43134: तस्य विकारः

Padacheda: तस्य | S | 6 | 1 |

विकारः | S | 1 | 1 |

Sutrartha


Vasu English Summary

An affix – प्राग्दीव्यतोऽण् (4.1.83) etc., comes after a word in the Genitive -6th-Case in construction in the sense of ‘a modification thereof’.

Vasu English Translation

An affix – प्राग्दीव्यतोऽण् (4.1.83) etc., comes after a word in the Genitive -6th-Case in construction in the sense of ‘a modification thereof’. The word विकार means the change of condition of the original. The word तस्य, though its anuvritti could have been supplied from the previous sutras, has been repeated here, in order to show that the governing force of शेषे (4.2.92) does not extend further. The affixes taught, therefore, under शेषे ((4.2.92) &c), such as घ, ख &c. have not the sense of तस्य विकार ॥

No affix has been taught here in this sutra: the general affix अण् (4.1.83) therefore will come in this sense, as well as the affixes to be taught hereafter. To give an example under this sutra, we must take such a word which is not governed or provided for, by the subsequent sutras. That is the word must not denote a living animal for to it अञ् (4.3.154) applies; it must have udatta on the first syllable, for an anudattadi will have अञ् (4.3.140); it must not have a Vriddhi vowel आ, ऐ, or औ in the first syllable, to which मयट् (4.3.144) applies; and it must not be a word specifically mentioned in any one of the following aphorisms. Thus it applies to the words अश्मन् and भस्मन् formed by मनिन् (Un*IV. 146,145) and to मृतिका formed by तिकन् (5.4.39) which are *adyudatta owing to नित् accent. Thus अश्मनो विकारः = आश्मनः ॥ The टि is sometimes elided. ((6.4.144) Vart) As आश्मः ॥ So also भास्मनः and मार्तिकः ॥

Bhashya

तस्य विकारः (1703) (विकारार्थप्रत्ययाधिकरणम्) (वार्तिकावतरणभाष्यम्) तस्येति वर्तमाने पुनस्तस्यग्रहणं किमर्थम्? (5525 तस्यपदप्रयोजनवार्तिकम्॥ 1 .।) - तस्यप्रकरणे तस्यपुनर्वचनं शैषिकनिवृत्त्यर्थम् - (भाष्यम्) तस्यप्रकरणे तस्यपुनर्वचनं क्रियते शैषिकनिवृत्त्यर्थम्। शैषिका निर्वन्त्यन्ते॥ (वार्तिकावतरणभाष्यम्) कथं च प्राप्नुवन्ति? (5526 प्रयोजनसाधकवार्तिकम्॥ 2 ॥) - तस्येदंवचनात् प्रसङ्गः - (भाष्यम्) तस्येदंविशेषा ह्येते -अपत्यम्, समूहः, निवासः, विकार इति॥ (सूत्राक्षेपसमाधानभाष्यवार्तिकम्) किमर्थमिदमुच्यते? बाधनार्थं कृतं भवेत्। ये तस् बाधकास्तद्वाधनार्थम्। कथं पुनरशैषिकः शैषिकं बाधते? उत्सर्गः शेष एवासौ॥ योह्युत्सर्गः सोऽपि शेष एव॥ (आक्षेपभाष्यम्) के पुनः शैषिकाणां विकारावयवयोः प्राप्नुवन्ति, यावता सर्वमद्यापवादैर्व्याप्तम्॥ (समाधानभाष्यम्) इह न किंचिदुच्यते -हलसीराट्ठक् (4.3.124) इति॥ कथं पुनरिच्छताऽप्यपवादः प्राप्नुवन् शक्यो बाधितुम्। तस्यग्रहणसार्मथ्यात्। किमिदं भवानध्यारुह्य तस्यग्रहणस्यैव प्रयोजनमाह, न पुनः सर्वस्यैव योगस्य। अवश्यमुत्तरार्थोऽर्थनिर्देशः कर्तव्यः। समर्थविभक्तिरपि तर्ह्यवश्यमुत्तरार्था निर्देष्टव्या। प्रकृता समर्था विभक्तिरनुवर्तते -तस्येदम् इति॥ (5527 सूत्रेणेष्टसाधनत्वाभावबोधकं वार्तिकम्॥ 3 ॥) - न वा संप्रत्ययः - (भाष्यम्) न वा संप्रत्यय इयता सूत्रेण, शैषिकाणां निवृत्तेः। न हि काको वाश्यत इत्येवाधिकारा निवर्तन्ते। यदि खल्वपि विकारावयवयोः शैषिका नेष्यन्ते, महता सूत्रेण निवृत्तिर्वक्तव्या॥ (5528 सूत्राक्षेपे वार्तिकम्॥ 4 ॥) - अवयवे चाप्राण्योषधिवृक्षेभ्योऽनिवृत्तिः - (भाष्यम्) अवयवे चाप्राण्योषधिवृक्षेभ्योऽनिवृत्तिरिष्टा, तत्र च निवृत्तिः प्राप्नोति। पाटलिपुत्रकाः प्राकाराः, पाटलिपुत्रकाः प्रासादा इति॥ (5529 सूत्राक्षेपे वार्तिकम्॥ 5 ॥) - अण्मयटोश्च विप्रतिषेधानुपपत्तिर्मयडुत्सर्गात् - (भाष्यम्) अण्मयटोश्च विप्रतिषेधो नोपपद्यते। पठिष्यति हि विप्रतिषेधम् -अणो वृद्धान्मयट् इति स विप्रतिषेधो नोपपद्यते। किं कारणम्? मयडुत्सर्गात्। निवर्तमानेषु शैषिकेषु वृद्धान्मयडुत्सर्गस्तस्याणपवादः, उत्सर्गापवादयोश्चायुक्तो विप्रतिषेधः॥ (5530 तस्यग्रहणाभावे इष्टसिद्धिबोधकमेकदेशिवार्तिकम्॥ 6 ॥) - अनुवृत्तौ हि छोत्सर्गापवादविप्रतिषेधान्मयट् - (भाष्यम्) अनुवर्तमानेषु शैषिकेषु वृद्धाच्छ उत्सर्गः। तस्याण्मयटावपवादौ। अपवादविप्रतिषेधान्मयड् भविष्यति॥ (तृतीयवार्तिकोक्ताक्षेपपरिहारभाष्यम्) यत्तावदुच्यते -न वा संप्रत्यय इयता सूत्रेण शैषिकाणां निवृत्तेः इति, संप्रत्यय एव। न ह्यत्राण् दुर्लभः। सिद्धोऽत्राण् तस्येदमित्येव। सोऽयं पुनस्तस्यग्रहणेन -तस्य सापवादस्याणः प्रसङ्गे इमं निरपवादकमणं प्रतिपादयति। तत्र ये तावत् द्वितीयास्तानयमपवादत्वाद्बाधिष्यते। ये तृतीयास्तान् परत्वात्। ये चतुर्थास्तत्र केचित्पुरस्तादपवादा अनन्तरान्विधीन् बाधान्ते इत्येवमिमं न बाधिष्यन्ते। केचिन्मध्येऽपवादाः पूर्वान् विधीन् बाधन्त इति। एतावन्तश्चैते स्युर्यदुत द्वितीयास्तृतीयाश्चतुर्था वा। न पञ्ञ्चमाः सन्ति न षष्ठाः॥ (चतुर्थवार्तिकोक्ताक्षेपपरिहारभाष्यम्) यदप्युच्यते -अवयवे च प्राण्योषधिवृक्षेभ्यो निवृत्तिः इति, प्राण्योषधिवृक्षेभ्यो निवृत्तिरुच्यते। तत्र कः प्रसङ्गो यदप्राण्योषधिवृक्षेभ्यो निवृत्तिः स्यात्॥ (पञ्ञ्चमवार्तिकोक्ताक्षेपपरिहारभाष्यम्) यदप्युच्यते -अण्मयटोश्च विप्रतिषेधानुपपत्तिर्मयडुत्सर्गात् इति, मा भूद्विप्रतिषेधः। पुरस्तादपवादा अनन्तरान् विधीन् बाधन्ते इत्येवमणञ्ञं बाधिष्यते, मयटं न बाधिष्यते॥

Kashika

तस्येति षष्ठीसमर्थाद् विकार इत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति। प्रकृतेरवस्थान्तरं विकारः। किमिहोदाहरणम्? अप्राण्याद्युदात्तमवृद्धम्, यस्य च नान्यत् प्रतिपदं विधानम्। अश्मनो विकार आश्मनः। आश्मः। अश्मनो विकारे (वा० ६.४.१४४) इति टिलोपः पाक्षिकः। भास्मनः। मार्त्तिकः। नित्स्वरेणाद्युदात्ता एते। तस्यप्रकरणे तस्येति पुनर्वचनं शैषिकनिवृत्त्यर्थम्। विकारावयवयोर्घादयो न भवन्ति। हालः। सैरः॥

Siddhanta Kaumudi

<!अश्मनो विकारे टिलोपो वक्तव्यः !> (वार्तिकम्) ॥ अश्मने विकारः आश्मः । भास्मनः । मार्तिकः ॥

Laghu Siddhanta Kaumudi

अश्मनो विकारे टिलोपो वक्तव्यः (वार्त्तिकम्) । अश्मनो विकारः आश्मः । भास्मनः । मार्त्तिकः ॥

Balamanorama

तस्य विकारः - अथ विकारार्थप्रत्यया निरूप्यते । तस्य विकारः । विक्रियते इति विकारः । कर्मणि घञ् । प्रकृतेकवस्थान्तरात्मिका विक्रियां प्राप्त इत्यर्थः । विकार इत्यर्थे षषथ्ठन्तादणादयः साधारणा, वक्ष्यमाणाश्च वैशेषिका यथाविहितं स्युरित्यर्थः । अश्मनो विकार इति । विकारार्थकप्रत्यये परे अश्मन्शब्दस्य टिलोपो वक्तव्य इत्यर्थः ।अ॑निति प्रकृतिभावापवादः । आश्म इति । अणि टिलोपे रूपम् । एवं चर्मणो विकारः चार्मः कोशः । ‘चर्मणः कोशे’ इत्युपसह्ख्यानाट्टिलोपः । भास्मन इति । भस्मनो विकार इत्यर्थः । अणिअ॑निति प्रकृतिभावान्न टिलोपः । मार्त्तिक इति । मृत्तिकाया विकार इत्यर्थः । अत्रप्राणिरजतादिभ्योऽञ् ‘ओरञ्’अनुदात्तादेश्चे॑त्यादिवक्ष्यमाणपवादविषयभिन्नमुदाहरणम् । तत्र अश्मन्, भस्मन्, चर्मन् इतित्रयं मनिन्प्रत्ययान्तं नित्स्वरेणाद्युदात्तम् । मृत्तिकाशब्दोऽपिमृदस्तिक॑न्निति तिकन्नन्तो नित्स्वरेणाद्युदात्तः ।

Tattvabodhini

तस्य विकारः - तस्य विकारः । षष्ठन्ताद्विकारे अणादयः स्युः । घादिसंबद्धस्यतस्य॑[इति]ग्रहणस्य निवृत्ये पुनस्तस्येत्युक्तम् । अणादयस्तु न निवर्तन्ते,प्राग्दीव्यतः॑प्राग्भवना॑दिति विशिष्टावधिरिच्चेदनाधिकृतत्वात् । इहप्राणिरजतादिभ्योञ्,ओरञ्,अनुदात्तादेश्च॑ मयड्वेतयोः॑,नित्यं वृद्धशरादिभ्यः॑,पिष्टाच्चे॑त्यादिभिरपवादानां वक्ष्यमाणत्वादप्राणि, आद्युदात्तम्, अवृद्धं , प्रतिपदमवक्ष्यमाणप्रत्ययं चोदाहरणमिति पर्यालोच्य ततैवोदाहरति -आश्मैत्यादि । अश्मन्भस्मन्शब्दौ मनिन्प्रत्ययान्तौ ।मृदस्तिकन् । निस्त्वरेण त्रयोऽप्याद्युदात्ताः । प्राचीनस्य तस्येत्यस्य निवृत्तत्वादधिकारोक्तप्रत्यया न प्रवर्तन्त इति नेह ठक् । हालः, सैरः ।

Padamanjari

प्रकृतेरिति । उपादानकारणस्य । अवस्थान्तरमिति अन्यथात्वम् । अपवादेनानाक्रान्तस्य विषयस्य दुर्लभत्वात्प्रश्नः । किमिहोदाहरणमिति । अप्राणीति । प्राणिभ्योऽञं वक्ष्यति । आद्यौदातमिति । अनुदातादेरप्यञं वक्ष्यति । अवृद्धमिति । वृद्धान्मयट्ंअ वक्ष्यति । यस्य च नान्यदिति । यथा’गोपयसोर्यत्’ इति । नित्स्वरेणेति । अश्मभस्मशब्दौ मनिन्प्रत्ययान्तौ ।’मृदस्तिकन्’ , मृतिका । तस्य प्रकरणे इति ।’तस्येदम्’ इत्यस्मिन् । पुनर्वचन शैषिकनिवृत्यर्थमिति । प्रकृतं हि तस्यग्रहणं शैषिकैर्घादिभिः सम्बद्धम्, अतस्तदनुवृतौ तेऽप्यनुवर्तेरन्, इदं त्वपूर्वं तस्य ग्रहणं क्रियामाणं घादिसम्बद्धस्य तस्यग्रहणस्य निवर्तकं घादीनपि निवर्तयति । ननु च विधेयतया प्रधानभूता घादयः, न ते गुणभूते तस्यग्रहणे निवर्तमानेऽपि निवर्तितुमर्हन्ति, न हि गुणानुवर्ति प्रधानम्, किं तर्हि ? प्रधानानुवर्ती गुणः ? सत्यम् ; तस्य ग्रहणसामर्थ्यात्प्रधानभूतानामपि घादीनां निवृत्तिः, अणाअदयस्तु ननिवर्तन्ते,’प्राग्दीव्यतः’ ‘प्राग्भवानात्’ इति च विशिष्टावधिपरिच्छेदेनाधिकृतत्वात् । विकारावयवयोरिति । परस्तातु प्राग्वहतेः’प्राग्घितात्’ इति चाधिकारान्तरेणावष्टब्धत्वादेव घादीनां निवृत्तिः सिद्धेति भावः । स्यादेतत् -मा भूवन्ननेन घादयः, तस्य ग्रहणेन निवर्तितत्वात् ;’तस्येदम्’ इत्यनेन तु प्राप्नुवन्ति, तस्येदंविशेषत्वाद्विकारावययवयोरिति ? तन्न;’तस्येदम्’ इत्येव विकारावयवयोरणादिषु सिद्धेषु पनस्तेषां विधानं शैषिकाणां बाधनार्थमेव । किं तर्ह्युच्यते - तस्येति पुनर्वचनं शैषिकनिवृत्यर्थमिति, यावता सूत्रप्रकृतिरेव शैषिकनिवृत्यर्था ? सत्यम् ; तस्य ग्रहणे त्वसति सूत्रप्रवृत्तिः शैषिकानपि विषयीकुर्यादिति तस्यग्रहणस्यैवायं भारः यदुत वै शैषिका निवर्तन्ते । हालः सैर इति । हलशब्दः’नव्विषयस्यानिसन्तस्य’ इत्याद्यौदातः । सीरशब्दः कन्प्रत्ययान्तत्वान्नित्स्वरेणाद्यौदातः, नात्र वक्ष्यमाणस्यापवादस्य कस्यचित्प्रसङ्ग इत्यण्भवति । इदं च योगविभागेनाणादिविधानस्य प्रयोजनं दर्शितम् । यदि हि’तस्य विकारः’ ‘बिल्वादिभ्यो’ ण्ऽ इत्येवापवादविधानार्थमुच्येत, ततो हलस्य विकार इत्यत्र’तस्येदम्’ इत्यनेन प्रत्ययो विधातव्यः, ततश्चाणं बाधित्वा’हलसीराट्ठक्’ इति ठक् प्राप्नोति, तथान्यस्मिस्तस्येदंविशेषे; योगविभागेन त्वणादीनां विधानादणेव भवति, तस्यग्रहणे तु घादीनां निवृत्तिः प्रयोजनम् । वृजीनां विकारो वार्ज इति, वृजिशब्दस्य फिट्सूत्रेषु विकल्पेनान्तोदातत्वविधानात्पक्षे आद्यौदातत्वादण् । यदि त्वत्र’तस्येदम्’ इत्यण्प्रत्ययः स्यात्; यदि वानेन घादयो विधीयेरन् ततो मद्रवृज्योः कन्निति कन्स्यात् । तथा त्रिगर्तानां विकारः त्रैगर्त इति, त्रिगर्तशब्दो बहुव्रीहिपूर्वपदप्रकृतिस्वरेणाद्यौदातः, अत्र प्रथमः’प्राग्दीव्यतो’ ण्ऽ प्राप्तः, जनपदलक्षणो वुञ् द्वितीयः, गर्तोतरपदलक्षणश्च्छस्तृतीयः, तदवधिग्रहणेन विहितो वुञ् चतुर्थः; अनेन त्वणेव भवति । यथा रंकूणां विकारो राङ्कव इति - अत्र’प्राग्दीव्यतोण्’ प्रथमः, तदपवादयोः ठवृद्धादपिऽ इति ठोर्देअशेठञ्ऽ इति वुञ्ठञोस्तुल्यकक्षयोरन्यतरो द्वितीयः,’कोपधादण्’ इति वा कच्छादिपाठाद्वाऽण्तृतीयः,’मनुष्यतत्स्थयोर्वुञ्’ चतुर्थः; अनेन त्वण् प्राप्त ओरञा बाधितः’कोपधाच्च’ इति प्रतिप्रसूयते । यदि तर्हि विकारावयवयोर्घादयो न भवन्ति पाटलिपुत्रस्यावयवाः पाटलिपुत्रकाः प्रासादा दति,’तस्येदम्’ इत्यत्रार्थे रोपधेतोः प्राचाम्ऽ इति वुञ्न प्राप्नोति ? नैष दोषः; प्राण्योषधिवृक्षेभ्यो हि घादीनामवयवे निवृत्तिः, तत्र कः प्रसङ्गो यदप्राण्योषधिवृक्षेभ्योऽवयवे निवृत्तिः स्यात् ! ॥

Nyaas

अञ्मयटोरपवादः इति। यदत्रानुदात्तादि तस्मात् अनुदात्तादेश्च (4.3.140) इति प्राप्तस्याञोऽपवादः। यद्वृद्धं ततः नित्यं वृद्धशरादिभ्यः (4.3.144) इति मयटः। तत्र बिल्वशब्दस्य प्रातिपदिकस्वरेणान्तोदात्तत्वे प्राप्ते बिल्वतिष्ययोर्वान्तस्वरितत्वम् (फि।सू।1।23) इति स्वरितत्वं भवति, उदात्तो वा। व्रीहिमुद्ग शब्दौ घृतादित्वादन्तोदात्तौ। मसूरगोधूम शब्दौ लघावन्ते द्वयोश्च बह्वषो गुरुः (फि।सू।2।42) इति मध्योदात्तौ। एवं गवेधुका शब्दोऽपि। इषेः क्सुः, इक्षुः। प्रत्ययस्वरेणान्तोदात्तः। वेणुः शब्दोऽपि विभाषा वेण्विन्धानयोः (6.1.215) इतिपक्षेऽन्तोदात्त एव। कर्पासीपाटली शब्दौ जातेरस्त्रीविषयादयोपधात् इति ङीषन्तौ। ङीष्प्रत्ययान्तत्वान्ङीष्प्त्ययस्वरेणान्तोदात्तौ। कर्कन्धू शब्दः अन्दूदृग्भूजम्बूकफेलूकर्कन्धूदिधिषूः (द।उ।1।176) इति निपातनान्मध्योदात्तः। कुटीर शब्दः लघावन्ते (फि।सू।2।42) इत्यादिना मध्योदात्तः। सर्व एते अनुदात्तं पदमेकवर्जम् (6.1.158) इत्यनुदात्तादयः। तेनाञ्बाधनार्थं ग्रहणमिति। अथाण्ग्रहणं किमर्थम्, न बिल्वादिभ्यो यथाविहितमेवोच्येत? नैवं शक्यम्; पाटलीशब्दो ह्यत्र वृद्धः पठते, तस्मादञो बाधके मयटि प्राप्ते पुनर्वचनादञेव स्यात्। अण्ग्रहणात् त्वणेव भवति। तस्मादण्ग्रहणं क्रियते॥यथायोगम् इति। प्राण्योषधिवृक्षेभ्यो विकारावयवयोः, अन्येभ्यस्तु विकारमात्र इत्येषो यतायोगार्थः। अञोऽपवादः इति। ओरञ् (4.3.137) , अनुदात्तादेः (4.3.138) इत्येताभ्यां प्राप्तस्य। तित्तिडीकमाण्डूक दर्दुरूकमधूक`शब्दाः `लघावन्ते (फि।सू।2।42) इत्यादिना मध्योदात्ताः,तेनानुदात्तादयो भवन्ति॥

Prakriyasarvasvam

अस्मिन्नर्थे प्राग्दीव्यतीया अणादयः स्युः । मृत्तिकाविकारो मार्त्तिकः,<!अश्मनो विकारे वा टिलोपः!> (वा० ६-४-१४४) इति वृत्तिः । आश्मनः । आश्मः । ‘चर्मणः कोशे टिलोपः’ । (वा० ६-४-१४४) चार्मः कोशः । अन्यत्र चार्मणं पात्रम् ॥