43139: ओरञ् =========== **Padacheda:** ओः | S | 5 | 1 | अञ् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix अण् comes in the sense of 'modification or part' (provided that the word has not the अनुदात्त - grave accent on the first syllable). Vasu English Translation ------------------------ The affix अण् comes in the sense of 'modification or part' (provided that the word has not the अनुदात्त - grave accent on the first syllable). Thus देवदारवम्, भाद्रवारवम् ॥ The words देवदारु and भद्रदारु are *ady*-*udatta* owing to *Phit* *Su*. II.14 (पीतद्र्वर्थानाम् -- the trees denoting soft timber trees have acute on the first). Kashika ------- उवर्णान्तात् प्रातिपदिकादञ् प्रत्ययो भवति विकारावयवयोरर्थयोः। अणोऽपवादः। अनुदात्तादेरन्यदिहोदाहरणम्। दैवदारवम्। भाद्रदारवम्॥ Siddhanta Kaumudi ----------------- दैवदारवम् । भाद्रदारवम् ॥ Balamanorama ------------ **ओरञ्** - ओरञ् । उवर्णादढ् स्यादित्यर्थः । प्राण्योषधिवृक्षेभ्योऽवये विकारे च, इतरेभ्यस्तु विकारे । दैवदारवं भाद्रदारवमिति । देवदारोर्भद्रदारोश्चावयवो विकारो वेत्यर्थः ।पीतद्वर्थाना॑मित्याद्युदात्तावेतौ । ततश्चअनुदात्तादेश्चे॑त्यनेन गतार्थता न । Tattvabodhini ------------- **ओरञ्** - ओरञ् । अनुदात्तादेरन्यदिहोदाहरणम् । दैवदारवमिति । देवदारु — भद्रदारुशब्दौमितद्र्वर्थानामि॑त्याद्युदात्तौ । Padamanjari ----------- देवदारु-भद्रदारुशब्दौ'पीतद्रवर्थानाम्' इत्यादिनाद्यौदातौ । पीतद्रुः उ सरलो नवस्पतिः, पीतद्रुरर्थो येषां तेषामादिरुदातो भवतीत्यर्थः ॥ Nyaas ----- `उभयत्रविभाषेयम्` इति। प्राप्ते चाप्राप्ते च। तामेवोभयत्रविभाषां स्पष्टीकर्त्तुमाह - `पलाशखदिर` इत्यादि। पलाशशब्दो धृतादित्वादन्तोदात्तः,खदिरशब्दोऽपि तित्स्वरेण। `इषिमदिमुदिखिदिच्छिदिभिदिमन्दिचन्दितिसिमिहिमुहिमुचिरुचिरुधिबन्धिशुषिभ्यः किरच्` (द।उ।8।26) इत्यनुवर्तमाने `अजिरशिशिरशिथिलस्थिरस्फिरस्थविरखदिराःर` (द।उ।8।27) इति किरच्प्रत्ययान्तो निपातितः। शिंशपाशब्दः `पान्तानां गुर्वादीनाम्` (फिट्।3।55) इति मध्योदात्तः। तस्यायमर्थः - पाशब्दान्तानां गुर्वादीनां द्वितीयमुदात्तं भवतीति। अथख `द्वितीयं प्रागीषात्` (फि।सू।3।50) इत्यत्रानुवर्तते, `स्पदि किञ्चिच्चलने` (धातुपाठः-14) अस्मात् `अनुदात्तादेश्च हलादेः` (3.2.149) इति युच् - स्पन्दनः, चित्स्वरेणान्तोदात्तः। `कृशृगृटिपटि{शौटिभ्यः -द।उ।}शटिभ्य ईरन्` (द।उ।8।72) करीर शब्दो नित्स्वरेणाद्युदात्तः। `कृशृगृकटिपटि{शौटिभ्यः द।उ।}शटिभ्य ईरन्` (द।उ।8।72) करीर शब्दो नित्स्वरेणाद्युदात्तः। `कृह्मभ्यामीषन्` (द।उ।9।9), `शृपृभ्यां {कित् -द।उ।}किच्च` (द।उ।9।10) इति शिरीषशब्दोऽपि नित्स्वरेणाद्युदात्तः। विकङ्गतपूलासयवासाश्च `ग्रामादीनां च` (फि।सू। 2।38) इत्याद्युदात्ताः॥ Prakriyasarvasvam ----------------- उवर्णान्तादुक्तार्थयोरञ् । दैवदारवम् ॥ Sutra Prayogas -------------- * **अलाबुनः** (भट्टिकाव्यम्): `तस्य विकारः फलमिति ओरन्` इति।