43127: संघाङ्कलक्षणेष्वञ्यञिञामण्¶
Padacheda: संघ-अङ्क-लक्षणेषु | S | 7 | 3 |
अञ्-यञ्-इञाम् | S | 6 | 3 |
अण् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix अण् comes in the sense of ‘this is his’ after a गोत्र (Patronymic) word ending with the affix अञ् or यञ् or इञ् , the words so formed expressing a multitude, a mark or a sign.
Vasu English Translation¶
The affix अण् comes in the sense of ‘this is his’ after a गोत्र (Patronymic) word ending with the affix अञ् or यञ् or इञ् , the words so formed expressing a multitude, a mark or a sign. The word संघ means ‘congregation’. The word लक्षण and अङ्क should be distinguished. लक्षण means a mark which is the property of that person and forms a distinguishing feature of that person, as विद्या ‘learning’ is a लक्षण of the clan of Bidas, the Bidas being famous for learning. The word अङ्क is a mark which shows that the thing so marked is the property of another : as a mark on a cow showing to what person or clan that cow belongs. The अङ्क though occurring in a person or thing does not belong to that person or thing, as the mark of a cow does not belong to the cow, but the लक्षण is a mark which belongs to the person or thing wherein it is found.
This sutra debars वुञ् of the last aphorism.
Vart :- The word घोष ‘a cow-pen’, should also be read along with संघ &c. Thus the words so formed denote four things (1) congregation, (2) mark (3) sign (4) a hamlet or cowpen. This being so, the rule of mutual correspondence according to order of enumeration (1.3.10) does not apply.
Thus अञन्तात् (4.1.104) – बैदः ‘a congregation, or mark or sign or a hamlet of the Bidas’. यञन्तात् (4.1.105) — गार्ग्य + अण् = गार्गः (6.4.148), (6.4.151) “a congregation, or a mark, or a sign or a hamlet belonging to the Gargyas ?” इञन्तात् (4.1.95) — दाक्षि + अण् = दाक्षः (6.4.148) ‘a congregation &c of the Dakshis’.
The ण् of अण् could not serve the purpose of Vriddhi here, for all the words to which this affix is added, have Vriddhi by virtue of the affixes अञ्, यञ् or इञ् in which they end. The अ would have served the purpose as well, so far as Vriddhi is concerned, but अण् is used to show that the feminine is formed by ङीप् (4.1.15), Thus बैदी ॥ It further prevents पुंवद्भाव in compounds (6.3.39), as, बैदी विद्याऽस्य = बैदीविद्यः i.e. बिदानामसाधारणी या विद्या सा यस्यास्ति स ॥
Bhashya¶
सङ्घाङ्कलक्षणेष्वञ्ञ्यञ्ञिञ्ञामण् (1697) (अण्प्रत्ययाधिकरणम्) (5521 सिद्धान्तवार्तिकम्॥ 1 ॥) - सङ्घादिषु घोषग्रहणम् - (भाष्यम्) सङ्घादिषु घोषग्रहणं कर्तव्यम्। गार्गो घोषः, वात्सो घोषः। (एकदेशिनो णकारप्रयोजनभाष्यम्) किमर्थो णकारः? वृद्ध्यर्थः, ञ्ञ्णितीति वृद्धिर्यथा स्यात्॥ (5522 पूर्वपक्षवार्तिकम्॥ 2 ॥) - सङ्घादिषु प्रत्ययस्य णित्करणानर्थक्यं वृद्धत्वात्प्रातिपदिकस्य - (भाष्यम्) सङ्घादिषु प्रत्ययस्य णित्करणमनर्थकम्। किं कारणम्? वृद्धत्वात् प्रातिपदिकस्य। वृद्धमेवैतत् प्रातिपदिकम्॥ (5526 समाधानवार्तिकम्॥ 3 ॥) - लिङ्गपुंवद्भावप्रतिषेधार्थं तु - (भाष्यम्) लिङ्गपुंवद्भावप्रतिषेधार्थं तु णकारः कर्तव्यः। लिङ्गार्थम् -वैदी। पुंवद्भावप्रतिषेधार्थम् -वैदी स्थूणाऽस्य वैदीस्थूणः। वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधो यथा स्यात्॥
Kashika¶
संघादिषु प्रत्ययार्थविशेषणेष्वञन्ताद्, यञन्ताद्, इञन्तात् च प्रातिपदिकादण् प्रत्ययो भवति तस्येदमित्येतस्मिन् विषये। पूर्वस्य वुञोऽपवादः॥ घोषग्रहणमत्र कर्तव्यम्॥ तेन वैषम्याद् यथासंख्यं न भवति। अञन्तात् — बैदः संघः। बैदोऽङ्कः। बैदं लक्षणम्। बैदो घोषः। यञन्तात् — गार्गः संघः। गार्गोऽङ्कः। गार्गं लक्षणम्। गार्गो घोषः। इञन्तात् — दाक्षः संघः। दाक्षोऽङ्कः। दाक्षं लक्षणम्। दाक्षो घोषः। अङ्कलक्षणयोः को विशेषः ? लक्षणं लक्ष्यस्यैव चिह्नभूतं स्वं यथा विद्या बिदानाम् अङ्कस्तु गवादिस्थोऽपि गवादीनां स्वं न भवति। णित्करणं ङीबर्थं पुंवद्भावप्रतिषेधार्थं च। बैदी विद्यास्य बैदीविद्यः॥
Siddhanta Kaumudi¶
।<!घोषग्रहणमपि कर्तव्यम् !> (वार्तिकम्) ॥ अञ्, बैदः सङ्घोऽङ्को घोषो वा । बैदं लक्षणम् । यञ्, गार्गः । गार्गम् । इञ्, दाक्षः । दाक्षम् । परम्परासंबन्धोऽङ्कः साक्षात्तु लक्षणम् ॥
Padamanjari¶
पूर्वस्य युञोऽपवाद इति । गोत्रग्रहणानुवृतेरजादीनां गोत्रप्रत्ययानामत्र ग्रहणमिति भावः । घोषग्रहणमत्र कर्तव्यमिति । घोषः उ आभीरस्थानम्, तत्रपि प्रत्ययो यथा स्यादित्येवमर्थम् । घोषग्रहणस्यानुषङ्गिकं प्रयोजनान्तरमाह - तेन वैषम्यादिति । अथाङ्कलक्षणयोः को विशेष इति ॥ निघण्टुअषु पर्यायतया पाठान्नास्त्येव विशेष इत्यर्थः । पृथुगुपादानसामर्थ्याद्विशेषोऽत्राश्रीयताम् ? इत्याह - लक्षणं लक्ष्यस्यैवेति । स्वमात्मीयं सम्बन्धीत्यर्थः । बेदी विद्या अस्येति । बिदानामसाधारणी या विद्या सा यस्यास्ति स बैदीविद्यः ॥
Nyaas¶
तेन वैषम्याद्यथासंख्यं न भवति। असति तु घोषग्रहणे, अञादयस्त्रयः सङ्घादयोऽपि तत्र इति समानाद्यथासंख्यं स्यात्? घोषे च प्रत्ययो न स्यात्। बैदः इति। अनृष (4.1.104) इत्यादिनाञ्; तदन्तादण्। अङ्कलक्षमयोः को विशेष इति? नास्त्येव कश्चिद्विशेषः। पर्यायत्वादङ्कलक्षमयोरिति मन्यते। लक्षणम् इत्यादिना विशेषं दर्शयति। लक्षणं चिह्नं लक्ष्यस्यैव स्वम्, नान्यस्य; यथा विद्या बिदानाम्। बिदानामेव हि लक्षणानां सम्बन्धिनाम् नान्यस्य कस्यचित्। अङ्कस्तु गवादिस्थो न गवादीनां सम्भवति। किं तर्हि? ततोऽन्येषाम्, गवादिस्वामिनाम्। अथ किमर्थं गित्करणं प्रत्ययस्य, यावताञन्ताद्यञन्ताः प्रकृतयो वृद्धा एव? अत आह - णित्करणम् इत्यादि। बैदी विद्येत्यत्र ङीब् यथा स्यात्। इह च बैदीविद्य इत्यत्र वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे (6.3.39) इति पुंवद्भावप्रतिषेधो यथा स्यात्। एवमर्थं णित्करणम्,न वृद्ध्यर्थम्॥
Prakriyasarvasvam¶
सङ्घादिसम्बन्धिविशेषेषु वाच्येष्वञ्यञिञन्तेभ्योऽण् । <karika>अङ्को नाम स्वसम्बन्धिगवादौ कृतमङ्कनम् । स्वस्यैवाचारविद्यादिचिह्नं लक्षणमुच्यते ॥ २६१ ॥</karika> अञन्तात् वैदसम्बन्धी सङ्घो वैदः । एवमङ्को लक्षणं च । ‘घोषे चेति वाच्यम् । (वा०) । बैदो घोषः । यज्ञो-गार्गः सङ्घ इत्यादि चतुर्व्वर्थेषु । इञ्जो-दाक्षः सङ्घ इत्यादि ॥
Vartika¶
घोषग्रहणमपि कर्तव्यम् ।