43138: त्रपुजतुनोः षुक् ======================= **Padacheda:** त्रपु-जतुनोः | S | 6 | 2 | षुक् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix अण् with the augment षुक् comes in the sense of 'its modification' after the words त्रपुन् and जतुन्। Vasu English Translation ------------------------ The affix अण् with the augment षुक् comes in the sense of 'its modification' after the words त्रपुन् and जतुन्। This debars अञ् (4.3.139). As, त्रपुणो विकारः = त्रापुषम्; जातुषम् 'modification of *tin* and *lac*.' In these words denoting non-organic beings, the sense of अवयव is not denoted by the affix. Kashika ------- त्रपुजतुशब्दाभ्यामण् प्रत्ययो भवति विकारे, तत्सन्नियोगेन तयोः षुगागमो भवति। ओरञोऽपवादः। त्रपुणो विकारः त्रापुषम्। जातुषम्। अप्राण्यादित्वाद् नावयवे॥ Siddhanta Kaumudi ----------------- आभ्यामण् स्याद्विकारे एतयोः षुगागमश्च । त्रापुषम् । जातुषम् ॥ Balamanorama ------------ **त्रपुजतुनोः षुक्** - त्रपुजतुनो षक् । त्रापुषं जातुषमिति । त्रपुणो जतुनश्च विकार इत्यर्थः । Tattvabodhini ------------- **त्रपुजतुनोः षुक्** - त्रपुजतुनोः ।बिल्वादिभ्योऽणि॑त्यतोऽनुवर्तनादाह — अण्स्यादिति ।ओरञि॑त्यस्यायमपवादः । अप्राण्यादित्वादवयवे न भवतीत्याशयेनाह -विकारे इति । त्रापुषमिति । त्रपुणो विकारः । एवं जुतनो विकारो जातुषम् । Padamanjari ----------- अप्राण्यादित्वादिति । प्राण्योषधिवृक्षेष्वन्यतमत्वस्याभावादित्यर्थः ॥ Prakriyasarvasvam ----------------- आभ्यां विकारेऽण् षुक् च स्यात् त्रापुषं जातुषं तथा ॥