43137: कोपधाच्च¶
Padacheda: क-उपधात् | S | 5 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
After a word having क् as its penultimate, the affix अण् comes in the sense of modification or a part or both, as appropriate.
Vasu English Translation¶
After a word having क् as its penultimate, the affix अण् comes in the sense of modification or a part or both, as appropriate. This debars अञ्. Thus; तर्कु तार्क्कवम्, तित्तिडीक, तैत्तिडीकं; माण्डूकम्, दार्दुरूकम् माधूकम् ॥ The word तित्तिडीक &c have acute on the middle (Phit Su. II.16).
Kashika¶
ककारोपधात् प्रातिपदिकादण् प्रत्ययो भवति यथायोगं विकारावयवयोरर्थयोः। अञोऽपवादः। तर्कु — तार्कवम्। तित्तिडीक — तैत्तिडीकम्। माण्डूकम्। दार्दुरूकम्। माधूकम्॥
Siddhanta Kaumudi¶
अण् । अञोऽपवादः । तर्कु, तार्कवम् । तैत्तिडीकम् ॥
Balamanorama¶
कोपधाच्च - कोपधाच्च ।अ॑णिति शेषः । तत्र प्राण्योषधिवृक्षेभ्योऽवयवे विकारे च, इतरेभ्यस्तु विकारे एव तर्कु — तार्कवमिति । तर्कु इति प्रकृतिनिर्देशः । तर्कुर्नाम — वृक्षविशेषः, तस्यावयवो विकारो वेत्यर्थः ।ओर॑ञित्यस्यापवादोऽण् । तित्तिङीकशब्दो ‘लघावन्ते’ इति मध्योदात्तः ।अनुदात्तादेश्चे॑कत्यञोऽपवादोऽण् ।
Padamanjari¶
अञोऽपवाद इति । ठोरञ्ऽ ठनुदातादेश्चऽ इति प्राप्तस्य, तितिडीकादयः’लघावन्ते’ इत्यादिना मध्योदाताः ॥
Nyaas¶
अनुदात्तादेरन्यदिहोदाहरणम् इति। अनुदात्तादेरुत्तरसूत्रेणैव सिद्धत्वात्। दैवदारवम्, भाद्रदारवम् इति। देवदारुभद्रदारुशब्दौ पीतद्रवर्थानाम् (फि।सू।2।37) इत्याद्युदात्तौ। तस्यायमर्थः -पीतद्रुः अर्थो येषां ते पीतद्रवर्थाः, तेषां पीतद्रवर्थवचनानामादिरुदायो भवति॥दाधित्थम् इत्यादि। दध्नि तिष्ठतीति, कपौ तिष्ठतीति -सुपि स्थः` (3.2.4) इति कः,**अतो लोपः** (6.4.48) इत्यकारलोपः, पृषोदरादित्वात् सकारस्य तकारः,उपपदसमासः, समासस्वरेणान्तोदात्तौ। तेन दधित्थकपित्थशब्दावनुदात्तादी भवतः॥
Prakriyasarvasvam¶
उक्तार्थयोः कोपधादण्, दान्दशूकमिदं विषम् ।