43133: आथर्वणिकस्येकलोपश्च ========================== **Padacheda:** आथर्वणिकस्य | S | 6 | 1 | इक | S | | | 6 लोपः | S | 1 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The affix अण् comes in the sense of 'this is his' after the word आथर्वणिक and the penultimate इक् is elided. Vasu English Translation ------------------------ The affix अण् comes in the sense of 'this is his' after the word आथर्वणिक and the penultimate इक् is elided. This debars वुञ् (4.3.126). Thus आथर्वणिकस्यायम् = आथर्वणो धर्म आम्नाथोवा "the *Atharvana* i. e. the Law or the Tradition of the *Atharvanikas*". The phrase चरणाद् धर्माम्नाययोः is understood here. This *sutra* is also a *vartika*. Bhashya ------- आथर्वणिकस्येकलोपश्च (1702) (अणोऽधिकरणम्) (चकारार्थबोधकभाष्यम्) आथर्वणिकस्येकलोपश्चाण्च वक्तव्यः। आथर्वणः -धर्मः, आथर्वणः -आम्नायः। (अथर्वणशब्दव्यवस्थाभाष्यम्) इदमाथर्वणार्थमाथर्वणिकार्थं च चतुर्ग्रहणं क्रियते। वसन्तादिषु -अर्थवन्शब्द आथर्वणशब्दश्च पठ्यते। षष्ठेऽध्याये प्रकृतिभावार्थं ग्रहणं क्रियते। इदं चतुर्थमिकलोपार्थम्। द्विर्ग्रहणं शक्यमकर्तुम्। कथम्? तेन प्रोक्तम् (4.3.101) इति प्रकृत्य ऋषिभ्यो लुग्वक्तव्यः -वसिष्ठोऽनुवाकः, विश्वामित्रोऽनुवाक इत्येवमर्थम्। ततो वक्तव्यम् -अथर्वणो वेति। तेन सिद्धमथर्वा -इति आथर्वण, इति च। अथ वसन्तादिष्वाथर्वणशब्दः पठितव्यः, तत्र नैवार्थः प्रकृतिभावार्थेन, नापि -ःइकलोपार्थेन॥ (अव्यविकन्यायेन प्रयोगव्यवस्थाभाष्यम्) यदि वसन्तादिष्वाथर्वणशब्दः पठ्यते -अथर्वाणमधीते आथर्वणिक इति न सिध्यति। नैष दोषः। इहास्माभिस्त्रैशब्द्यं साध्यम् -अथर्वाणमधीते, आथर्वणमधीते, आथर्वणिक इति। तत्र द्वयोः शब्दयोः समानार्थयोरेकेन विग्रहोऽपरस्मादुत्पत्तिर्भविष्यति -अविरविकन्यायेन। तद्यथा -अवेर्मांसमिति विगृह्याविकशब्दादुत्पत्तिर्भवति -आविकमिति। एवमाथर्वणमधीत इति विगृह्य -आथर्वणिक इति भविष्यति। अथर्वाणमधीत इति विगृह्य -वाक्यमेव भविष्यति। तत्राभिसंबन्धमात्रं कर्तव्यम् -आथर्वणिकानामिदमिति। न चेदानीमन्यदाथर्वणिकानां स्वं भवितुमर्हति, अन्यदतो धर्मादाम्नायाद्वा॥ Kashika ------- अणित्येव। आथर्वणिकशब्दादण् प्रत्ययो भवति, तत्सन्नियोगेन चेकलोपः, तस्येदमित्येतस्मिन् विषये। चरणवुञोऽपवादः। आथर्वणिकस्यायम् आथर्वणो धर्म आम्नायो वा। **चरणाद् धर्माम्नाययोः** (वा० ४.३.१२६)॥ Siddhanta Kaumudi ----------------- अण् स्यात् । आथर्वणिकस्यायमाथर्वणः धर्म आम्नायो वा । चरणाद्वुञोऽपवादः ॥ Tattvabodhini ------------- आथर्वणिकस्य। अथर्वणा प्रोक्तो वेदोऽथर्वा, अबेदोपचारात्। तमधीते। वसन्तादित्वाट्ठक्। दाण्डिनायनादिसूत्रे निपातनाट्टिलोपाऽभावः। अन्ये त्वाहुः - अथर्वणा प्रोक्तामधीते आथर्वणिकः। इह प्रोक्तेऽण्। ततः `छन्दोब्राआहृणानी`ति तद्विषयतायामाथर्वणशब्दस्यापि वसन्तादिषु पाठादध्येतरि ठक्, तस्य विधानसामर्थ्यात्प्रोक्ताल्लुह् नेति॥ Padamanjari ----------- चरणवुञोऽपवाद इति । अथर्वणा प्रोक्तो वेदोऽभेदोपचारादथर्वा, तमधीते वसन्तादित्वाठठक्, - आथर्वणिकः, दाण्डिनायनादिसूत्रे निपातनाट्टिलोपाभावः । अथ वा - अथर्वणा प्रोक्तो वेदः'तेन प्रोक्तम्' इत्यण् ततः'च्छन्दोब्राह्मणानि' इति तद्विषयतायामाथर्वणशब्दस्यापि वसन्तादिषु पाठादध्येतरि ठक्, तस्य विधानसामर्थ्यात्'प्रोक्ताल्लुक्' इति लुग्न भवति - आथर्वणिकः । पुर्वसूत्रमिदञ्च वार्तिके दर्शनात्सूत्रेषु प्रक्षिप्तम् ॥ Nyaas ----- `मौर्वं काण्डम्` इति। मूर्वाशब्दादवयवे प्रत्ययः। `मौर्व भस्म` इति। विकारे।`इत उत्तरम्` इत्यादिना वक्ष्यमाणानां प्रत्ययानां विषयविभागं दर्शयति। `कथम्` इति। केन प्रकारेणायं विभागो लभ्यते। प्रत्यक्षमर्थं पृच्छति - `द्वयमपि`इत्यादि। यतो हेतोरेष विषयविभागो लभ्यते तद्दर्शयति। ततर् फलपाकान्ता ओषधः,पुष्पवन्तः फलवन्तश्च वृक्षाः, तद्विशेषा वनस्पतयः फलवन्त एव। तत्र वनस्पतिग्रहणेन वृक्षविशेषास्ततोऽन्येन गृह्यन्ते। वृक्षग्रहणे तु वनस्पतेरपि ग्रहणं विज्ञेयम्। `विकारावयवयोः` इत्यादि। युगपदधिकारे ह्रणादीन् वक्ष्यामीत्येवमर्थो युगपदधिकारः। अणादीनामर्थनिर्देशार्थोऽपि कस्मान्न भवति? इत्याह - `कृतनिर्देशो हि तौ` इति। कृतनिर्देशो हि तावर्थौ **तस्येदम्** (4.3.120) इत्यनेनैव;तस्येदं विशेषत्वात् तयोः॥ Prakriyasarvasvam ----------------- अस्याण् स्यादिकलोपश्च । चरणत्वाद्धर्मान्नाययोरेव । आथर्वणाम् । इतः परं शैषिका न सन्ति ॥