43138: त्रपुजतुनोः षुक्¶
Padacheda: त्रपु-जतुनोः | S | 6 | 2 |
षुक् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix अण् with the augment षुक् comes in the sense of ‘its modification’ after the words त्रपुन् and जतुन्।
Vasu English Translation¶
The affix अण् with the augment षुक् comes in the sense of ‘its modification’ after the words त्रपुन् and जतुन्। This debars अञ् (4.3.139). As, त्रपुणो विकारः = त्रापुषम्; जातुषम् ‘modification of tin and lac.’ In these words denoting non-organic beings, the sense of अवयव is not denoted by the affix.
Kashika¶
त्रपुजतुशब्दाभ्यामण् प्रत्ययो भवति विकारे, तत्सन्नियोगेन तयोः षुगागमो भवति। ओरञोऽपवादः। त्रपुणो विकारः त्रापुषम्। जातुषम्। अप्राण्यादित्वाद् नावयवे॥
Siddhanta Kaumudi¶
आभ्यामण् स्याद्विकारे एतयोः षुगागमश्च । त्रापुषम् । जातुषम् ॥
Balamanorama¶
त्रपुजतुनोः षुक् - त्रपुजतुनो षक् । त्रापुषं जातुषमिति । त्रपुणो जतुनश्च विकार इत्यर्थः ।
Tattvabodhini¶
त्रपुजतुनोः षुक् - त्रपुजतुनोः ।बिल्वादिभ्योऽणि॑त्यतोऽनुवर्तनादाह — अण्स्यादिति ।ओरञि॑त्यस्यायमपवादः । अप्राण्यादित्वादवयवे न भवतीत्याशयेनाह -विकारे इति । त्रापुषमिति । त्रपुणो विकारः । एवं जुतनो विकारो जातुषम् ।
Padamanjari¶
अप्राण्यादित्वादिति । प्राण्योषधिवृक्षेष्वन्यतमत्वस्याभावादित्यर्थः ॥
Prakriyasarvasvam¶
आभ्यां विकारेऽण् षुक् च स्यात् त्रापुषं जातुषं तथा ॥