43111: कर्मन्दकृशाश्वादिनिः¶
Padacheda: कर्मन्द-कृशाश्वात् | S | 5 | 1 |
इनिः | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix इनि comes in the sense of ‘enounced by him’ the thing enounced being भिक्षु-sūtra and नट-sūtra after the words 1. कर्मन्द 2. कृशाश्व।
Vasu English Translation¶
The affix इनि comes in the sense of ‘enounced by him’ the thing enounced being भिक्षु-sūtra and नट-sūtra after the words 1. कर्मन्द 2. कृशाश्व। Thus कर्मन्दिनो भिक्षवः, ‘the mendicants who study the Bhikshu-sutra of Karmandin’. कृशाश्विनो नटाः ‘the actors who study the Nata Sutra of Krisasvin.’ Otherwise कार्मन्दकम् and काशीश्वम् ॥ See (4.2.66).
Kashika¶
भिक्षुनटसूत्रयोरित्येव। कर्मन्दकृशाश्वशब्दाभ्यामिनिः प्रत्ययो भवति तेन प्रोक्तमित्येतस्मिन् विषये यथासंख्यं भिक्षुनटसूत्रयोरभिधेययोः। अणोऽपवादः। अत्रापि तद्विषयतार्थं छन्दोग्रहणमनुवर्त्यम्। कर्मन्देन प्रोक्तमधीयते कर्मन्दिनो भिक्षवः। कृशाश्विनो नटाः। भिक्षुनटसूत्रयोरित्येव — कार्मन्दम्। कार्शाश्वम्॥
Siddhanta Kaumudi¶
भिक्षुनटसूत्रयोरित्येव । कर्मन्देन प्रोक्तमधीयते कर्मन्दिनो भिक्षवः । कृशाश्विनो नटाः ॥
Balamanorama¶
कर्मन्दकृशाश्वादिनिः - कर्मन्द । कर्मन्देन प्रोक्तं भिक्षुसूत्रमित्यर्थे, कृशाओन प्रोक्तं नटसूत्रमित्यर्थे च तृतीयान्तादिनिः स्यादिति यावत् । प्रत्यये अन्त्य इकार उच्चारणार्थः । कर्मन्दशब्दादिनिः । ततोऽध्येत्रणो लुक् । एवंकृशाइआनः॑ ।
Tattvabodhini¶
कर्मन्दकृशाश्वादिनिः - कर्मन्द । इहापि छन्दोनुवृत्त्यादि प्राग्वत् । भिक्षुनटसुत्रयोः किम् । कार्मन्दम् । कार्शआम् ।
Prakriyasarvasvam¶
भिक्षुनटसूत्रयोरेव । कर्मन्देन प्रोक्तं भिक्षुसूत्रमधीयानाः कर्मन्दिनो भिक्षवः । एवं कृशाश्विनो नटाः ॥