43110: पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः

Padacheda: पाराशर्य-शिलालिभ्याम् | S | 5 | 2 |

भिक्षु-नटसूत्रयोः | S | 7 | 2 |

Sutrartha


Vasu English Summary

The affix णिनि comes in the sense of ‘enounced by him’ after the words 1. पाराशर्य and 2. शिलालिन् , the works enounced being भिक्षु-sūtra and नट-sūtra respectively.

Vasu English Translation

The affix णिनि comes in the sense of ‘enounced by him’ after the words 1. पाराशर्य and 2. शिलालिन् , the works enounced being भिक्षु-sūtra and नट-sūtra respectively. The affix णिनि is to be read into the sutra and not ढिनुक् ॥ The भिक्षुसूत्र and नटसूत्र are works treating of the duties of भिक्षुक ‘religious mendicants’ and नट ‘jugglers, dancers’.

Thus पाराशर्य + णिनि = पाराशर + णिनि (6.4.152) = पाराशरिन्, ‘the treatise of Parasarya on the duties of Bhikshus’. Similarly शैलालिन् ॥ These words, of course, have the additional sense of ‘he who studies the works so enounced by Parasarya and Sailalin’. See (4.2.66). As पाराशरिणो भिक्षवः, शैलालिनो नटाः ॥ According to some, it always expresses this relation (तद्विषयता (4.2.66)) and never a प्रोक्त alone. These are treated metaphorically as Chhandas.

Why do we say ‘denoting Bhikshu and Nata Sutras’? Observe पाराशरम्, शैलालम् ॥

Kashika

णिनिरिहानुवर्तते, न ढिनुक्। पाराशर्यशिलालिभ्यां णिनिः प्रत्ययो भवति तेन प्रोक्तमित्येतस्मिन् विषये । भिक्षुनटसूत्रयोरिति यथासंख्यं प्रत्ययार्थविशेषणम्। सूत्रशब्दः प्रत्येकमभिसंबध्यते। तद्विषयता चात्रेष्यते, तदर्थं छन्दोग्रहणमनुवर्त्यम्, गुणकल्पनया च भिक्षुनटसूत्रयोश्छन्दस्त्वम्। पाराशर्येण प्रोक्तमधीयते पाराशरिणो भिक्षवः। शैलालिनो नटाः। भिक्षुनटसूत्रयोरिति किम् ? पाराशरम्। शैलालम्॥

Siddhanta Kaumudi

पाराशर्येंण प्रोक्त भिक्षुसूत्रमधीयते पाराशरिणो भिक्षवः । शैलालिनो नटाः ॥

Balamanorama

पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः - पाराशर्येणेति । पराशरशब्दाद्गर्गादित्वाद्गोत्रे यञि-॒पाराशर्यः॑ व्यासः । इह त्वनन्तरापत्ये गोत्रत्वारोपाद्यञ् । तेन प्रोक्ते भिक्षुसूत्रे णिनिः, ततोऽध्येतृप्रत्ययस्य छस्य लुक् । पाराशरिण इति । जसि रूपम् । शैलालिन इति । शिलालिन्शब्दान्नटसूत्रे प्रोक्ते णिनौ टिलोपे शैलालिन्शब्दादध्येतृप्रत्ययस्याऽणो लुकि ‘शैलालिन’ इति जसि रूपमिति भावः ।

Tattvabodhini

पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः - पराशर्य । मण्डूकप्लुयाणिनिरिह सम्बध्यत इत्याह -णिनिः स्यादिति । तद्विषयताऽत्रेष्यते, तदर्थं छन्दोग्रहणमनुवर्त्त्यम् । सूत्रयोश्छन्दस्त्वं तु गौण्या वृत्त्या बोध्यम् । भिक्षुसूत्रमिति । चतुर्लक्षणीरूपम् । पाराशरिण इति । पाराशर्यो -व्यासः । अनन्तरापत्येऽपि गोत्रत्वेनोपचारात्गर्गादिभ्यः॑इति यञ् ।आपत्यस्य चे॑ति यलोपः । अध्येत्रणस्तुप्रोक्ता॑दिति लुक् । भिक्षुनटसूत्रयोः किम् । पराशरम् । शैलालम् ।

Padamanjari

तदर्थं च्छन्दोग्रहणमनुवर्त्यमिति । ननु तदनुवृतावपि कथं भिक्षुनटसूत्रयोश्च्छन्दस्त्वम् ? तत्राह - गुणकल्पनय चेति । उपचारस्य निमितभूतो धर्मो गुणो गुरुशुश्रूपणादिः, तन्निमिता कल्पना गुणकल्पना । पाराशरिण इति । पूर्ववद्यलोपः । शैलालिन इति । शिलामलते इति शिलाली, ठलं भूपणपर्याप्तिवारणेषुऽ इत्येतस्मात्’सुप्यजातो’ इति णिनिः, ततोऽस्मिन् णिनौ टिलोपः । पाराशरमिति । कण्वाद्यण् । शैलालमिति । औत्सर्गिकेऽणि’नान्तस्य टिलोपे सब्रह्मचारि’ इत्यादिना टिलोपः ॥

Nyaas

यथासंख्यम् इत्यादि। पाराशर्याद्भिक्षुसूत्रे प्रत्ययः शिलालिनो नटसूत्रे। तद्विषयता चात्रेष्यते इति। कथं पुनरिष्यमाणापि सा लभ्यते? इत्याह - तदर्थम् #इत्यादि। ननु चानुवर्तमानच्छन्दोहणेनैव तद्विषयता प्राप्नोति? न; भिक्षुवनटसूत्िरयोरच्छन्दसत्वादित्याह - गुणकल्पनया च इत्यादि। छन्दसस्तूपचारनिमित्तं यो धर्मः स इह गुणोऽभिप्रेतः, तद्धेतुका कल्पना। यथा छन्दो यदर्थमधीयते तथा सूत्रमपि तद्धेतुं सम्पादयति। भिक्षुनटयोरित्येवमादिकया गुणकल्पनया भिक्षुनटसूत्रयोश्छन्दस्त्वमौपचारिकम्। पाराशरिणः इति। पाराशर्यशबिदो गर्गादिषु वञन्तः, आपत्यस्य च तद्धितेऽनाति (6.4.151) इति यलोपः। शैलालिनः इति। नस्तद्धिते (6.4.144) इति टिलोपः।पाराशरम् इति। कण्वादिभ्यो गोत्रे (4.2.111) इत्यण्। शैलालम् इति। औत्सर्गिकोऽण्, नान्तस्य टिलोपे सबह्यहृचारिपीठ (वा।798) इत्यादिना टिलोपः॥

Prakriyasarvasvam

आभ्यां क्रमात् तत्प्रोक्ते भिक्षुसूत्रे नटसूत्रे च वाच्ये णिनिः । पाराशर्येण प्रोक्तं वेदान्तसूत्रमधीयानाः पाराशरिणः । अत्रापत्ययलोपः । शिलालिना प्रोक्तं नटसूत्रमधीयानाः शैलालिनो नटाः ॥