43128: शाकलाद्वा ================ **Padacheda:** शाकलात् | S | 5 | 1 | वा | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The affix अण् optionally comes in the sense of 'this is his congregation, mark, sign or hamlet' after the word शाकल। Vasu English Translation ------------------------ The affix अण् optionally comes in the sense of 'this is his congregation, mark, sign or hamlet' after the word शाकल। This debars वुञ् ॥ Thus शाकलेन प्रोक्तमधीयते = शाकलाः (4.3.101) and (4.2.64), शाकलानाम् संघः = शाकलः or शाकलकः (4.3.126) meaning 'a congregation, &c of the students of the science revealed by *Sakala*'. Kashika ------- शाकलशब्दात् संघादिषु प्रत्ययार्थविशेषणेषु वाण् प्रत्ययो भवति तस्येदमित्येतस्मिन् विषये। वुञोऽपवादः। शाकल्येन प्रोक्तमधीयते, शाकलाः। तेषां संघः शाकलः, शाकलकः। शाकलोऽङ्कः, शाकलकोऽङ्कः। शाकलं लक्षणम्, शाकलकं लक्षणम्। शाकलो घोषः, शाकलको घोषः॥ Siddhanta Kaumudi ----------------- अण् वोक्तेऽर्थे पक्षे चरणत्वाद्वुञ् । शाकलेन प्रोक्तमधीयते शाकलास्तेषां सङ्घोऽङ्को घोषो वा शाकलः । शाकलकः । लक्षणे क्लीबता ॥ Balamanorama ------------ **शाकलाद्वा** - शाकलाद्वा । शाकलेनेति । शकलशब्दात्प्रोक्ताणन्तादध्येतृप्रत्ययस्य लुकि शाकलशब्दात् 'गोत्रचरणा' दिति धर्माम्नाययोर्वुञोऽपवादोऽण् । तदभावे वुञ् । Padamanjari ----------- वुञोऽपवाद इति । शाकलशब्दस्य चरणशब्दत्वात्, तद्दर्शयति - शाकलेन प्रोक्तमिति ॥ Nyaas ----- `वुञोऽपवादः` इति। चरणलक्षमस्य शाकलशब्दस्य चरणलक्षणत्वात्। `शाकलाः` इति। शाकल्यशब्दाद्गर्गादियञन्तात् **कण्वादिभ्यो गोत्रे** (4.2.111) इति प्रोक्तार्थेऽ ण्। `आपत्यस्य च तद्धितेनाति` (6.4.151) इति यलोपः। शाकल इति स्थिते **तदधीते तद्वेद** (4.2.59) इत्यण्, तस्य प्रोक्ताल्लुक् (4.2.63) -शाकलाः, तेषां सङ्घः शाकलः, शाकलक इति वा॥ Prakriyasarvasvam ----------------- अस्माच्चतुष्वर्थेषु वुञण् वा । शाकलकः शाकलो वा सङ्घादिः ॥