43129: छन्दोगौक्थिकयाज्ञिकबह्वृचनटाञ्ञ्यः

Padacheda: छन्दोग-औक्थिक-याज्ञिक-बह्वृच-नटात् | S | 5 | 1 |

ञ्यः | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix ञ्य comes in the sense of ‘this is his Law or Tradition’ after the words 1. छान्दोग 2. औक्थिक 3. याज्ञिक 4. बह्वृच and 5. नट।

Vasu English Translation

The affix ञ्य comes in the sense of ‘this is his Law or Tradition’ after the words 1. छान्दोग 2. औक्थिक 3. याज्ञिक 4. बह्वृच and 5. नट। The anuvritti of संघ &c ceases. The ञ्य debars अण् and वुञ् ॥ The phrase चरणाद्धर्माम्नाययोः from sutra (4.3.126) is understood here and applies even to the word नटः ॥

Thus छन्दोगानां धर्मो वा ऽऽ म्नायो वा छान्दोग्यम् ‘the Law or Tradition peculiar to the Chhandoga.’ So also औक्थिक्यम्, याज्ञिक्यम्, बाह्वृच्यम् and नाट्यम् ॥

Not having this sense we have : छान्दोगं कुलम् ‘the family of Chhandoga.’

Kashika

संघादयो निवृत्ताः, सामान्येन विधानम्। छन्दोगादिभ्यः शब्देभ्यो ञ्यः प्रत्ययो भवति तस्येदमित्येतस्मिन् विषये। वुञणोरपवादः। चरणाद् धर्माम्नाययोः, तत्साहचर्याद् नटशब्दादपि धर्माम्नाययोरेव भवति। छन्दोगानां धर्मो वाम्नायो वा छान्दोग्यम्। औक्थिक्यम्। याज्ञिक्यम्। बाह्वृच्यम्। नाट्यम्। अन्यत्र छान्दोगं कुलमित्यादि॥

Siddhanta Kaumudi

छन्दोगानां धर्म आम्नायो वा छान्दोग्यम् । औक्थिक्यम् । याज्ञिक्यम् । बाह्वृच्यम् । नाट्यम् ।<!चरणाद्धर्माम्नाययोः !> (वार्तिकम्) ॥ इत्युक्तं तत्साहचर्यान्नटशब्दादपि तयोरेव ॥

Balamanorama

छन्दोगौक्थिकयाज्ञिकबह्वृचनटाञ्ञ्यः - छन्दोगौक्थिक । सङ्घादयो निवृत्ताः । छन्दोगादीनां चरणत्वात् धर्माम्नाययोरिति संबध्यते । छन्दोग, औक्थिक, याज्ञिक, बद्वृच, नट-एभ्यो धर्मे आम्नाये च इदंत्वेन विवक्षिते ञ्यः स्यादित्यर्थः । ननु नटस्य अचरणत्वात्तत्र धर्माम्नाययो कथमन्वय इत्याशङ्कते — चरणाद्धर्माम्नाययोरित्युक्तमिति ।यद्यपी॑ति शेषः । परिहरति-तत्साहचर्यादिति । तथापि छन्दोगादिसाहचर्यान्नटशब्दादपि धर्माम्नाययोरेव प्रत्यय इत्यर्थः ।

Tattvabodhini

छन्दोगौक्थिकयाज्ञिकबह्वृचनटाञ्ञ्यः - छन्दोगौक्थिक । सङ्घादयो निवृत्ताः । एभ्यो ञ्यः स्यात्तस्येदमित्यर्थे । चरणशब्देभ्यो बुञोऽपवादः, नटात्त्वौत्सर्गिकस्याऽणः ।धर्माम्नाययो॑रित्युक्तेर्नेह — छान्दोगं कुलमित्यादि ।

Padamanjari

वुञणोरपवाद इति । चरणशब्देभ्यो वुञोऽपवादः, नटादौत्सर्गिकस्याणः ॥

Nyaas

वुञणोरपवादः इति। छन्दोगादिभ्यश्चरणलणस्य वुञोऽपवादः। नटादौत्सर्गिकस्याणः॥

Prakriyasarvasvam

एभ्यश्चरणत्वाद्धर्म्माम्नाययोरेव ञ्यः । छन्दोगानां धर्मो वेदो वा छान्दोग्यम् । एवम् औक्थिक्यं, याज्ञिक्यं, बाह्वृच्यं, नाट्यम् ॥