43128: शाकलाद्वा¶
Padacheda: शाकलात् | S | 5 | 1 |
वा | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The affix अण् optionally comes in the sense of ‘this is his congregation, mark, sign or hamlet’ after the word शाकल।
Vasu English Translation¶
The affix अण् optionally comes in the sense of ‘this is his congregation, mark, sign or hamlet’ after the word शाकल। This debars वुञ् ॥ Thus शाकलेन प्रोक्तमधीयते = शाकलाः (4.3.101) and (4.2.64), शाकलानाम् संघः = शाकलः or शाकलकः (4.3.126) meaning ‘a congregation, &c of the students of the science revealed by Sakala’.
Kashika¶
शाकलशब्दात् संघादिषु प्रत्ययार्थविशेषणेषु वाण् प्रत्ययो भवति तस्येदमित्येतस्मिन् विषये। वुञोऽपवादः। शाकल्येन प्रोक्तमधीयते, शाकलाः। तेषां संघः शाकलः, शाकलकः। शाकलोऽङ्कः, शाकलकोऽङ्कः। शाकलं लक्षणम्, शाकलकं लक्षणम्। शाकलो घोषः, शाकलको घोषः॥
Siddhanta Kaumudi¶
अण् वोक्तेऽर्थे पक्षे चरणत्वाद्वुञ् । शाकलेन प्रोक्तमधीयते शाकलास्तेषां सङ्घोऽङ्को घोषो वा शाकलः । शाकलकः । लक्षणे क्लीबता ॥
Balamanorama¶
शाकलाद्वा - शाकलाद्वा । शाकलेनेति । शकलशब्दात्प्रोक्ताणन्तादध्येतृप्रत्ययस्य लुकि शाकलशब्दात् ‘गोत्रचरणा’ दिति धर्माम्नाययोर्वुञोऽपवादोऽण् । तदभावे वुञ् ।
Padamanjari¶
वुञोऽपवाद इति । शाकलशब्दस्य चरणशब्दत्वात्, तद्दर्शयति - शाकलेन प्रोक्तमिति ॥
Nyaas¶
वुञोऽपवादः इति। चरणलक्षमस्य शाकलशब्दस्य चरणलक्षणत्वात्। शाकलाः इति। शाकल्यशब्दाद्गर्गादियञन्तात् कण्वादिभ्यो गोत्रे (4.2.111) इति प्रोक्तार्थेऽ ण्। आपत्यस्य च तद्धितेनाति (6.4.151) इति यलोपः। शाकल इति स्थिते तदधीते तद्वेद (4.2.59) इत्यण्, तस्य प्रोक्ताल्लुक् (4.2.63) -शाकलाः, तेषां सङ्घः शाकलः, शाकलक इति वा॥
Prakriyasarvasvam¶
अस्माच्चतुष्वर्थेषु वुञण् वा । शाकलकः शाकलो वा सङ्घादिः ॥