43133: आथर्वणिकस्येकलोपश्च

Padacheda: आथर्वणिकस्य | S | 6 | 1 |

इक | S | | | 6

लोपः | S | 1 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

The affix अण् comes in the sense of ‘this is his’ after the word आथर्वणिक and the penultimate इक् is elided.

Vasu English Translation

The affix अण् comes in the sense of ‘this is his’ after the word आथर्वणिक and the penultimate इक् is elided. This debars वुञ् (4.3.126). Thus आथर्वणिकस्यायम् = आथर्वणो धर्म आम्नाथोवा “the Atharvana i. e. the Law or the Tradition of the Atharvanikas”. The phrase चरणाद् धर्माम्नाययोः is understood here. This sutra is also a vartika.

Bhashya

आथर्वणिकस्येकलोपश्च (1702) (अणोऽधिकरणम्) (चकारार्थबोधकभाष्यम्) आथर्वणिकस्येकलोपश्चाण्च वक्तव्यः। आथर्वणः -धर्मः, आथर्वणः -आम्नायः। (अथर्वणशब्दव्यवस्थाभाष्यम्) इदमाथर्वणार्थमाथर्वणिकार्थं च चतुर्ग्रहणं क्रियते। वसन्तादिषु -अर्थवन्शब्द आथर्वणशब्दश्च पठ्यते। षष्ठेऽध्याये प्रकृतिभावार्थं ग्रहणं क्रियते। इदं चतुर्थमिकलोपार्थम्। द्विर्ग्रहणं शक्यमकर्तुम्। कथम्? तेन प्रोक्तम् (4.3.101) इति प्रकृत्य ऋषिभ्यो लुग्वक्तव्यः -वसिष्ठोऽनुवाकः, विश्वामित्रोऽनुवाक इत्येवमर्थम्। ततो वक्तव्यम् -अथर्वणो वेति। तेन सिद्धमथर्वा -इति आथर्वण, इति च। अथ वसन्तादिष्वाथर्वणशब्दः पठितव्यः, तत्र नैवार्थः प्रकृतिभावार्थेन, नापि -ःइकलोपार्थेन॥ (अव्यविकन्यायेन प्रयोगव्यवस्थाभाष्यम्) यदि वसन्तादिष्वाथर्वणशब्दः पठ्यते -अथर्वाणमधीते आथर्वणिक इति न सिध्यति। नैष दोषः। इहास्माभिस्त्रैशब्द्यं साध्यम् -अथर्वाणमधीते, आथर्वणमधीते, आथर्वणिक इति। तत्र द्वयोः शब्दयोः समानार्थयोरेकेन विग्रहोऽपरस्मादुत्पत्तिर्भविष्यति -अविरविकन्यायेन। तद्यथा -अवेर्मांसमिति विगृह्याविकशब्दादुत्पत्तिर्भवति -आविकमिति। एवमाथर्वणमधीत इति विगृह्य -आथर्वणिक इति भविष्यति। अथर्वाणमधीत इति विगृह्य -वाक्यमेव भविष्यति। तत्राभिसंबन्धमात्रं कर्तव्यम् -आथर्वणिकानामिदमिति। न चेदानीमन्यदाथर्वणिकानां स्वं भवितुमर्हति, अन्यदतो धर्मादाम्नायाद्वा॥

Kashika

अणित्येव। आथर्वणिकशब्दादण् प्रत्ययो भवति, तत्सन्नियोगेन चेकलोपः, तस्येदमित्येतस्मिन् विषये। चरणवुञोऽपवादः। आथर्वणिकस्यायम् आथर्वणो धर्म आम्नायो वा। चरणाद् धर्माम्नाययोः (वा० ४.३.१२६)॥

Siddhanta Kaumudi

अण् स्यात् । आथर्वणिकस्यायमाथर्वणः धर्म आम्नायो वा । चरणाद्वुञोऽपवादः ॥

Tattvabodhini

आथर्वणिकस्य। अथर्वणा प्रोक्तो वेदोऽथर्वा, अबेदोपचारात्। तमधीते। वसन्तादित्वाट्ठक्। दाण्डिनायनादिसूत्रे निपातनाट्टिलोपाऽभावः। अन्ये त्वाहुः - अथर्वणा प्रोक्तामधीते आथर्वणिकः। इह प्रोक्तेऽण्। ततः `छन्दोब्राआहृणानी`ति तद्विषयतायामाथर्वणशब्दस्यापि वसन्तादिषु पाठादध्येतरि ठक्, तस्य विधानसामर्थ्यात्प्रोक्ताल्लुह् नेति॥

Padamanjari

चरणवुञोऽपवाद इति । अथर्वणा प्रोक्तो वेदोऽभेदोपचारादथर्वा, तमधीते वसन्तादित्वाठठक्, - आथर्वणिकः, दाण्डिनायनादिसूत्रे निपातनाट्टिलोपाभावः । अथ वा - अथर्वणा प्रोक्तो वेदः’तेन प्रोक्तम्’ इत्यण् ततः’च्छन्दोब्राह्मणानि’ इति तद्विषयतायामाथर्वणशब्दस्यापि वसन्तादिषु पाठादध्येतरि ठक्, तस्य विधानसामर्थ्यात्’प्रोक्ताल्लुक्’ इति लुग्न भवति - आथर्वणिकः । पुर्वसूत्रमिदञ्च वार्तिके दर्शनात्सूत्रेषु प्रक्षिप्तम् ॥

Nyaas

मौर्वं काण्डम् इति। मूर्वाशब्दादवयवे प्रत्ययः। मौर्व भस्म इति। विकारे।इत उत्तरम् इत्यादिना वक्ष्यमाणानां प्रत्ययानां विषयविभागं दर्शयति। कथम् इति। केन प्रकारेणायं विभागो लभ्यते। प्रत्यक्षमर्थं पृच्छति - द्वयमपि`इत्यादि। यतो हेतोरेष विषयविभागो लभ्यते तद्दर्शयति। ततर् फलपाकान्ता ओषधः,पुष्पवन्तः फलवन्तश्च वृक्षाः, तद्विशेषा वनस्पतयः फलवन्त एव। तत्र वनस्पतिग्रहणेन वृक्षविशेषास्ततोऽन्येन गृह्यन्ते। वृक्षग्रहणे तु वनस्पतेरपि ग्रहणं विज्ञेयम्। `विकारावयवयोः इत्यादि। युगपदधिकारे ह्रणादीन् वक्ष्यामीत्येवमर्थो युगपदधिकारः। अणादीनामर्थनिर्देशार्थोऽपि कस्मान्न भवति? इत्याह - कृतनिर्देशो हि तौ इति। कृतनिर्देशो हि तावर्थौ तस्येदम् (4.3.120) इत्यनेनैव;तस्येदं विशेषत्वात् तयोः॥

Prakriyasarvasvam

अस्याण् स्यादिकलोपश्च । चरणत्वाद्धर्मान्नाययोरेव । आथर्वणाम् । इतः परं शैषिका न सन्ति ॥