43132: कौपिञ्जलहास्तिपदादण्¶
Padacheda: कौपिञ्जल-हास्तिपदात् | S | 5 | 1 |
अण् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix अण् comes in the sense of ‘this is his’ after the words 1. कौपिञ्जल 2. हास्तिपद।
Vasu English Translation¶
The affix अण् comes in the sense of ‘this is his’ after the words 1. कौपिञ्जल 2. हास्तिपद। This debars वुञ् (4.3.126). Thus कौपिञ्जलः, हास्तिपदः ॥ This sutra is really a Vartika.
Kashika¶
कौपिञ्जलहास्तिपदशब्दाभ्यामण् प्रत्ययो भवति तस्येदमित्येतस्मिन् विषये। गोत्रवुञोऽपवादः, गोत्राधिकारात्। कौपिञ्जलः। हास्तिपदः॥
Siddhanta Kaumudi¶
कुपिञ्जलस्यापत्यम् । इहैव निपातनादण् तदन्तात्पुनरण् । कौपिञ्जलः । गौत्रवुञोऽपवादः । हस्तिपादस्यापत्यं हास्तिपादस्यायं हास्तिपदः ॥
Tattvabodhini¶
इहैव निपातनादिति। हस्तिनः पाद इव पादो यस्य हस्तिपादः। पादस्य लोपो न भवति, `अहस्त्यादिभ्य`इति वचनात्। तदाह -हस्तिपादस्येति। हास्तिपद इति। अस्मादेव निपातनादण् पद्भावश्चेति भावः।
Padamanjari¶
गोत्रवुञोऽपवाद इति । कुत इत्याह - गोत्राधिकारादिति । कौपिञ्जल इति । कुपिञ्जलस्यापत्यम्, अस्मादेव निपातनादण्, तदन्तात्पुनरण् । हास्तिपद इति । हस्तिन इव पादावस्य हस्तिपादः, पादस्य लोपो न भवति; ठहस्त्यादिभ्यऽ इति वचनात् । हस्तिपादस्यापत्यम्’तस्यापत्यम्’ इति अस्मादेव निपातनादण्, पद्भावश्च, हास्तिपदस्येदम्, पुनरण् । अथाण्ग्रहणं किमर्थम् ? असत्यण्ग्रहणेऽनन्तरश्च्छः प्राप्नोति । सिद्धोऽत्र च्छः’वृद्धाच्छः’ इति ? न सिद्ध्यति;’गोत्रचरणाद् वुञ्’ इति वुञ्प्राप्नोति । एवं तर्हि यद्येताभ्यां च्छ इष्टः स्यात्, रैवतिकादिष्वेमेवौ पठेत्, एवं हि विभक्त्यनुच्चारणाल्लाघवं भवति । तस्मात्पृथगारम्भादेव छाए न भविष्यति । अन्यस्तु यो विहितो न च प्राप्नोति स एव भविष्यति, स चाणेव । एवं तर्ह्यसत्यण्ग्रहणे यत्र वुञ् प्राप्तः प्रतिषिध्यते, न दण्डमाणवान्तेवासिषु, तत्र वुञो विधानार्थमेतत्स्यातस्मादण्ग्रहणं कर्तव्यम् । णित्करणं ङीबर्थम्, पुंवद्भावप्रतिषेधार्थं च - कौपिञ्जली क्रिया अस्य कौपिञ्जलीक्रिय इति ॥
Nyaas¶
प्रकृतेरवस्थान्तरम् इति। प्रकृतेः कारणस्यावस्थान्तरम् = अनयथात्वम्। अप्राणी इति। प्राणिनः प्राणिरजतादिभ्योऽञ् (4.3.154) अञं वक्ष्यति। आद्युदात्तम् इति। अनुदात्तादेश्च (4.3.140) इत्यञं वक्ष्यति। अवृद्धम् इति। वृद्धान्मयटं वक्ष्यति -नित्यं वृद्धशरादिभ्यः (4.3.144) इति, यस्य च नान्यत् प्रतिपदं विधानमिति - गोपयसोर्यत्` (4.3.158) इत्येवमादि। ननु च अन् (6.4.167) इति प्रकृतिभावेन भवितव्यम्, तत्कथमाश्म इति भवति? इत्याह - अश्मनो विकार इति टिलोपः इति। टिलोपार्थमआमनो विकार इत्येतदुपसंख्यानं कृतम्। नित्सरेवाद्युदात्ता एते इति। अश्मादयः शब्दाः। तत्राश्मभस्मशब्दौ मनिन्प्रत्ययान्तत्वान्नत्स्वरेणाद्युदात्तौ। मृत्तिकाशब्दोऽपि तिकन्प्रत्ययान्तत्वात् - मृदस्तिकन् (5.4.39) इति। अथ तस्येति वचनं किमर्थम्, यावता तस्यग्रहणं प्रकृतमेव? इत्याह - {तस्यप्रकरणम् - प्राचीन मुद्रित वा} तस्य प्रकरणम् इत्यादि। तद्धि प्रकृतं तस्येति वचनं शैषिकैर्घादिभिः {सम्बद्ध -मु।पाठः} सम्बद्धम्। अतस्तदनुवृत्तौ तेऽप्यनुवर्तेरन्। अस्मस्तु तस्यग्रहणे क्रियमाणे पूर्वकं तस्येति वचनं निवर्तते। तस्मात् प्रकृतेऽपि तस्येति वचने शैषिक निवृत्त्यर्थं पुनस्तस्येत्युच्यत इति। ननु च प्रधानं घादयः, विधीयमानत्वात्; तस्येति तु वचनप्रधानम्, तदर्थत्वात्; तत्रायुक्ता गुणे निवर्तमाने प्रधानस्य निवृत्तिः प्रसज्येत, यथैव हि प्रकृतं तस्येति वचनं घादिभिः सम्बद्धं तथा अणादिभिरपि? नैष दोषः, उभयेषां हि निवृत्ती निष्पलः सूत्रस्यारम्भः स्यात्। विधेयस्य कस्यचिदभावात्, तस्मान्न भवत्युभयेषां निवृत्तिः। ननु चारम्भसामर्थ्यादुभयेषामन्यतमेषां निवृत्तिरित्येतावद्विज्ञायते। तत्क घादयो निवर्तन्ते? उताणादयः? सन्देह एव। सन्देहमात्रमेतत्, सर्वसन्देहेष्विदमुपतिष्ठते - व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणम् (व्या।प।75) इति। घादयो निवर्तन्त इत्येवं व्याख्यास्यामः, स्वरितत्वादणादीनामनुवृत्तिर्भविष्यति। ननु चास्वरित्वाद्धादीनामनुवृत्तिः, सैव तु तस्येति वचनेनाख्यायते शैषिकनिवृत्त्यर्थम्। विकारावयवयोः इत्यादिना विशेषं दर्शयति। केन पुनविकारावयवयोर्घादयः प्राप्नुवन्ति? तस्येदम् (4.3.120) इत्यनेनच तस्येदंविशेषत्वात् तयोः। हालः,सैरः इति। यदि शैषिका अनुवर्तेरंस्ततो हलसीरशब्दाभ्यां हलसीराट्ठक् (4.4.81) इति ठक् स्यात्। तन्निवृत्तौ त्वणेव भवति॥
Prakriyasarvasvam¶
वुञ् प्राप्तावण् । कौपिञ्जलम् । हास्तिपदम ॥