवम्, भाद्रवारवम् ॥ The words देवदारु and भद्रदारु are ady-udatta owing to Phit Su. II.14 (पीतद्र्वर्थानाम् – the trees denoting soft timber trees have acute on the first).

Kashika

उवर्णान्तात् प्रातिपदिकादञ् प्रत्ययो भवति विकारावयवयोरर्थयोः। अणोऽपवादः। अनुदात्तादेरन्यदिहोदाहरणम्। दैवदारवम्। भाद्रदारवम्॥

Siddhanta Kaumudi

दैवदारवम् । भाद्रदारवम् ॥

Balamanorama

ओरञ् - ओरञ् । उवर्णादढ् स्यादित्यर्थः । प्राण्योषधिवृक्षेभ्योऽवये विकारे च, इतरेभ्यस्तु विकारे । दैवदारवं भाद्रदारवमिति । देवदारोर्भद्रदारोश्चावयवो विकारो वेत्यर्थः ।पीतद्वर्थाना॑मित्याद्युदात्तावेतौ । ततश्चअनुदात्तादेश्चे॑त्यनेन गतार्थता न ।

Tattvabodhini

ओरञ् - ओरञ् । अनुदात्तादेरन्यदिहोदाहरणम् । दैवदारवमिति । देवदारु — भद्रदारुशब्दौमितद्र्वर्थानामि॑त्याद्युदात्तौ ।

Padamanjari

देवदारु-भद्रदारुशब्दौ’पीतद्रवर्थानाम्’ इत्यादिनाद्यौदातौ । पीतद्रुः उ सरलो नवस्पतिः, पीतद्रुरर्थो येषां तेषामादिरुदातो भवतीत्यर्थः ॥

Nyaas

उभयत्रविभाषेयम् इति। प्राप्ते चाप्राप्ते च। तामेवोभयत्रविभाषां स्पष्टीकर्त्तुमाह - पलाशखदिर इत्यादि। पलाशशब्दो धृतादित्वादन्तोदात्तः,खदिरशब्दोऽपि तित्स्वरेण। इषिमदिमुदिखिदिच्छिदिभिदिमन्दिचन्दितिसिमिहिमुहिमुचिरुचिरुधिबन्धिशुषिभ्यः किरच् (द।उ।8।26) इत्यनुवर्तमाने अजिरशिशिरशिथिलस्थिरस्फिरस्थविरखदिराःर (द।उ।8।27) इति किरच्प्रत्ययान्तो निपातितः। शिंशपाशब्दः पान्तानां गुर्वादीनाम् (फिट्।3।55) इति मध्योदात्तः। तस्यायमर्थः - पाशब्दान्तानां गुर्वादीनां द्वितीयमुदात्तं भवतीति। अथख द्वितीयं प्रागीषात् (फि।सू।3।50) इत्यत्रानुवर्तते, स्पदि किञ्चिच्चलने (धातुपाठः-14) अस्मात् अनुदात्तादेश्च हलादेः (3.2.149) इति युच् - स्पन्दनः, चित्स्वरेणान्तोदात्तः। कृशृगृटिपटि{शौटिभ्यः -द।उ।}शटिभ्य ईरन् (द।उ।8।72) करीर शब्दो नित्स्वरेणाद्युदात्तः। कृशृगृकटिपटि{शौटिभ्यः द।उ।}शटिभ्य ईरन् (द।उ।8।72) करीर शब्दो नित्स्वरेणाद्युदात्तः। कृह्मभ्यामीषन् (द।उ।9।9), शृपृभ्यां {कित् -द।उ।}किच्च (द।उ।9।10) इति शिरीषशब्दोऽपि नित्स्वरेणाद्युदात्तः। विकङ्गतपूलासयवासाश्च ग्रामादीनां च (फि।सू। 2।38) इत्याद्युदात्ताः॥

Prakriyasarvasvam

उवर्णान्तादुक्तार्थयोरञ् । दैवदारवम् ॥

Sutra Prayogas

  • अलाबुनः (भट्टिकाव्यम्): तस्य विकारः फलमिति ओरन् इति।