43109: छगलिनो ढिनुक्

Padacheda: छगलिनः | S | 5 | 3 |

ढिनुक् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix ढिनुक् comes in the sense of ‘enounced by him’ after the word छगलिन।

Vasu English Translation

The affix ढिनुक् comes in the sense of ‘enounced by him’ after the word छगलिन। The word छगलिन् being a word denoting the pupil of कलापी would have taken णिनि (4.3.104). This debars that. Thus छागलेयिनः ‘who study the Chhandas enounced by Chhagali’.

Kashika

छगलिन्शब्दाद् ढिनुक् प्रत्ययो भवति तेन प्रोक्तमित्येतस्मिन् विषये। कलाप्यन्तेवासित्वाद् णिनेरपवादः। छगलिना प्रोक्तमधीयते छागलेयिनः॥

Siddhanta Kaumudi

छगलिना प्रोक्तमधीयते छागलेयिनः ॥

Balamanorama

छगलिनो ढिनुक् - छगलिनो । छगलिन्शब्दाक्तविषये ढिनुक्प्रत्ययः स्यादित्यर्थः । कलाप्यन्तेवासित्वात्प्राप्तस्य णिनेरपवादः । छागलेयिन इति । ककार इत् । उकार उच्चारणार्थः । ‘ढिन्’ शिष्यते । ढस्य एय् । टिलोपः । ततोऽध्येतृप्रत्ययस्य लुगिति भावः । पाराशर्य णिनिः स्यादिति । ‘उक्तविषये’ इति शेषः । मण्डूकप्लुत्या णिनिरेवानुवर्तते इति भावः । पाराशर्येण प्रोक्तं भिक्षुसूत्रमित्यर्थे, शिलालिना प्रोक्तं नटसूत्रमित्यर्थे च तृतीयटान्ताण्णिनिः स्यादिति यावत् । भिक्षवः=संन्यासिनः, तदधिकारिकं सूत्रं भिक्षुसूत्रं=व्यासुप्रणीतं प्रसिद्धम् ।

Nyaas

छागलेयिनः इति। इहापि पूर्ववदेवाध्येतर्युत्पन्नस्याणो लुक् च तद्विषयता। एवमुत्तरयोर्योगयोर्वेदितव्यः॥

Prakriyasarvasvam

ढमात्रस्य एय् । छगलिन् एयिन्, ‘नस्तद्धिते’ (६-४-१४४) । छगलिना प्रोक्तमधीयानाः, छागलेयिनः ॥